विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 857, कुल 1001 में से
संदर्भ में पढ़ेंपतिपुत्रेषु शिष्ये सब्रह्मचारिषु ॥ एकरात्रमशौचं स्यान्मृते तु तथा सुते ॥ १० ॥ मुग्धाग्निनाशकाम्भोभिर्हतानामात्मघातिनाम् ॥ पतितानां च नाशौचं विद्युदिच्छाहताश्च ये ॥ ११ ॥ छत्रिव्रतिद्वहस्तचारितृणकोशकृदीक्षिताः ॥ नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥ १२ ॥ अतीतं वार्षिके शुद्धे पश्चाच्छुद्धिरिष्यते ॥ द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये ॥ १३ ॥ जातेः संवत्सरेः षड्भिर्मासेन परिकीर्तिता ॥ अष्टादशभि स्नानं षण्मासाश्च शोधनम् ॥ १४ ॥ जननमरणोर्दर्शाहन भवति न शौचविधिर्न विप्रभोज्यञ्चान्नं च भवति प्रतिग्रहो दोषो द्विपट्चतुष्पद्धान्य दक्षिणासु ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायामाशौचविधिवर्णनो नाम द्वात्रिंशादुत्तरशततमोऽ ध्यायः ॥ १२२ ॥ हंस उवाच ॥ अङ्गुष्ठग्रेस्मृतं देवं पित्र्यं तर्जनिमूलकम् ॥ अङ्गुष्ठमूले ब्राह्मं तु कनिष्ठायाश्च मालयन् ॥ १ ॥ उपस्पृशेत्तु ब्राह्मेण देवा दिव्येन तर्पयेत् ॥ पितॄन्पित्र्येण धर्मज्ञ मातुष्येण तथा पिवेत् ॥२॥ अविकार्य्य तथा जप्ये पूजने भाजने तथा ॥ अध्यापने भाष्यवृत्तौ भवेन्नान्यमना नरः॥३॥एतेष्वेव तु कार्येषु गुरूलापमपि सन्निधौ ॥ उद्धरेद्दक्षिणं पाणिं धृतोपानत् च पादुके ॥४॥ अविकाशं देवकार्यं पूजयेत्प्रयतैस्तथैव च ॥ भोजनं पितृकार्यं च बहिर्जानु न कारयेत् ॥५॥ न नाम दीक्षितस्येह गृहीयाद् वटुयः क्वचित् ॥ कुर्यात् केवलं नाम गृहीत्वेत्यमथापि व ॥६॥ याचमानं यथाशक्त्या न कुर्याद्विमुखं क्वचित् ॥ दैवं पूर्वाणिकं कार्यं त्वपराह्ने तु पैतृकम् ॥ ७ ॥ अतिथीनां तथा पूजा सर्वकालं विधीयते ॥ यदिशिष्टतमं लोके यच्चास्ति दयितं गृहे ॥ ८ ॥ तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा ॥ ९ ॥ प्रतिश्रुतं प्रयत्नेन दातव्यमृषिसत्तमाः ॥ अप्रयच्छंस्तदाप्नोति मूर्तीधुकृतसंशयम् ॥ १० ॥ नरकं महदाप्नोति शृगालश्चैव जायते ॥ माता पिता गुरुश्चैव ज्येष्ठो भ्राता तथा स्वसा ॥ ११ ॥ पितृव्यो मातुलश्चैव तथा मातृस्वसा द्विजाः ॥ पितृव्वसा तथा श्वश्रूःश्वशुरो वैष्णवं पदम् ॥ ॥ १२ ॥ मातामहश्च श्वशुरः पूजनीयाः प्रयत्नतः ॥ प्रत्युत्थानञ्च कर्त्तव्यं तेषां पूर्वाभिवादनम् ॥ १३ ॥ मातुलञ्च पितृव्यञ्च यदा स्यातां कनी यसौ ॥ नाभिवाद्यास्तु ते पूर्वं प्रत्युत्थानं तु कारयेत् ॥ १४ ॥ उच्छिष्टो न स्पृशेच्छीर्षं सर्वं प्राणस्तदाश्रयाः ॥ पूर्वां सन्ध्यां जपस्तिष्ठेदपासीन श्च पश्चिमाम् ॥ १५ ॥ मध्यन्दिने निशाकाले त्वर्धरात्रे विशेषतः ॥ चतुष्पथं न सेवेत उपसन्ध्ये तथैव च ॥ १६ ॥ नास्तिकं वेहनिन्द्रा ञ्च देवतानाञ्च कुत्सनम् ॥ द्वेषस्तम्भाभिमानौ च तैक्ष्ण्यं चैव विवर्जयेत् ॥ १७ ॥ परस्य दण्डं नोद्यच्छेद्वुद्धो नैवं निपातयेत् ॥ अन्यत्र पुत्रा च्छिष्याद्वा शिष्ट्यर्थं ताडनं स्मृतम् ॥ १८ ॥ न बाह्मणं परिवदेन्नक्षत्राणि न निर्दिशेत् ॥ तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥ १९ ॥