विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 891, कुल 1001 में से
संदर्भ में पढ़ेंयशस्तथा पुण्यं नाकपृष्ठेऽपि गीयते ॥ देवता यं विजानंति तस्य नाके गतिर्ध्रुवा ॥ ४ ॥ कीर्त्यमानं तथा सङ्गिभिः शृणोति यद्भूः स्वकर्म ॥ सुखमाप्नोति धर्मज्ञाः स्वर्गादपि परं नरः ॥ ५ ॥ यशः शोभा मनुष्यस्य परमं तस्य मण्डनम् ॥ यशसा वर्जितस्येह मण्डनं लाञ्छनं परम् ॥ ६ ॥ यशः प्रधानं पुरुषस्य लोके यशःप्रयानाद्धिदिवं प्रयान्ति ॥ लोकद्वये चापि यशोन्वितानां भवन्ति काष्ठा मनसा त्वरी याः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंसगीतासु यशःप्रशंसावर्णनो नामैकपञ्चाशदुत्तरशततमो ऽध्यायः ॥ २६१ ॥ हंस उवाच ॥ यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा ॥ देवाधीनाः प्रजा सर्वा यज्ञाधीनाश्च देवताः ॥ १ ॥ यज्ञो हि भगवान्विष्णुर्यत्र सर्वं प्रतिष्ठितम् ॥ यज्ञार्थं पशवः सृष्टा देवास्त्वौषधयस्तथा ॥ २ ॥ यज्ञार्थं पुरुषाः सृष्टाः स्वयमेव स्वयंभुवा ॥ यज्ञश्च भृत्यै सर्वस्य तस्माद्यज्ञपरो भवेत् ॥ ३ ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ धनं यद्यज्ञशीलानां दैवतं तं विदुर्बु धाः ॥ ४ ॥ ओषधीनां पशूनाञ्च यज्ञ एव परायणम् ॥ सब्रह्मश्च सकुल्यश्च नाकपृष्ठे महीयते ॥ ५ ॥ पशुस्तु योजितो यज्ञे तथैवौ षधयो द्विजाः ॥ यज्ञोपयुक्ता मोदन्ते त्रिदिवे नात्र संशयः ॥ ६ ॥ यज्ञेन सम्यक्पुरुषस्तु लोके स्पृश्यश्चानिन्द्यो दर्शनीयो ह्युपेत्यै प्राप्नोति सौख्यानि महानुभावास्तस्मात्प्रयत्नेन यजेत यज्ञैः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंस गीतासु यज्ञप्रशंसावर्णनो नाम द्विपञ्चाशधिकशततमोऽध्यायः ॥ २६२ ॥ हंस उवाच ॥ शीलं प्रधानं लोकेऽस्मिंस्तस्मिंश्च सर्वं प्रतिष्ठितम् ॥ शीलेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ १ ॥ क्रियाः शीलविहीनस्य भवन्ति विफलाः कृताः ॥ तस्याच्छीलवता भाव्यं पुरुषेण विजानता ॥ २ ॥ शीलेन देवराट्छक्रः सुरैश्वर्यमवाप्तवान् ॥ शीलेन धर्मराजोऽपि धर्मराजत्वमाप्तवान् ॥ ३॥ शीलेन वरुणो देवो राजराजत्व माप्तवान् ॥ शीलेन च कुबेरोऽपि धनाध्यक्षत्वमाप्तवान् ॥ ४ ॥ शीलेन सुखमाप्नोति स्वर्गं च मनुजोत्तमाः ॥ शीलेन लभतेऽभीष्टं युक्तं यत्र गत्वा न शोचति ॥ ५ ॥ शीलं समासाद्य समस्तकामानाप्नोति सुख्यान्युरुषः प्रधानः ॥ तस्मात्प्रयत्नेन नरेण शीलं समर्जनीयं युक्तं सदैव ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंसगीतासु शीलप्रशंसावर्णनो नाम त्रिपञ्चाशदुत्तरशततमो ऽध्यायः ॥ २६३ ॥ हंस उवाच ॥ दमेन युक्तः पुरुषः सर्वान्कामानवाप्नुयात् ॥ तस्मात्सर्वप्रयत्नेन दमः कार्यों विजानता ॥ १ ॥ इन्द्रियाणां जयो लोके दम इत्यभिधीयते ॥ नादान्तस्य क्रियाः काश्चिद्भवन्तीह द्विजोत्तमाः ॥ २ ॥ नादान्तः सिद्धिमन्वन्ति नादान्तो