विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 907, कुल 1001 में से
संदर्भ में पढ़ेंगृहं विप्रा नरस्तल्लोकमाप्नुयात् ॥ ११ ॥ परमाणूनि यावन्ति भवन्ति सुरवेश्मनः ॥ तावतोऽब्दानवाप्नोति तल्लोकान्नात्र संशयः ॥ १२ ॥ यावद्वारं करोतीह देववेश्म सुधोक्षितम् ॥ जन्मान्तराणि तावन्ति यशसा स विराजते ॥ १३ ॥ प्रतिपाद्य तथा भक्त्या ध्वजं त्रिदशवेश्मनि ॥ निर्धुन्वंस्तु पापानि महापातकजान्यपि ॥ १४ ॥ चित्रकर्म तथा कृत्वा गन्धर्वै सह मोदते ॥ देवमाल्यापनयनाद्रोगान्पापात्प्रमुच्यते ॥ १५ ॥ पापर्विर्मुच्यते सर्वैः प्रोक्षणाद्देववेश्मनः ॥ सम्मार्जनलतया पापं व्यपोहति न संशयः ॥ १६ ॥ कामानभीष्टानवाप्नोति देववेश्मप्रालपनात् ॥ सुधारसान्वितं कृत्वा मर्यादां नातिवर्तते ॥ १७ ॥ वर्णकैर्भिश्रितं कृत्वा सौभाग्यं महदाप्नुयात् ॥ गन्धर्लेपमवाप्नोति गन्धैरभ्युक्ष्य मानवाः ॥ १८ ॥ पुष्पौघैर्विकिरणं कृत्वा रूपवानभिजायते ॥ अभ्यज्य देवप्रतिमं सर्वैःपापैर्विमुच्यते ॥ १९ ॥ विरूक्षयित्वा तामेव पापेभ्यो विप्रमुच्यते ॥ औषधीभिस्तथा स्नाप्य नास्त्यैः सह मोदते ॥ २० ॥ लोके प्रजापतेर्याति दद्दुः संस्नाप्य देवताम् ॥ पुष्पोदकेन संस्नातात्सौभाग्यं महदृश्नुते ॥ २१ ॥ फलोदकेन संस्नाप्य सफलां विन्दते क्रियाम् ॥ नांगवल्लीजलैः स्नाप्य नागलोकं स गच्छति ॥ २२ ॥ रत्नोदकेन संस्नाप्याह्लादं लोकमाप्नुयात् ॥ गन्धोदकेन संस्नाप्य गन्धर्वैः सह मोदते ॥ २३ ॥ तीर्थोदकेन पूज्यन्तं स्वर्गलोकंमवाप्नुयात् ॥ तथामृतेलिप्य गन्धैश्च शक्रलोके महीयते ॥ २४ ॥ विष्वक्प्रणयदानेन राजा भवति भूतले ॥ २५ ॥ राजाङ्गप्रदानेन राजा भवति हि क्षितौ ॥ २६ ॥ वस्त्रदानेन लोकेऽस्मिन्सुन्दरस्त्वभिजायते ॥ देवं माल्यप्रदानेन परां लक्ष्मीं समश्नुते ॥ २६ ॥ धूपप्रदानेन तथा गतिमग्रयामवाप्नुयात् ॥ दीपदानेन चक्षुष्मान्प्रकाशैश्च जायते ॥ २७ ॥ उर्ध्वां गतिमवाप्नोति सर्वत्र च तथाप्यृताम् ॥ हव्यताभ्यस्तथा विप्रा निवेद्यान्नमतिन्दितः ॥ २८ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ पारितोषमथायाति देवता बलिकर्मणा ॥ २९ ॥ तस्त्वधास्तर्पणयंत्र्नं सर्वकामसमृद्धिभिः ॥ ह्यपानप्रदानेन तृप्तिमाप्नोति शाश्वतीम् ॥ ३० ॥ देवतानां नमस्कारात्किल्बिषापं प्रणश्यति ॥ तथैवाभ्यधिकं पापं प्रणिपातेन नश्यति ॥ ३१ ॥ ततोऽप्यभ्यधिकं किञ्चित्कृत्वा देव प्रदक्षिणाम् ॥ स्तुतिक्रिया देवतानां सर्वकामफलप्रदा ॥ ३२ ॥ गीतेन देवतास्तोषाद्रुपयान्ति द्विजोत्तमाः ॥ तथा वाद्येन नृत्येन पुरुषस्य विशेषतः ॥ ३३ ॥ नृत्तं गीतं तथा वाद्यं स्वयमाचरते द्विजाः ॥ देवसालोक्यमाप्नोति पुरुषस्य विपश्चितः ॥ ३४ ॥ वाचनादितिहासानां पापमोक्षमवाप्नुयात् ॥ मूर्त्यन कारयेद्धीमंतं गन्धर्वत्वमथाप्नुयात् ॥ ३५ ॥
^१ नागलोकंमवाप्नोति तथा पल्लववारिणा, इति ख० पा० ।
७२