विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 893, कुल 1001 में से
संदर्भ में पढ़ेंदाने न ऋषीणां ज्ञानमेव च ॥ बह्वो दिवि मोदन्ते प्रसादात्तपसो जनाः ॥ २ ॥ तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥ आयुःप्रकर्षं भोगांस्तु तपसा विन्दते महत् ॥ ३ ॥ ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ॥ तपसा प्राप्यते सर्वं यत्किञ्चिन्मनसेप्सितम् ॥ ४ ॥ रसायनानि मन्त्राश्च विद्यास्त्वौषधयस्तथा ॥ नातस्तपसः सिद्धिं प्रयान्ति द्विजपुङ्गवाः ॥ ५ ॥ यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥ सर्वं तस्मादवाप्नोति परञ्चेह च मानवः ॥ ६ ॥ ब्रह्महा च सुरापश्च स्तेनश्च गुरुतल्पगः ॥ तपसा मुच्यते जन्तुः सर्वैश्चापि सुच्यते ॥ ७ ॥ तपसैव सुतेन मोक्षमाप्नोति मानवः ॥ शक्रैक्वस्त्वताम्भोपधनाधिपगुह्यतानैः ॥ ८ ॥ स्थानं महत्तरं प्राप्तं तथा रूद्राकैरपिद्विपैः ॥ न चास्ति तत्सुखं लोके यद्विना तपसा भवेत् ॥ ९ ॥ तपसैव सुखं सर्वमिति धर्मविदो विदुः ॥ अष्टाशीतिसहस्त्राणां मुनीनामूर्ध्वरेतसाम् ॥ १० ॥ तपसा दिवि मोदन्ते त्रिदशैः सहिता द्विजाः ॥ पुरुषस्तु समारम्भात्रिष्फलन्विक्ष्य चात्मनः ॥ ११ ॥ तपः कुर्यात्प्रयत्नेन न ह्यतप्तं प्ररोहति ॥ कीटाः पतङ्गाः पशवो वयांसि च तथा द्विजाः ॥ १२ ॥ स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ यद्दुस्तरं यद्दुगापं यद्दुर्गं यच्च दुष्करम् ॥ १३ ॥ सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमः ॥ यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥ १४ ॥ तस्मिंस्तप्तावतपः कुर्याद्यो वृत्तुहिकरं भवेता॥यात्किञ्चिदेनः कुर्वन्ति मनोवाक्कर्मभिर्जनाः॥१५॥तात्सर्वं विनुदन्त्याशु तपसैव तपोधनाः॥ तपसेव विशुद्धस्य ब्राह्मणस्य दिवौ कसः॥ १६ ॥ सत्याच्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥ ब्रह्मा प्रजेश्वरो देवो महादेवस्तथा द्विजाः ॥ १७ ॥ नित्यमेव तपस्यन्ति तपः परम दुस्तरम् ॥ यस्येदं भुवनं सर्वं यश्च सर्वमयोऽच्युतः ॥ १८ ॥ यश्च धाता जगत्पतिस्मिन्स विष्णुः परमेश्वरः ॥ नित्यमेव महाभागस्तपस्तप्यति दुश्चरम् ॥ १९ ॥ भगवान्वासुदेवस्तु तपः परमिहोच्यते ॥ अद्यो देवगणोलोके प्राप्नोति तपसा नरः ॥ २० ॥ त्रैलोक्यकरणस्यापि शक्तश्च तपसा भवेत् ॥ दिव्यानाञ्च तथास्त्राणां शक्तो भवति धारणात् ॥ २१ ॥ लोके सुराणां भुवि वा द्विजेन्द्रा न विद्यते तपसुरुपस्य किञ्चित् ॥ तपः प्रकर्षेण परेण लङ्घितं विद्यते यस्य महानुभावाः ॥२२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्नाति हंसगीतासु तपःप्रशं सावर्णनोनाम षट्पृष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६६ ॥ हंस उवाच ॥ वशे जगदिदं प्राहुः शूराबाहुषु लभ्पते ॥ शूराणामथ सर्वेषां शौर्यमेव विशिष्यते ॥ १॥ ब्राह्मणार्थे गवाथे वा स्वाम्यर्थ्य मित्रकारणे ॥ आहतौ ये प्रद्यन्ते नाकपृष्ठं ब्रजंति ते ॥ २॥ धननापहारे संप्राप्ते संप्राप्ते दारविप्लवे ॥ ३॥ ( आत्मनश्च परित्राणे युध्यमानो दिवं व्रजेत् ॥ ३ ॥ क्षत्रविद्वृद्धविप्राणां युद्धमेव परायणम् ॥ ) आत्मनश्च परित्राणे संप्राप्ते देशविप्लवे ॥३॥