विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 928, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० तृ० खं० अ० ३०८
पुच्छं च कर्त्तव्यं कम्बलं च द्विजोत्तमाः ॥ कुर्यात्खुरं कांस्यं घ्राणे हेममयांस्तनान् ॥ ५ ॥ तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ॥ क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ॥ ६ ॥ ताम्रमयं पृष्ठं कुर्याच्छूङ्गासमन्वितः ॥ एताद्दिरचनं कृत्वा घृतक्षीराभिषेचनैः ॥ ७ ॥ हरिदुताविचित्रेवं नान्ना सम्पूज्यदिक्षुम् ॥ ततस्तु गन्धपुष्पान्नधूपवस्त्रादिभिर्नरः ॥ ८ ॥ घृतेन दीपं दद्याच्च तथैव च घृतं दिशः ॥ होमं विप्रा यदा धेनुं दद्याद्विप्राथ शक्तितः ॥ ९ ॥ घृताची प्रीयते विप्रं कल्पयित्वा घृतार्चिषम् ॥ एकरात्रञ्च तां दत्वा घृताहारी भवेन्नरः ॥ ॥ १० ॥ विमुक्तः सर्वपापेभ्यो लोकमाप्नोति शाश्वतम् ॥ अनेन विधिना स्नात्वा सोपवासो नरः शुचिः ॥ ११ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ विमानेनार्कवर्णेन गवां लोके महीयते ॥ १२॥ घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ॥ यत्र कामफला वृक्षा यत्र सिद्धिस्त मानसी ॥ १३ ॥ गन्धर्वाप्सरसां यत्र सततं गीतनर्त्तनम् ॥ तत्रास्ते सुचिरं लोके यावदिन्द्राश्चतुर्दश ॥ १४ ॥ मानुष्यमासाद्य भवत्य रोगः शीलेन रूपेण धनेन युक्तः ॥ मनोभिरामः प्रमदाप्रियश्च धनान्वितः सर्वगुणोपपन्नः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे मुनिप्रति हंसगीतासु घृतधेनुकल्पवर्णनो नाम सप्ताधिकत्रिशततमोऽध्यायः ॥ ३०७ ॥ ॥ हंस उवाच ॥ तिलधेनुं प्रवक्ष्यामि सर्वपापभयापहाम् ॥ धेन्वाकारान्तु तां कुर्याद्दारविके कम्बले बुधः ॥ १ ॥ तिलषोडशभिः प्रस्थैश्चतुर्भिर्वत्समेव तु ॥ तिलप्रमाणं कुर्या द्धेन्वा धेनुप्रमाणतः ॥ २ ॥ ततस्तु रचयेद्धेनुं रत्नैर्व्याख्यागृहं द्विजाः ॥ हेमशृङ्गीं रूप्यखुरां गन्धघ्राणवतीं शुभाम् ॥ ३ ॥ मिष्टान्नाजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥ इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलैःक्षरणाम् ॥ ४ ॥ प्रशस्तपद्मश्रवणां फलदन्तवतीं शुभाम् ॥ मन्दारपुष्पां कुर्वीत नवनीतस्तनान्विताम् ॥ ५ ॥ फलैर्मनोहरैर्घाणैर्मणिमुक्ताफलान्विताम् ॥ शुभ्रवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम् ॥ ६ ॥ कांस्योपदोहनां कृत्वा वासुदेवन्तु पूजयेत् ॥ गन्धमाल्यनमस्कार धूपदीपान्न सम्पदाम् ॥ ७ ॥ जुहुयाच्च तिलानेव नाम्ना तस्यैव मानवः ॥ तमेव प्रणयेद्वह्निं धेनुन्तन्माहिताग्नये ॥ ८ ॥ त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति ॥ दत्त्वैकरात्रञ्च पुनस्तिलानीति द्विजोत्तमाः ॥ ९ ॥ चान्द्रायणपादभ्यधिकं शतन्तत्तिलभक्षणम् ॥ सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥ १० ॥ तस्यापि पितरं चैव तारयेद् दुष्कृतान्नरः ॥ आत्मानं पुत्रपौत्रांश्च प्रपौत्रानपि तारयेत् ॥ ११ ॥ सुहृदं बान्धवोद्दिश्य तिलधेनुप्रदो नरः ॥ तारयेद् दुष्कृतातञ्च यमुद्दिश्य प्रयच्छति ॥ १२ ॥ यश्च गृह्णाति विधिवद्दीयमानाञ्च पश्यति ॥ सोऽपि पापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १३ ॥ महापातकसंयुक्तो युक्तो यश्चोपपातकैः ॥ तिल
॥४३७॥