विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 897, कुल 1001 में से
संदर्भ में पढ़ेंचिकित्स्यं न त्यजेदेनं यावज्जीवं द्विजोत्तमः ॥ ११ ॥ तस्य त्यागादवाप्नोति मानवो नरकं ध्रुवम् ॥ समृद्धं स्वामिनं यस्तु सेवित्वा पुरुषाधमः ॥ असंवृद्धं त्यजेत्पश्चाद् ध्रुवं नरकमृच्छति ॥ १२ ॥ यो नरः क्लेशमाप्नोति हीनस्वामिसेवनात् ॥ तत्तत्पीडस्य विन्दितुं ब्रह्मलोकाय वै द्विजाः ॥ ॥ १३ ॥ कृतघ्नः पुरुषो लोके कृतज्ञः सर्वभाक्तथा ॥ कृतज्ञः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ १४ ॥ मातरं पितरं पुत्रं याज्यमृत्विज मेव च ॥ स्वामिनं च गुरुं भृत्यं बान्धवं पशुमेव च ॥ १५ ॥ भार्या वापि द्विजश्रेष्ठा न त्यजेन्मनसा क्वचित् ॥ एषां तु पतति त्यागे ध्रुवं नरकमृच्छति ॥ १६॥ न त्यजेत तथैवाग्निं नाभिसुप्तांस्तथैवच ॥ देवतानां तथा विप्रास्त्यक्त्वा नरकमृच्छति ॥ १७॥छायायां यस्य विश्रान्तो नरः स्यात्पादपस्य तु ॥ तस्मात्पत्रं न हिंसेत कृतज्ञत्वमनुस्मरन् ॥ १८ ॥ कृतज्ञो धृतिमाप्नोति कृतज्ञश्च तथा यशः ॥ कृतज्ञो नाकमाप्नोति ब्रह्मलो कमथापि वा ॥१९॥ कृतज्ञैर्वसुधा सर्वा धार्यते सुमहात्मभिः ॥ २० ॥ कृतज्ञ एव यजते कृतज्ञस्तप्यते तपः ॥ यज्वा दाता तथा शूरः कृतज्ञश्च तथा भवेत् ॥ कृतज्ञस्त्यजते प्राणान्मित्रकार्य्ये तथा ध्रुवम् ॥ २१ ॥ यो ब्रह्मलोकस्तपसा न शक्यः प्राप्तुं द्विजेन्द्रा महतः सुकृच्छ्रात् ॥ तं ब्रह्म लोकं हि नरः कृतज्ञः प्राप्नोति शीघ्रं न हि संशयोऽत्र ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीति प्रति हंसगीतासु कृतज्ञतागुणनिरूपणो नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥ हंस उवाच ॥ आचारः स्वर्गजनन आचारः कीर्तिवर्धनः ॥ आचारश्च तथायु ष्यो धन्यो लोकसुखावहः ॥ १ ॥ सर्वलक्षणहीनोऽपि स सदाचारवान्नरः ॥ सर्वलक्षणलक्षण्योविद्वेयः पुरुषो वरः ॥२॥ आचारशिक्षिदो लोके सेवितव्यो विचक्षणैः ॥ श्रुतिस्मृत्युदितश्चैव सदाचारस्तथा परः ॥ आचारप्रभवं सौख्यं धनं च द्विजसत्तमाः ॥३॥ आचारयुक्तोऽब्रह्मविद् प्रयाति आचारावान्न भवत्यरोगः ॥ आचारवानेव चिरन्तु जीवदाचारवानेव भुनक्ति लक्ष्मीम् ॥ ४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे सुनीति प्रति हंसगीतास्वाचारवर्णनो नामैकसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७१ ॥ हंस उवाच ॥ शौचं देवाः प्रशंसन्ति शौचं ब्रह्मर्षि यस्तथा ॥ शौचयुक्तेन यद्दत्तं तदश्नन्ति दिवौकसः ॥१॥ सर्वेषामेव धर्माणां शौचं वा फलभागभवेत् ॥ शौचवानेव पुरुषो यथेष्टांङ्गतिमाप्नुयात् ॥ २ ॥ शरीरशौचं जलमृद्दिक्रतमलेशौचन्तु मनः प्रमाष्टिं ॥ मनो विशुद्धं पुरुषस्य यस्य स लोकमाप्नोति पितामहस्य ॥ ३ ॥ इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सुनीति प्रति हंसगीतासु शौचवर्णनो नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७२ ॥