विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 899, कुल 1001 में से
संदर्भ में पढ़ें...शने शुद्धे तपः परमिहोच्यते ॥ वर्णसंकरजातीनां दिनमेकं प्रकीर्तितम् ॥ ४ ॥ षट्कालात्परं शुद्धस्तपः कुर्याद्यथा क्वचित् ॥ रात्रौ हानि- स्तदा ज्ञेया राज्ञश्चापद्रवो महान् ॥ ५ ॥ शूद्रस्तु षट्कालांशी यावच्छक्त्या तपश्चरेत् ॥ मासोपवासाद्गार्ग्यात्तथा शक्त्या द्विजोत्तरेत् ॥ ६ ॥ नास्ति गङ्गासमं तीर्थं नास्ति कृष्णसमा गतिः ॥ गायत्रीसदृशो जप्यो होमं व्याहृतिभिः समम् ॥ ७ ॥ अन्तर्जले तथावाप्तिः पापक्ष- मयमर्पणात् ॥ अहिंसासदृशं पुण्यं दानात्संसवनं परम् ॥ ८ ॥ एवमेव द्विजा नास्ति तपो नानशनात्परम् ॥ उपवासैः प्रततानां दूर्ध्वं सुखम- नन्तरम् ॥ ९ ॥ उपवासतपःशीला नाकेलोकमुपागताः ॥ मोदन्ते त्रिदशैः सार्धं यथा देवगणास्तथा ॥ १० ॥ पापानां पापशमनं सतामी- प्सितकामदम् ॥ उपवासो विनिर्दिष्टो विशेषाद्देवताश्रयः ॥ ११ ॥ उपवासप्रसक्तानां प्रसादसुमुखाः सुराः ॥ यथेच्छमपि जायन्ते नात्र कार्या विचारणा ॥ १२ ॥ वासुदेवमपाश्रित्य नरः सम्यगुपोषितः ॥ अनन्तफलमाप्नोति त्यजन्तः संयतो हरिः ॥ १३ ॥ वासुदेवमपाश्रित्य ब्राह्मणे- र्येकपोषितम् ॥ तेनापि न निवर्तन्ते समुद्धृत्य श्वापगाः ॥ १४ ॥ उपोषिता ये विधिवन्मनुष्यास्ते नाकमासाद्य सुरोपमानाः ॥ देवाङ्गनाभिः सहिता मनुष्या भवन्ति लोके गतसर्वदुःखाः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनिन्प्रति हंसगीतसुपवासफ- लवर्णनो नाम चतुःसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७४ ॥ हंस उवाच ॥ मनःसमाधियुक्तैस्तैर्हंसांनुसारणाफलम् ॥ प्राप्नोति सुमहाद्विप्रास्तथा सम्यगुपोषितः ॥ १॥ सर्वं एव मनुष्यस्य सर्वकर्मसु साधकम् ॥ मनसा तु विशुद्धेन यद्यदाचरते नरः ॥२॥ न तद्बहुफलं तस्य भैक्ष्यं चेह च जायते ॥ मनो हि परमं भूतं तच्छौचे प्रयतेत्सङ्गी ॥ मनःशौचयुतो जन्तुर्नरकं न प्रपद्यते ॥ नाकेलोकमवाप्नोति त्यथ वा परमे पदम्॥४॥ गुणैस्तु सह यो वासो गतदोषस्य मानदाः ॥ उपवासस्स विज्ञेयो न शरीरस्य शोषणम्॥५॥ निर्मले सुसुखे शुद्धे सत्यकूले महाह्रदे ॥ स्नातव्यं मानसे तीर्थे तद्धि तीर्थमनुत्तमम् ॥ ६॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणमच्युताः ॥ यमो वैवस्वतो देवो यस्त्वैष हृदि स्थितः ॥ आत्मनश्श्वाविवादश्चेन्मा गङ्गां मा कुरुन्गमः ॥७॥मनो लाघवदं कर्म सततं तु समाचरेत् ॥ सर्वाणि तस्य पुण्यानि भवन्त्यभ्यधिकानि तु ॥८॥ मनःशौचसमायुक्तो यानि मर्त्यो निषेवते॥मन एव मनुष्यस्य पूर्व्वरूपाणि शंसति॥९॥ मन एव विजानाति कर्मणो गुरुलघवम्॥आस्त्यं शौचं शौचं शौचं शारीरमेव च॥ १०॥ सर्वाणि तस्य शौचानि यस्य शुद्धं मनः सदा ॥ मनःशुद्धिविहीनस्य सर्वं शौचा निरर्थकाः ॥११॥ न तु सा कृत्रिमा शक्या कर्तुं नास्तिक्य- वर्जितैः ॥ यस्य दोषपरित्यक्तं गुणाधीनं सदा मनः ॥ १२ ॥ स एव यजते यज्ञैः स एकस्तपते तपः ॥ स एकः सर्वमाप्नोति यत्किञ्चिन्मनसे