विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 892, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० | तृ० खं० | अ० २६६ ॥४११॥ | ॥४११॥
गतिमभीप्सिताम् ॥ नाशान्तः श्रियमवाप्नोति नादान्तः किञ्चिदेव तु ॥ ३ ॥ पञ्चेन्द्रियस्य मर्त्यस्य यद्येकं छिद्रमिन्द्रियम् ॥ ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ ४ ॥ पुरुषार्थं परित्यज्य स्वार्थे च सततोत्थितः ॥ इन्द्रियाणां बुधस्तेषां स्वार्थे प्रयतन्नरः ॥ ५ ॥ इन्द्रियाणां प्रसङ्गेन गतिं गच्छति दारुणाम् ॥ विजित्य तान्येव नरः सर्वान्कामानवाप्नुयात् ॥ ६ ॥ दान्तः प्रमाशकमनुप्रयाति दान्तः पुमान्मोक्षपथं प्रयाति ॥ दान्तस्य दुःखं न हि किञ्चिदस्ति दान्तः समानोत्यखिलानिह कामान् ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनिगीति हंसगीतासु दमप्रशंसावर्णनो नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥२५४॥
॥ हंस उवाच ॥ ॥ सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥ १ ॥ सत्यं वेदेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥ तपो यज्ञश्च पुण्यञ्च पितृदेवर्षिपूजनम्॥२॥ आचार्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्॥ सत्यं यज्ञास्तथा वेदा मन्त्रा देवी सरस्वती ॥ ३ ॥ व्रतचर्या तथा सत्यमोंङ्कारः सत्यमेव च ॥ सत्येन वायुर्वहति सत्येनाभासते रविः ॥ ४ ॥ सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति ॥ सत्येन चापः क्षिपत्ति पर्जन्यः पृथिवीतले ॥ ५ ॥ पारणं सर्ववेदानां सर्वतीर्थावगाहनम् ॥ सत्यं च वदतो लोके समं स्यातां न वा समम् ॥ ६ ॥ अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ७ ॥ सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ॥ सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥ ८ ॥ मुनयः सत्यनिरताः सत्यस्थायिविदोत्तमाः ॥ स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥ ९ ॥ अप्सरोगणसंकीर्णैर्विमानैरुपयान्ति च ॥ वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥ १० ॥ अगाधे विमले शुद्धे सत्यतोये शुचिह्रदे ॥ स्नातव्यं मानसे तीर्थे ज्ञानं तत्परमं स्मृतम् ॥ ११ ॥ आत्मार्थं वा परार्थं वा पुत्रार्थे वा रिपोः कृते ॥ अनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ १२ ॥ यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ॥ हितं स्याद्येन भूतानां तत्तद्वाच्यं विजानता॥ १३॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ १४ ॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ॥ नासौ धर्मो यत्र नो सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनिगीति हंसगीतासु सत्यप्रशंसावर्णनो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ २५५ ॥
॥ हंस उवाच ॥ ॥ तपसो हि परं नास्ति तपसा विन्दते महत् ॥ प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ॥ १ ॥ तपसा तृप-