विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 923, कुल 1001 में से
संदर्भ में पढ़ेंइति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु कन्यादानफलानिरूपणो नाम चतुरधिकत्रिशततमोऽध्यायः ॥ ३०४ ॥ हंस उवाच ॥ भूमिर्धात्री विधात्री च भूमौ सर्वं प्रतिष्ठितम् ॥ भूमिर्हि माता सर्वस्य सर्वकामप्रदा वरा ॥ १ ॥ तदुत्सृष्टेन हविषा तृप्तिं मायान्ति देवताः ॥ भूमिर्हि धारणी विप्रायैलोक्यस्य निगद्यते ॥ २ ॥ भूमौ हि सर्वं भवति भूमौ सर्वं प्रतिष्ठितम् ॥ सर्वकामप्रदं ज्ञेयं भूमिदानं नरोत्तम ॥ ३ ॥ हस्तमात्रां तु यो दद्याद्भुवं पुरुषसत्तम ॥ तेनैव ध्रुवमाप्नोति भूमिदानफलं नरः ॥ ४ ॥ गृहपक्ष्मभारपातिं नरः संवत्सरं द्विजाः ॥ एकं गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ॥ ५ ॥ ब्राह्मणाय ततो दत्वा वसूनां लोकमाप्नुयात् ॥ शाकभूमिं ततो दत्त्वा लोकमाङ्गिरसं ब्रजेत ॥ ६ ॥ आरामभूमिं दत्त्वा च मारुतं लोकमश्नुते ॥ जलाशयार्थं यो दद्याद्रुणं लोकमाप्नुयात् ॥ ७ ॥ यस्य दत्त्वा तु वेश्मार्थं तस्य देवस्य सोऽश्नुते ॥ वस्त्रत्र विप्रते नित्यं लोको दिग्वरा ध्रुवम् ॥ ८ ॥ उद्यानभूमिं दत्त्वा च गन्धर्वैः सह मोदते ॥ रत्ना करं तु वै दत्त्वा शक्रलोके महीयते ॥ ९ ॥ दत्त्वा कनकभूमिं च वह्निलोके महीयते ॥ अन्येषामप्यथैव लोहानां यः प्रयच्छति ॥ १० ॥ तस्यापि मतिरुद्दिष्टा लोके हौताशने द्विजाः ॥ धान्यार्कप्रसुवं दत्त्वा नाकलोके महीयते ॥ ११ ॥ अश्मनाकरभूमिं तु यः प्रयच्छति वै द्विजाः ॥ पितॄणामि मलोकेभ्यः पूज्यतेऽसौ नरोत्तमः ॥ १२ ॥ लवणाकरभूमिं च सोमलोके महीयते ॥ शिम्बीसस्यप्ररोहां तु भुवं दत्वा नरोत्तमः ॥ १३ ॥ साध्यानां लोकमाप्नोति नात्र कार्या विचारणा ॥ इन्धनाकरभूमिं तु नामलैः सहितस्तथा ॥ १४ ॥ शूकधान्यसुवं दत्वा रुद्रलोके महीयते ॥ केदार भूमिं धर्मज्ञा यः प्रयच्छति धर्मतः ॥ १५ ॥ स महत्पुण्यमाप्नोति ब्रह्मलोकं च गच्छति ॥ इक्षुभूमिं नरो दत्वा द्राक्षाक्षुम्बिन्धयानि च ॥ १६ ॥ सोमलोकमाप्नोति सर्वकामांश्च विन्दति ॥ सोपरा तस्कराकीर्णा तथा व्याडवती च भूः ॥ १७ ॥ न दत्वा द्विजश्रेष्ठा या च रात्रिञ्चु वै द्विजाः ॥ गुल्मपुष्पप्रदां यस्तु लतां वा संप्रयच्छति ॥ १८ ॥ विमाने नन्दने सोऽथ क्रीडत्यप्सरसां गणैः ॥ पुष्पदं फलदं वृत्तं दत्त्वा विप्राय भक्तितः ॥ १९ ॥ स्वर्गे लोकपारिभ्रंश्रो नगराधिपतिर्भवेत् ॥ ब्राह्मणाय गृहं दत्त्वा वसूनां लोकमश्नुते ॥ २० ॥ आराममथ सोद्यानं नन्दने क्रीडते वनो ॥ धनधान्ययुतं स्फीतं गृहंहाण करणैर्युतम् ॥ २१ ॥ शय्यासनयुतं रम्यं गोऽश्वाश्वियुतं तथा ॥ गृहं दत्त्वा द्विजेन्द्राय तावत्स्वर्गसुखानुते ॥ २२ ॥ यावत्कल्पावसाने तु कल्पादौ पार्थिवो भवेत् ॥ ग्रामप्रदः स्यान्नृपतिस्तथा ह्यशनदो नृपः ॥ २३ ॥ समग्रवसुधेशः स्याच्चक्रवर्ती च राज्यदः ॥ स्वदत्तां परदत्तां वा न हरेत वसुन्धराम् ॥ २४ ॥ भूमेरङ्गलमात्रं तु हत्वा नरकपृच्छति ॥ बहून्यब्दसहस्राणि घर्मेऽपि पुरुषो रतः ॥ २५ ॥ विष्ठाकृमित्वमाप्नोति पितृभिः सहितं