विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 901, कुल 1001 में से
संदर्भ में पढ़ेंनित्यस्नायी नरोत्तमः ॥ बुद्धिबुद्धिकरं स्नानं ज्ञानं सौभाग्यवर्धनम् ॥ १५ ॥ अलक्ष्म्याः शमनं स्नानं ज्ञानं दरिद्रनाशनम् ॥ प्रातः क्रियासमर्थः तथा भवति मानवः ॥ १६ ॥ शिरसा तु विना स्नातौ न स्नातः परिकीर्तितः ॥ कल्पेदसमर्थः स्नाने तु प्राप्ते भोजनकर्मणि ॥ १७ ॥ ध्रुवं समाचरेत्स्नानं स्वर्गमार्गप्रदर्शकम् ॥ शिरःस्नातस्तु कुर्वीत दिव्यं पित्र्यं द्विजोत्तम ॥ १८॥ दिव्यपित्र्याणि कर्माणि नास्नातस्तु समाचरेत् ॥ विनापि तीर्थसलिलाद्देवे पित्र्ये च कर्मणि ॥ १९ ॥ सदा समाचरेत्स्नानं देहशुद्धिकरं परम् ॥ स्नानादेव परं पुण्यं तीर्थस्नातः समश्नुते ॥ २० ॥ भूमिष्ठमुदकं पुण्यं तस्मात्प्रस्रवणोदकम् ॥ ततश्च नैर्झरन्तोयं नैर्झरादपि सारसम् ॥ २१ ॥ सारसाद्धि नादेयं तस्मात्साधुपरिग्रहम् ॥ सैंधव्यश्च तथा पुण्यं कथितं जाह्नवीजलम् ॥ २२॥ गङ्गाप्लवाज्ञा दिवि देवभोगाञ्छुभांश्चिरं प्राप्य मनुष्यभावम् ॥ भवन्ति लोके शुचिनः सुतृप्ता यशोन्विता धर्मपरा विबुद्धाः ॥२३॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे दुर्लभोत्पत्ति हंसगीतासु स्नानवर्णनोनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः॥२७७॥ हंस उवाच ॥ जप्यं सिद्धिकरं लोके द्विजानां परिकीर्तितम् ॥ जप्येन सिद्धिमाप्नोति विशेषेण द्विजोत्तमाः॥ १॥ जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ॥ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २ ॥ दर्भासने सुखासीनस्त्वथ वापि कुशासने¹ ॥ जप्यं समाहितः कुर्यादथ वापि समुत्थितः ॥ ३ ॥ पूर्वोत्तराभिमुखः सूर्यस्याभिमुखोऽपि वा ॥ दर्भपाणिर्द्विजश्रेष्ठो ज्ञात्वा धर्मस्य निश्चयम् ॥ ४ ॥ ऋषिं मन्त्रस्य विज्ञाय च्छन्दो दैवतमैव च ॥ विनियोगं जपं कुर्यादन्यायन्यं मन्ददेवताम् ॥ ५ ॥ नातिद्रुतेन कर्तव्यं न चैवातिविलम्बितम् ॥ वर्णांस्तुचारयेत्सर्वाञ्जप्यकाले द्विजोत्तमाः ॥ ६ ॥ मन्त्रभावं तथोद्दिश्यान्यथाशक्ति हृदान्वितः ॥ स्वाध्यायस्तु भवत्युच्चैरूपांशुर्जप्य उच्यते ॥ ७॥ मनसा तु तथा जाप्यं तस्माद्दशगुणं स्मृतम् ॥ अक्षसूत्रैस्तु कर्तव्यो रुद्राक्षैर्द्विजसत्तमाः ॥ ८॥ पद्माक्षैर्वा महाभागास्त्वथ वा पुत्रजीविकैः ॥ मुक्ताफलैर्विद्रुमेण रुक्मेण स्फटिकेन वा ॥९॥ कुशगुणेन वा विप्राः सम्यग्ग्रंथिमता सता ॥ गणनं वा तथा कुर्यात्स्वंगुलिपर्वभिः ॥१०॥ एवं कृत्वा द्विजा जप्यमवश्यं मन्ददेवताम् ॥ आराध्य तु तदाप्नोति यद्यदिच्छति चेतसा ॥ ११ ॥ जपेन सिद्धिमाप्ताथ ब्रह्मलोकमवाप्नुयात् ॥ जपेन मुच्यते पापाज्जप्येन त्रिदिवं व्रजेत् ॥ १२ ॥ जप्येन मोक्षमाप्नोति तस्माज्जप्यपरो भवेत् ॥ अकामकं जपेन ध्रुवं मोक्षमवाप्नुयात् ॥ १३॥ कामक मस्तदाप्नोति यं कामं मनसेच्छति ॥ संसिद्धा ऋषयः सर्वे जप्येनैव द्विजोत्तमाः ॥१४॥
¹ 'दिव्यासने' इति ख० पुस्तके।