सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 905, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 905

मानुष्ये च न तत्सुखम् ॥ समाधिं निश्चलं प्राप्य यत्सुखं विन्दते नरः ॥१०॥ समाधिं पुरुषः प्राप्य त्यक्त्वा देहनिबन्धनम् ॥ व्याप्नोति सकलाँल्लोकाँस्त्रैलोक्यं सचराचरम् ॥११॥ तच्च व्याप्नोति पुरुषस्त्रैलोक्यादपि यद्वहिः ॥ अनन्तत्वमवाप्नोति समाधिं प्राप्य मानवः ॥१२॥ जन्ममृत्युजराव्याधिशोकदुःखादिवर्जितः ॥ सर्वगः सर्वसंहारी सर्वेन्द्रियगुणात्मकः ॥१३॥ सर्वत्र सर्वदा विप्राः स तस्यां नात्र संशयः ॥ पुरुषत्वमथाभ्येति सर्वशक्तित्वमेति च ॥ १४ ॥ संयम्य चेतः खलु धारणासु ध्यानं समाहृत्य ततस्तु पश्चात् ॥ समाधिमास्थाय परेण पुंसा तुल्यत्वमायाति महानुभावः ॥१५॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु समाधिवर्णनो नाम चतुरशीत्युत्तरद्विशततमोऽध्यायः ॥ २८४ ॥

ऋषय ऊचुः ॥

स्थानस्य महतः प्राप्तौ यन्मूलं द्विजसत्तम ॥ तदस्माकं समाचक्ष्व सर्वं प्रत्यक्षलक्षणम् ॥ १ ॥

हंस उवाच ॥

प्राप्नुवंति नराः सर्वे व्यवसायपुरःसराः ॥ व्यवसायाच्चिद्वितीयानां नास्ति लोके सुदुर्लभम् ॥ २ ॥ व्यवसायः परो बन्धुः सहायस्तदनंतरम् ॥ तेन युक्तः पुमान्सम्यक्प्राप्नोतीति विनिश्चितम् ॥ ३ ॥ धर्मे चार्थे च कामे च मोक्षे च ऋषिसत्तमाः ॥ भाजनन्तु सदा ज्ञेयो नरस्तु व्यवसायवान् ॥ ४ ॥ व्यवसायविहीनानां स्वल्पोऽप्यर्थोऽस्ति दुर्लभः ॥ व्यवसायविहीनानामलसानां दुरात्मनाम् ॥ ५ ॥ करप्राप्तोऽपि सहसा क्षिप्रमर्थो विनश्यति ॥ व्यवसायविहीनस्तु स्थाणुना नातिरिच्यते ॥ ६ ॥ तस्मान्नरा ये व्यसनाय युक्तास्ते कामभाजः कथितास्तु लोके ॥ तेषामयं चैव परश्च लोकस्तेषां तथा मोक्षपथो न दूरे ॥ ७ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु व्यवसायवर्णनो नाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८५ ॥

हंस उवाच ॥

सर्वकर्मप्रधानस्य व्यवसायस्य मानदाः ॥ मूलमेकं विनिर्दिष्टं संकल्पो नात्र संशयः ॥ १ ॥ संकल्पमूलः कामो वै ज्ञानं संकल्पबन्धनम् ॥ संकल्पबन्धना वेदा धर्मः सङ्कल्पबन्धनः ॥ २ ॥ संकल्पबन्धनश्चार्थो मोक्षः संकल्पबन्धनः ॥ संकल्पबन्धनं सर्वं जगदेतच्चराचरम् ॥ ३ ॥ आदौ निश्चित्य यत्कर्म मनसा बुद्धिमान्नरः ॥ युनक्ति व्यवसायेन पश्चाज्ज्ञेयः स पंडितः ॥ ४ ॥ यावन्तो निश्चितास्त्वर्था मनसा केनचित्क्वचित् ॥ तावन्न शक्यते कर्तुं संकल्पोऽतः परो मतः ॥ ५ ॥ संकल्पितानां मनसा तु पूर्वं सिद्धिः प्रदिष्टा व्यवसाययुक्ता ॥ कार्याणि सर्वाणि ततस्तु लोके संकल्पमूलानि वदंति सन्तः ॥ ६ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संकल्पनिर्वचनो नाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥ २८६ ॥

ऋषय ऊचुः ॥

नैःश्रेयसपदावाप्तौ प्रत्याहारस्त्वथेरितः ॥ धारणाध्यानयोश्चाथ समाधिरपि चोत्तमा ॥ १ ॥ भूय एव त्वमाचक्ष्व नृणां संसारसारिणाम् ॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 905, कुल 1001 में से · BharatKosha