विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 929, कुल 1001 में से
संदर्भ में पढ़ेंधेनुप्रदानेन सोऽपि पावनमाप्नुयात् ॥ १४ ॥ सलोकमासाद्य नरो वसूनन्तर्वापि भुक्त्वा त्रिदशेन्द्रभोगान् ॥ मानुष्यमासाद्य भवेद्रोगो धनान्वितो रूपसुखोपपन्नः ॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तिलधेनुदानविविधवर्णनो नामा- द्योत्तराशिततमोऽध्यायः ॥ ३०८ ॥ हंस उवाच ॥ जलधेनुं प्रवक्ष्यामि प्रीतये जलशायिनः ॥ जलकुम्भं द्विजश्रेष्ठाः सुवर्णरजतान्वि- तम् ॥ १ ॥ कल्पयेद्रत्नगर्भञ्च स्थापयेतं घवोपरि ॥ सर्वधान्यैस्तथा ग्राम्यैः समन्तात्पारिवारयेत् ॥ २ ॥ सितवस्त्रयुगच्छन्नं दूर्वापल्लव- शोभितम् ॥ कुष्ठमांसीशिरोशीरवालुकामलकैर्युतम् ॥ ३ ॥ प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ॥ सच्छत्रोपानहञ्चैव सोष्णीषं परिकल्प- येत् ॥ ४ ॥ तिलपात्रैर्युतं कृत्वा सहिरण्येस्तुदिशम् ॥ दध्योदनयुतेनैव पात्रेण स्थगितं मुखे ॥ ५ ॥ कल्पयेद्देवमेवन्तु वारिधानीं तु वत्सकम् ॥ उपोपितः समभ्यर्च्य देवेशं जलशायिनम् ॥ ६ ॥ पुष्पधूपोपहारैस्तु यथाविभवमाश्रितः ॥ अहताम्बरवीताय दद्याद्विप्राय भक्तिमान् ॥ ७ ॥ जल- शायी जगद्योनिः प्रीयतां मम केशवः ॥ इति चोच्चार्य तं दद्यात्त्विणेऽथ द्विजोऽपि तम्॥८॥ अहोरात्रोषितो दद्याद्यथाविधि मयोरितम् ॥ अपक्वान्नो- शिना स्थेयमहोरात्रमतः परम् ॥ ९ ॥ अनेन विधिना दत्त्वा जलधेनुं द्विजोत्तमान् ॥ सर्वांल्लभतेऽपवाप्नोति कामानाप्नोति शाश्वतान् ॥१०॥ मोक्षमाप्नोति सर्वेभ्यस्तपोग्यः स तथा नरः ॥ सौभाग्यं महदाप्नोति रूपञ्च परमं तथा ॥११॥ पुरुषः स तथा याति यस्य यस्य च दर्शनम् ॥ करोति परमाह्लादं तस्यतस्य द्विजोत्तमाः ॥ १२ ॥ नित्याग्निहोती भवति तथैव च निरामयः ॥ सर्वव्याधिशमशर्मं प्राप्नोति गतकल्मषः ॥ ॥ १३ ॥ वारुणं लोकमाप्नोति सकृद्दत्वा द्विजोत्तमः ॥ दत्त्वा तामसकृद्विप्रा लोकानाप्नोति वैष्णवम् ॥ १४ ॥ आह्लादहेतोः परमं पवित्रं दानं मयेदं कथितं द्विजेन्द्राः ॥ धन्यं यशस्यं दुरितापहारि कामप्रदं लोकहितं प्रशस्तम्॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जलधेनुतद्वर्णनो नाम नवोत्तराशिततमोऽध्यायः॥३०९॥ हंस उवाच ॥ सुवर्णयुक्तं रत्नंःचनानामपि चोत्तमम्॥लोहानामुत्तमं मञ्चैव सर्वेषामपि चोत्तमम्॥ १॥ अङ्गरपत्यं प्रथमं पवित्रं मङ्गलं परमा धारणात्सर्वपापघ्नं दातविद्ब्रह्मलोकदम्॥ २॥मुकुटैः कुण्डलैर्हारैः केयूरैरङ्ग- स्तथा ॥धार्यते वत्सदा देवैः पवित्रत्वाद्विजोत्तमाः ॥३॥जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् ॥ पितॄणाञ्चन्दरश्म्याभं दैत्यानां शबलोपमम् ॥ ४॥ नागानां तच्छुकं स्यान्नारीणां पीतमुच्यते ॥ दत्त्वा कृष्णमलामन्त्र नरः पापात्प्रमुच्यते ॥५॥ दत्त्वा च माषकं तस्य पुण्यं फलमुपारनुते ॥ सुवर्णमाषकं दत्त्वा सूर्यस्योदयनं प्रति ॥ ६ ॥ हन्याग्निं सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥ व्रताभिगमनैस्तत्तु कीर्तितं तस्य नित्यदा ॥ ७ ॥