विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 909, कुल 1001 में से
संदर्भ में पढ़ेंगृहस्थो गृहमागतम् ॥ ७ ॥ उत्थायास्य व्रजन्पूर्वं गोदानफलमाप्नुयात् ॥ आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः ॥ ८ ॥ कृत्वा च कुशलं प्रश्नं बुद्धिमाञ्चायते नरः ॥ पादशौचेन तस्याथ श्रान्तसंवाहनेन च ॥ ९ ॥ वीजनाच्चामरेणापि तालवृन्तेन वीजनात् ॥ पादाभ्यङ्गप्रदानेन दीपदा नेन वाच्यथ ॥ १० ॥ राज्ञो शयनदानेन तथा संवाहनेन च ॥ एकैकस्मादवाप्नोति गोदानफलमुत्तमम् ॥ ११ ॥ उपास्तेनं कथाभिश्च प्रशंसा भो गमाप्नुयात् ॥ संश्राव्य चेतिहासानि तथैनं च तदिच्छया ॥ १२ ॥ नाकलोकम्वाप्नोति गीतनृत्योत्सवादिभिः ॥ पूजयित्वा तथाऽश्नोति गन्धर्वत्वमसंशयम् ॥ १३ ॥ प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते ॥ मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा ॥ १४ ॥ काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात् ॥ प्रताय्य चैनं शीतातं सर्वं सुखमश्नुते ॥ १५ ॥ अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतिर्द्रुतः ॥ आरोग्यरूपलावण्यधन धान्यमुपाश्नुते ॥ १६ ॥ दत्वा सालङ्कृवस्त्राणि ज्ञानानि द्विजसत्तमाः ॥ नासत्यलोकमाप्नोति नात्र कार्या विचारणा ॥ १७ ॥ सुगन्धीनि तथा दत्वा गन्धर्वैः सह मोदते ॥ कंकणस्य प्रदानेन सौभाग्यं महदश्नुते ॥ १८ ॥ अतिथिक्षालनात्पुण्यं दशगोदानजं भवेत् ॥ किमिच्छुकेन संयोज्य वाजपेयफलं लभेत् ॥ १९ ॥ स्वेच्छंतं च प्रदायास्य तदेवाक्षयमश्नुते ॥ सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा ॥ २० ॥ तृप्तोऽतिथियस्य पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः ॥ तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम् ॥ २१ ॥ इति श्रीवि ष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वातिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः ॥ २८९ ॥ ॥ हंस उवाच ॥ ॥ ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ॥ ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्त्रये ॥ १ ॥ अदेवं दैवतं कुर्युः कुर्युर्देवम दैवतम् ॥ ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ॥ २ ॥ ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः ॥ ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्य तमाः सदा ॥ ३ ॥ एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा ॥ ऋषयश्च महाभागाः किम्भूतमधिकं ततः ॥ ४ ॥ यदेव मनुजो भक्त्या ब्राह्म णेभ्यः प्रयच्छति ॥ तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि ॥ ५ ॥ तालवृन्तानिलैनैवं श्रान्तसंवाहनेन च ॥ उन्मार्जनेन गात्राणां तथा प्यञ्जनकर्मणा ॥ ६ ॥ पादशौचप्रदानेन पादयोः शौचनेन च ॥ परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः ॥ ७ ॥ अभिप्रेतमवाप्नोति स्वर्गं लोकं च गच्छति ॥ ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते ॥८॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः॥९॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणस्तुत्या नाम नव