विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 898, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥४२२॥ बृ० पुं० अ० २७४
॥ हंस उवाच ॥ तीर्थानुसरणं शौचं तीर्थानुसरणं तपः ॥ तीर्थाम्भोभिर्नराः पूता यान्ति नाक्रमसंशयम् ॥ १ ॥
तीर्थानुसरणं पुण्यं चाध्वना प्राप्यतेऽन्नरैः ॥ अध्वना क्षीणपापस्तु त्रिदिवं प्रतिपद्यते ॥ २ ॥
पाप्मनां पापशमनं विद्यते तपसा विना ॥ विद्यापघ्ना तथा तुल्यं विद्यते यत्प्रकीर्तितम् ॥ ३ ॥
बहुप्रकरणा यज्ञा नानासम्भारविस्तराः ॥ न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥ ४ ॥
दरिद्रैरप्यथा प्राप्तुं शक्यं यज्ञफलं द्विजाः ॥ तीर्थानुसरणं कृत्वा तस्मात्तीर्थपरो भवेत् ॥ ५ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ६ ॥
पापानां पापशमनं धर्मवृद्धिस्तथा सताम् ॥ विशेषैः सेवितं तीर्थं तस्मात्तीर्थपरो भवेत् ॥ ७ ॥
ये सामग्र्यो धनोपेतास्तीर्थानुसरणे रताः ॥ तेषां यज्ञफलावाप्तिर्नापि धनसंचयैः ॥ ८ ॥
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ॥ तीर्थं फलप्रदं ज्ञेयं नात्र कार्या विचारणा ॥ ९ ॥
कार्यान्तरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥ तीर्थयात्राफलं तस्य नास्ति स्नानफलं ततः ॥ १० ॥
अध्वानं क्लेशाद्दुःखेन तीर्थयात्राफलं भवेत् ॥ तीर्थानुसरणं पद्भ्यां तपः परमिहोच्यते ॥ ११ ॥
तदैव कृत्वा यानेन स्नानमात्रफलं लभेत् ॥ यस्यान्ये कुरुते शक्त्या तीर्थयात्रां तथा नरः ॥ १२ ॥
यानासनाभ्यां च तथा फलं तस्य चतुर्गुणम् ॥ तीर्थानुसरणं कृत्वा क्षेत्रमुपविजेन्द्रियः ॥ १३ ॥
फलं प्राप्नोति विप्रेन्द्रास्तीर्थाद्दशगुणं भवेत् ॥ छत्रोपानहहीनस्तु तथा शतगुणं लभेत् ॥ १४ ॥
छत्रोपानहहीनस्तु भैक्ष्याशी विजितेन्द्रियः ॥ महापातकजैर्घोरैः क्षिप्रं पापैर्विमुच्यते ॥ १५ ॥
न भैक्ष्यं पक्वपक्वे तु न च भैक्ष्यं प्रतिग्रहः ॥ सोमपानसमं भैक्ष्यं तस्माद्भैक्ष्यं समाचरेत् ॥ १६ ॥
लोकैस्मिन्द्विविधस्तीर्थः स्वच्छन्दो निन्दितस्तथा ॥ पुष्क राद्यास्तु ये तीर्थाः स्वप्रभावमहत्तराः ॥ १७ ॥
तेषां तीर्थप्रभावेण कूतः पूतः प्रतिग्रहः ॥ कण्वाश्रमाद्या ये तीर्थाः कण्वादीनां प्रभावतः ॥ १८ ॥
पुण्यास्ते कथिता लोके पापघ्नाः पुण्यवृद्धिदाः ॥ द्विपकारस्य तीर्थस्य सेवा ज्ञेया महाफला ॥ १९ ॥
ये तीर्थसेवानिरता द्विजेन्द्रास्ते पापहीना दिव्यमान्नुवन्ति ॥ तत्रोच्य काले सुचिरं सुखन्ते मानुष्यलोके सुखमाप्नुवन्ति ॥ २० ॥
इति श्रीधर्मोत्तरे तृ०क०मार्कण्डेयवज्रसंवादे सुनन्प्रीति हंसगीतासु तीर्थफलवर्णनो नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७३ ॥
हंस उवाच ॥ बहुप्रकरणा यज्ञा नानासम्भारविस्तराः ॥ न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥ १ ॥
दरिद्रैरप्यथावाप्तुं शक्यं यज्ञफलं द्विजाः ॥ सदोपवासनिरतैरस्तस्मादुपवसेन्नरः ॥ २ ॥
यावन्मासोपवासस्तु तावत्तप इहोच्यते ॥ अनशनक्रमं ऊर्ध्वं द्विजातीनां प्रकीर्तितम् ॥ ३ ॥ षष्ठकाला-
॥४२२॥