विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 917, कुल 1001 में से
संदर्भ में पढ़ेंपकारादात्तं च शबलं समुदाहृतम् ॥ क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ॥ १८ ॥ अविशेषेण सर्वेषां धनं शुक्लगुदाहृतम् ॥ शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ॥ १९॥ न्यायागतेनाथ धनेन विद्वान्पुण्यानि कृत्वा दिवि देवभोगान् ॥ चिरं समश्नाति महाप्रभावो न्यायेन तस्माद्धर नमर्जनीयम् ॥२०॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा०सं० मुनीन्प्रति हंसगीतासु धनविचारो नाम नवनवत्युत्तरद्विशततमोऽध्यायः ॥२९९॥ हंस उवाच ॥ दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजाः ॥ दानेन कामानाप्नोति यान्काँश्चिन्मनसेच्छति ॥ १ ॥ अदत्तदानात्कृपणा दृष्ट्वेह परतन्त्रतान् ॥ पारत्रिकं धनं कुर्याद्दानं विप्रेषु मानवः॥२॥अमुख्ये समं दानं गोषु ज्ञेयं महाफलम् ॥ द्विगुणं च तदर्द्धोक्तं तथा वै वर्णसङ्करे ॥ ॥ ३ ॥ शूद्रे चतुर्गुणं प्रोक्तं विशि चाष्टगुणं भवेत् ॥ क्षत्रिये षोडशगुणं ब्रह्मबन्धौ तदेव तु ॥ ४ ॥ द्वात्रिंशता स्मृतं दानं वेदाध्ययनतत्परे ॥ शतधा तद्विशिष्टे तु प्राधीते लक्षसम्मितम् ॥ ५ ॥ अनन्तं च तदेवोक्तं ब्राह्मणे वेदपारगे ॥ आत्मनस्तु भवेत्पात्रं नान्यस्य तु पुरोहितः ॥ ६ ॥ पुरोहिते तु स्वं दत्तं दानमक्षयमुच्यते ॥ याजके ऋत्विजे चैव गुरावपि च मानवः ॥ ७ ॥ वर्णोपेक्षा न कर्तव्या मातरं पितरं प्रति ॥ मातृष्वसां स्वसां चैव तथैव च पितृष्वसाम् ॥ ८ ॥ मातामहीं भागिनेयीं भागिनेयं तथैव च ॥ दौहित्रं विट्पतिं चैव तेषु दत्तमथाक्षयम् ॥ ९ ॥ श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षयमुच्यते ॥ स्थानभ्रष्टस्य यः कुर्याद्भूयस्त्वारोपणं नरः ॥ १० ॥ नाकलोकमावाप्नोति चिरन्तेनेह कर्मणा ॥ भूपालं यश्च्युतं राज्यात्स्वराज्ये स्थापयेत्पुनः ॥ ११ ॥ स याति शक्रसालोक्यं यावच्छक्राश्चतुर्दश ॥ ततो मानुष्यमासाद्य राजा भवति धार्मिकः ॥ १२ ॥ तस्माद्दानं श्रीहीनं दातव्यं भूतिमिच्छता ॥ श्रीविहीनेषु यद्दत्तं तदनन्तं प्रकीर्तितम् ॥ १३ ॥ काले पात्रे तथा देशे धनं न्यायागतं तथा ॥ यद्दत्तं ब्राह्मणश्रेष्ठेरास्तदनन्तं प्रकीर्तितम् ॥ १४ ॥ द्वादशीषु तु यद्दत्तं शुक्लासु तु विशेषतः ॥ श्रवणेन तु युक्तासु तत्रापि द्विजसत्तमाः ॥ १५ ॥ विशेषाच्छुक्लपक्षेषु पक्षान्तेषु च यत्तथा ॥ तृतीयासु तु शुक्लासु सर्वासु च विशेषतः ॥ १६ ॥ वैशाखशुक्लपक्षे तु विशेषेण च मानदाः ॥ आषाढे कार्त्तिके चैव फाल्गुने च विशेषतः ॥ १७ ॥ तिलस्तैल्वाः पौर्णमास्यां दाने विप्रा महाफलाः ॥ व्यतीपातेषु यद्दत्तं जन्मर्क्षे तु द्विजोत्तमाः ॥ १८ ॥ बृहत्संक्रमकाले तु त्यागे च मिथुनस्य तु ॥ रवेर्महाफलं दत्तन्तेभ्योऽपि स्यान्महाफलम् ॥ १९ ॥ यदा प्रविशते भानुर्मकरं द्विजसत्तमाः ॥ आपाढेऽथयुजे पौषे चैत्रे शुक्के तथैव च ॥ २० ॥ द्वादशीप्रभृति प्रोक्तं पुण्यं दिनचतुष्टयम् ॥ मिथुनं च तथा कन्या धन्विर्न मीनमेव च ॥ २१ ॥ प्रविशेद्भास्करं पुण्यं प्रत्येकं कथितं द्विजाः ॥ षडशीतिमुखं नाम दाने दिनेचतुष्ट