सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 906, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 906

वि० ध० ॥४२६॥ तृ० खं० अ० २८८

हितार्थमुत्तमं मार्गं लोकद्वयसुखावहम् ॥ २ ॥ हंस उवाच ॥ अग्निमूखं देवतानां सर्वभूतपरायणम् ॥ तस्य शुश्रूषणाद्देव सर्वान्कामान्समश्नुते ॥ ३ ॥ सा मूर्तिः परमा विष्णोस्तद्गतं प्राप्नुते रविः ॥ सूर्याद्दृष्टिस्ततस्त्वन्नमन्नाद्भवते जगत् ॥ ४ ॥ अर्चयन्प्रविणो देवा भौमास्तूर्ध्वं प्रवापिणः ॥ ऊर्ध्वप्रवापिणं मुख्यं भौमं दन्तं हुताशने ॥ ५ ॥ ॐकारं पूर्वमुद्दिश्य यांयां विप्रस्तु देवताम् ॥ हविर्जुहोति सा तस्य प्रीता भवति नित्यदा ॥ ६ ॥ वह्निर्दत्तेन हविषा तृप्तिमायान्ति देवताः ॥ तास्तृप्तास्तर्पयन्त्येनं नरं कामसमृद्धिभिः ॥ ७ ॥ सूर्ये होमः परः पुण्यस्तेन स्वर्गे महीयते ॥ तस्माद्दशगुणं पुण्यामधिगद्भिः प्राप्नुयाद्भुवि ॥ ८ ॥ तस्माद्दशगुणं सस्यैर्बलिभिर्द्विगुण ततः ॥ तावद्देव तथा पुण्यं होमे सिद्धार्थकैः स्मृतम् ॥ ९ ॥ यवैश्चातुर्गुणं तस्मात्तिलैर्दशगुणं ततः ॥ तावद्वै फलं ज्ञेयं बिल्वैर्दशगुणं ततः ॥ ॥ १० ॥ पद्मैश्च तावदेवोक्तं दशा क्षीरेण च द्विजाः ॥ परमान्नेन धर्मज्ञा घृतेनाष्टगुणं ततः ॥ ११ ॥ मन्त्रोद्धारपूतेन स्वाहान्तेन विचक्षणः ॥ स्वाहावसाने जुहुयाद्ध्यात्वैवं मन्त्रदेवताम् ॥ १२ ॥ यथा त्वङ्गुलिपर्वाणि पूर्यन्ते तावदाहुतिः ॥ अङ्गुष्ठमात्रं स्थौल्येन वितस्तिश्चैष्य इष्यते ॥ १३ ॥ दुःस्वप्नं च दुर्वारं च दुर्निमित्ते तथैव च ॥ नास्ति होमसमन्नाशं तथा पापविनाशनम् ॥ १४ ॥ होमेन पापं पुरुषो जहाति होमेन नाकं च तथा प्रयाति ॥ होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयोऽत्र ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे सुनीतार्थे हंसगीतासु होमविधिवर्णनो नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ॥ २८७ ॥ हंस उवाच ॥ देवाधीनाः प्रजाः सर्वा दैवायत्तमिदं जगत् ॥ सुखदुःखे मानुषाणां दैवायत्ते तथैव च ॥ १ ॥ दैवैर्विहितमश्नन्ति मनुष्यास्तु शुभाशुभम् ॥ तस्मात्सर्वप्रयत्नेन देवपूजा परो भवेत् ॥ २ ॥ देवाश्च भक्त्या तुष्यन्ति श्रद्धया परया तथा ॥ पूजिताः शुचिना चैव देवास्तुष्यन्ति नान्यथा ॥ ३ ॥ देवशुश्रूषया स्वर्गो देवशुश्रूषया सुखम् ॥ देवशुश्रूषया राज्यं मोक्षं चाप्यथ वाप्नुते ॥ ४ ॥ देवताः कामयन्तीह तथा भक्तं जनं सदा ॥ भक्तानुकम्पिनो देवाः परत्रेह तथा ध्रुवम् ॥ ५ ॥ त्राणं कुर्वन्ति भक्तस्य ध्रुवं देवा द्विजोत्तमाः ॥ देवतोपाशवाचेति यान्कामान्मनसेच्छति ॥ ६ ॥ जातप्रभृति यं देवं भक्त्या नित्यमथाचयेत् ॥ अन्तकाले तु संत्राप्ते सोऽपि त्राता भवेद् ध्रुवम् ॥७॥ किं वा पापविहीनस्य क्षिप्रं तुष्यन्ति देवताः ॥ तस्मात्पापं न कर्त्तव्यं नरेण त्रिदशाश्रयात् ॥ ८ ॥ देवाश्रितानां पापानां क्षिप्रं पापं विनश्यति ॥ नत्वेवं पातकं कर्म वृथा तेषां प्रजायते ॥ ९ ॥ तथा बहु फले लोके कथितं त्रिदशाश्रयम् ॥ सर्वान्समर्चयेद्देवान्नैकं वा देवमाश्रयेत् ॥ १० ॥ देवार्चा श्रद्धया कृत्वा ध्रुवं तल्लोकमाप्नुयात् ॥ कृत्वा देव

॥४२६॥