विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० तृ० खं० अ० ३०८
पुच्छं च कर्त्तव्यं कम्बलं च द्विजोत्तमाः ॥ कुर्यात्खुरं कांस्यं घ्राणे हेममयांस्तनान् ॥ ५ ॥ तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ॥ क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ॥ ६ ॥ ताम्रमयं पृष्ठं कुर्याच्छूङ्गासमन्वितः ॥ एताद्दिरचनं कृत्वा घृतक्षीराभिषेचनैः ॥ ७ ॥ हरिदुताविचित्रेवं नान्ना सम्पूज्यदिक्षुम् ॥ ततस्तु गन्धपुष्पान्नधूपवस्त्रादिभिर्नरः ॥ ८ ॥ घृतेन दीपं दद्याच्च तथैव च घृतं दिशः ॥ होमं विप्रा यदा धेनुं दद्याद्विप्राथ शक्तितः ॥ ९ ॥ घृताची प्रीयते विप्रं कल्पयित्वा घृतार्चिषम् ॥ एकरात्रञ्च तां दत्वा घृताहारी भवेन्नरः ॥ ॥ १० ॥ विमुक्तः सर्वपापेभ्यो लोकमाप्नोति शाश्वतम् ॥ अनेन विधिना स्नात्वा सोपवासो नरः शुचिः ॥ ११ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ विमानेनार्कवर्णेन गवां लोके महीयते ॥ १२॥ घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ॥ यत्र कामफला वृक्षा यत्र सिद्धिस्त मानसी ॥ १३ ॥ गन्धर्वाप्सरसां यत्र सततं गीतनर्त्तनम् ॥ तत्रास्ते सुचिरं लोके यावदिन्द्राश्चतुर्दश ॥ १४ ॥ मानुष्यमासाद्य भवत्य रोगः शीलेन रूपेण धनेन युक्तः ॥ मनोभिरामः प्रमदाप्रियश्च धनान्वितः सर्वगुणोपपन्नः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे मुनिप्रति हंसगीतासु घृतधेनुकल्पवर्णनो नाम सप्ताधिकत्रिशततमोऽध्यायः ॥ ३०७ ॥ ॥ हंस उवाच ॥ तिलधेनुं प्रवक्ष्यामि सर्वपापभयापहाम् ॥ धेन्वाकारान्तु तां कुर्याद्दारविके कम्बले बुधः ॥ १ ॥ तिलषोडशभिः प्रस्थैश्चतुर्भिर्वत्समेव तु ॥ तिलप्रमाणं कुर्या द्धेन्वा धेनुप्रमाणतः ॥ २ ॥ ततस्तु रचयेद्धेनुं रत्नैर्व्याख्यागृहं द्विजाः ॥ हेमशृङ्गीं रूप्यखुरां गन्धघ्राणवतीं शुभाम् ॥ ३ ॥ मिष्टान्नाजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥ इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलैःक्षरणाम् ॥ ४ ॥ प्रशस्तपद्मश्रवणां फलदन्तवतीं शुभाम् ॥ मन्दारपुष्पां कुर्वीत नवनीतस्तनान्विताम् ॥ ५ ॥ फलैर्मनोहरैर्घाणैर्मणिमुक्ताफलान्विताम् ॥ शुभ्रवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम् ॥ ६ ॥ कांस्योपदोहनां कृत्वा वासुदेवन्तु पूजयेत् ॥ गन्धमाल्यनमस्कार धूपदीपान्न सम्पदाम् ॥ ७ ॥ जुहुयाच्च तिलानेव नाम्ना तस्यैव मानवः ॥ तमेव प्रणयेद्वह्निं धेनुन्तन्माहिताग्नये ॥ ८ ॥ त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति ॥ दत्त्वैकरात्रञ्च पुनस्तिलानीति द्विजोत्तमाः ॥ ९ ॥ चान्द्रायणपादभ्यधिकं शतन्तत्तिलभक्षणम् ॥ सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥ १० ॥ तस्यापि पितरं चैव तारयेद् दुष्कृतान्नरः ॥ आत्मानं पुत्रपौत्रांश्च प्रपौत्रानपि तारयेत् ॥ ११ ॥ सुहृदं बान्धवोद्दिश्य तिलधेनुप्रदो नरः ॥ तारयेद् दुष्कृतातञ्च यमुद्दिश्य प्रयच्छति ॥ १२ ॥ यश्च गृह्णाति विधिवद्दीयमानाञ्च पश्यति ॥ सोऽपि पापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १३ ॥ महापातकसंयुक्तो युक्तो यश्चोपपातकैः ॥ तिल
॥४३७॥
धेनुप्रदानेन सोऽपि पावनमाप्नुयात् ॥ १४ ॥ सलोकमासाद्य नरो वसूनन्तर्वापि भुक्त्वा त्रिदशेन्द्रभोगान् ॥ मानुष्यमासाद्य भवेद्रोगो धनान्वितो रूपसुखोपपन्नः ॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तिलधेनुदानविविधवर्णनो नामा- द्योत्तराशिततमोऽध्यायः ॥ ३०८ ॥ हंस उवाच ॥ जलधेनुं प्रवक्ष्यामि प्रीतये जलशायिनः ॥ जलकुम्भं द्विजश्रेष्ठाः सुवर्णरजतान्वि- तम् ॥ १ ॥ कल्पयेद्रत्नगर्भञ्च स्थापयेतं घवोपरि ॥ सर्वधान्यैस्तथा ग्राम्यैः समन्तात्पारिवारयेत् ॥ २ ॥ सितवस्त्रयुगच्छन्नं दूर्वापल्लव- शोभितम् ॥ कुष्ठमांसीशिरोशीरवालुकामलकैर्युतम् ॥ ३ ॥ प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ॥ सच्छत्रोपानहञ्चैव सोष्णीषं परिकल्प- येत् ॥ ४ ॥ तिलपात्रैर्युतं कृत्वा सहिरण्येस्तुदिशम् ॥ दध्योदनयुतेनैव पात्रेण स्थगितं मुखे ॥ ५ ॥ कल्पयेद्देवमेवन्तु वारिधानीं तु वत्सकम् ॥ उपोपितः समभ्यर्च्य देवेशं जलशायिनम् ॥ ६ ॥ पुष्पधूपोपहारैस्तु यथाविभवमाश्रितः ॥ अहताम्बरवीताय दद्याद्विप्राय भक्तिमान् ॥ ७ ॥ जल- शायी जगद्योनिः प्रीयतां मम केशवः ॥ इति चोच्चार्य तं दद्यात्त्विणेऽथ द्विजोऽपि तम्॥८॥ अहोरात्रोषितो दद्याद्यथाविधि मयोरितम् ॥ अपक्वान्नो- शिना स्थेयमहोरात्रमतः परम् ॥ ९ ॥ अनेन विधिना दत्त्वा जलधेनुं द्विजोत्तमान् ॥ सर्वांल्लभतेऽपवाप्नोति कामानाप्नोति शाश्वतान् ॥१०॥ मोक्षमाप्नोति सर्वेभ्यस्तपोग्यः स तथा नरः ॥ सौभाग्यं महदाप्नोति रूपञ्च परमं तथा ॥११॥ पुरुषः स तथा याति यस्य यस्य च दर्शनम् ॥ करोति परमाह्लादं तस्यतस्य द्विजोत्तमाः ॥ १२ ॥ नित्याग्निहोती भवति तथैव च निरामयः ॥ सर्वव्याधिशमशर्मं प्राप्नोति गतकल्मषः ॥ ॥ १३ ॥ वारुणं लोकमाप्नोति सकृद्दत्वा द्विजोत्तमः ॥ दत्त्वा तामसकृद्विप्रा लोकानाप्नोति वैष्णवम् ॥ १४ ॥ आह्लादहेतोः परमं पवित्रं दानं मयेदं कथितं द्विजेन्द्राः ॥ धन्यं यशस्यं दुरितापहारि कामप्रदं लोकहितं प्रशस्तम्॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जलधेनुतद्वर्णनो नाम नवोत्तराशिततमोऽध्यायः॥३०९॥ हंस उवाच ॥ सुवर्णयुक्तं रत्नंःचनानामपि चोत्तमम्॥लोहानामुत्तमं मञ्चैव सर्वेषामपि चोत्तमम्॥ १॥ अङ्गरपत्यं प्रथमं पवित्रं मङ्गलं परमा धारणात्सर्वपापघ्नं दातविद्ब्रह्मलोकदम्॥ २॥मुकुटैः कुण्डलैर्हारैः केयूरैरङ्ग- स्तथा ॥धार्यते वत्सदा देवैः पवित्रत्वाद्विजोत्तमाः ॥३॥जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् ॥ पितॄणाञ्चन्दरश्म्याभं दैत्यानां शबलोपमम् ॥ ४॥ नागानां तच्छुकं स्यान्नारीणां पीतमुच्यते ॥ दत्त्वा कृष्णमलामन्त्र नरः पापात्प्रमुच्यते ॥५॥ दत्त्वा च माषकं तस्य पुण्यं फलमुपारनुते ॥ सुवर्णमाषकं दत्त्वा सूर्यस्योदयनं प्रति ॥ ६ ॥ हन्याग्निं सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥ व्रताभिगमनैस्तत्तु कीर्तितं तस्य नित्यदा ॥ ७ ॥
दिनमध्यगते सूर्ये हव्याग्निं यः प्रयच्छति ॥ तस्याग्निनित्यदानेन च महत्फलमुदाहृतम् ॥ ८ ॥ सूर्यास्तमये वह्निं हुत्वा तस्मै प्रयच्छति ॥ पुण्यं महत्समाप्नोति नित्यदानेन वै द्विजाः ॥ ९ ॥ त्रिसन्ध्यं कनकं यस्तु हुत्वा वह्निं प्रयच्छति ॥ न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥ सकृत्कृष्णलदानेन स्वर्गे वर्षं सुखी वसेत् ॥ तथा च पञ्चवर्षाणि स्वर्गे इन्द्रैव मोपकम् ॥ ११ ॥ यः सुवर्णं सुवर्णस्य ब्राह्मणाय प्रय- च्छति ॥ निर्दोषः स्यात्स नाके तु मोदत्यब्दशतं ध्रुवम् ॥ १२ ॥ आत्मतुल्यं सुवर्णस्य यः प्रयच्छति वै द्विजाः ॥ सर्वपापविनिर्मुक्तो ध्रुवे धा- ञ्जतिमाप्नुयात् ॥ १३ ॥ ब्रह्मघ्नो वा सुरापो वा स्तेनो वा गुरुतल्पगः ॥ सर्वपातकयुक्तोऽपि तेन दानेन मुच्यते ॥ १४ ॥ दानानामुत्तमञ्चैत- द्दानानामुत्तमोत्तमम् ॥ रूप्यं दत्त्वा ब्राह्मणाय कुली सर्वत्र जायते ॥ १५ ॥ चिरायुश्चाप्यनिर्द्विग्नो रूपसौभाग्यसंयुतः ॥ तासां कुले तु उत्पत्ति- र्गुणैः सर्वैर्युतो नरः ॥ १६ ॥ रूप्यमात्रप्रदानेन पुत्री भवति मानवः ॥ सर्वेषामेव कामानां यशसांसिक्रियादित्यस्य च ॥ १७ ॥ रूप्यदो रूपमाप्नोति भोगमाप्नोति ताम्रदः ॥ लोहारकूटयोर्दानान्निष्क्रयाम्भोन्नतोयसंशयम् ॥ १८ ॥ त्रपुसीसकयोर्दानाद्दंतिवृद्धिमाप्नुयात् ॥ रूप्यदं लोहपात्रञ्च यः प्र- द्याद्द्विजातये ॥ १९ ॥ पात्रं भवति कामानां विशेषञ्चास्य लोहतः ॥ शिल्पभाण्डानि यो दद्याल्लोहानि विविद्विजाः ॥ २० ॥ विद्यादानफलं तस्य कथितं नात्र संशयः ॥ चर्मदाता नरो नित्यं रक्षां समाधिगच्छति ॥ २१ ॥ आयुधानां प्रदानेन द्विनाशमवाप्नुयात् ॥ गजाश्वरथदानेन राजा भवति भूतले ॥ २२ ॥ रत्नानां च प्रदानेन राजेन्द्रः प्रजायते ॥ रत्नदानस्य यल्लोकं तद्भुक्त्वा शुचिं द्विजाः ॥ २३ ॥ यश्चन्द्रः शुक्नोलोकस्तु पद्मरागप्रदो रविः ॥ सौम्यो मरकतं दत्त्वा विष्णुलोके महीयते ॥ २४ ॥ मुक्ताफलप्रदानेन वारुणं लोकमश्नुते ॥ वैदूर्यस्य प्रदानेन द्वीपानां सप्त मोदते ॥ २५ ॥ रत्नान्यन्यानि दत्त्वा च राजराजस्य च द्विजाः ॥ सर्वेषामेव रत्नानां कनकं श्रेष्ठमुच्यते ॥ २६॥ धारणं कीर्तनं दानं कनकस्य प्रशस्यते ॥ दुःखप्रशमनं दानं दुरिष्टस्य च नाशनम् ॥ २७ ॥ परं पापहरं ज्ञेयमलक्ष्मीशमनं तथा ॥ दत्त्वा सुवर्णं लोकेषु यथेष्वेषु च मोदते ॥२८॥ विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ देवब्राह्मणपालेन कामतेन विहायसा ॥२९॥ भुक्त्वा दिवि चिरं भोगान्मानुष्यं सुखमाप्नुयात् ॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी ब्रह्मसुताश्च गावः ॥ सर्वं हि दत्तं भवतिह तेन यः काञ्चनं गाञ्च महींश्च दद्यात् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सुवर्णदानविधिनिरूपणो नाम दशाधिकत्रिशततमोऽध्यायः ॥ ३१० ॥ हंस उवाच ॥ नरस्तवासनदानेन स्थानं सर्वत्र विन्दति ॥ शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमाः ॥१॥ दत्त्वा द्विजाय शयनं स्वास्तीर्णं सोत्तरच्छदम् ॥
कुले महति सम्भूतां रूपद्रविणसंयुताम् ॥२॥ तथा पक्षवतीं भार्यां प्राप्नोति वशगां तथा ॥ अनेनैव प्रदानेन भार्या पतिमवाप्नुयात् ॥ ३ ॥ वितानकप्रदानेन सर्वपापैः प्रमुच्यते ॥ छत्रञ्च तथा विप्रा नात्र कार्या विचारणा ॥ ४॥ छत्रं शतशलाकं तु दत्त्वैवातपनिवारणम् ॥ सर्वतापहरिनि- मुक्तः स्वर्गलोके महीयते ॥ ५ ॥ याम्यं मार्ग तथा याति सुखेन द्विजसत्तमाः ॥ उपानहौ तथा दत्त्वा श्लक्ष्णे स्नेहसमन्विते ॥ ६॥ रथमश्वतरी- युक्तं त्रिदिवं प्रतिपद्यते ॥ सर्वपापविनिर्मुक्तो याम्यमार्ग सुखं व्रजेत् ॥ ७ ॥ तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते ॥ पादुकानां प्रदानेन गतिमा- प्नोति शोभनाम् ॥ ८ ॥ पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ॥ स्थानमेव तथाप्नोति दण्डं दत्त्वा द्विजातये ॥ ९ ॥ यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् ॥ उष्णोष्णदानस्य तथा फलमेतदुदाहृतम् ॥ १० ॥ दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ॥ मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते ॥ ११ ॥ शौचस्नानोदकं दत्त्वा विरोगस्त्वभिजायते ॥ रोगनाशमवाप्नोति तथाभ्यङ्गप्रदः सदा ॥ १२ ॥ तथैवोष्णोदकेन रोग- नाशमवाप्नुते ॥ स्नानीयानि सुगन्धीनि दत्त्वा सौभाग्यमश्नुते ॥ १३ ॥ अनुलेपनदानेन रूपवानभिजायते ॥ कायाग्निदीप्तिं प्राकाश्यं गतिं चैव तथोत्तमाम् ॥ १४ ॥ यस्तु संसाधनार्थाय ब्राह्मणाय प्रयच्छति ॥ स याति वह्निसारोक्यं शत्रुनाशं च विन्दति ॥ १५ ॥ तैजसानि तु पात्राणि दत्त्वा सलवणानि च ॥ पात्रतमेति कामानां लावण्यं चानुयान्महत् ॥ १६ ॥ तैजसानि तु पात्राणि सतैलानि प्रयच्छतः ॥ आरो- ग्यमुत्तमं प्रोक्तं लावण्यमपि चोत्तमम् ॥ १७ ॥ तैजसानि तु पात्राणि ससर्पीणि प्रयच्छतः ॥ लावण्ययुक्ततं प्रोक्तं सौभाग्यमपि चोत्तमम् ॥ ॥ १८ ॥ नरश्चन्दनदानेन सर्वपापैः प्रमुच्यते ॥ तथैवागुरुदानेन यशसा भुवि राजते ॥ १९ ॥ सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य तु ॥ तथा कर्पूरदानेन सर्वान्कामानवाप्नुयात् ॥ २० ॥ मृगमदप्रदानेन यशसा भुवि राजते ॥ दत्त्वा जातीफलं विप्राः सफलां विन्दते क्रियाम् ॥ ॥ २१ ॥ स्नानानां मुखवासानां धूपानां च प्रदायकाः ॥ लोके प्रयान्ति नियतां भवन्ति च सुगन्धिनः ॥ २२ ॥ दत्त्वा पूगफलीन्विप्राः सफलां विन्दते क्रियाम् ॥ ताम्बूलस्य प्रदानेन सौभाग्यमपि विन्दति ॥ २३ ॥ समुद्गानां भाण्डानां शङ्खादीनां प्रदायकः ॥ पात्री भवति कामानां यशश्च न संशयः ॥ २४ ॥ कङ्कतस्य प्रदानेन परां वाचं प्रमुञ्चति ॥ शय्याप्रदानो लोकेषु तथा स्थानकरं परम् ॥ २५ ॥ अर्थिने यदभीष्टं स्यात्स्वल्पं वा यदि वा बहु ॥ तद्दत्त्वा पुण्यमाप्नोति राजसूयाश्वमेधयोः ॥ २६ ॥ किमिच्छैस्तैः पूजकैर्ब्राह्मणानां लोकं गत्वा ब्रह्मणो ब्राह्मणैभ्यः ॥ देवैर्विप्रैः पूज्यमानः सुखी स्यात्तस्माद्देयं प्रार्थितं ब्राह्मणेभ्यः ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयसंवादे
७४
तृ० खं० अ० ३१३
मुनीन्प्रति हंसगीतास्वेकनेकवस्तुदानप्रशंसावर्णनो नामैकादशाधिकत्रिशततमोऽध्यायः ॥ ३११ ॥ ॥ हंस उवाच ॥ ॥ नृवाहानुरुषो यस्तु द्विजे सम्यक्प्रयच्छति ॥ अश्वमेधफलं तस्य कथितं द्विजसत्तमाः ॥ १ ॥ शिबिकायाः प्रदानेन वह्निहोत्रेमफलं तथा ॥ दासं कर्मकरं दत्त्वा गोसवस्य फलं लभेत् ॥ २ ॥ स याति शक्रसालोक्यं यस्तु गोधं प्रयच्छति ॥ यस्तु कर्मकरीं दासीं ब्राह्मणाय प्रयच्छति ॥ ३ ॥ लोकास्तु सुभगास्तस्य वस्त्राणां समुदाहृताः ॥ तरुणीं रूपसम्पन्नां दासीं यस्तु प्रयच्छति ॥ ४ ॥ सोऽप्सरोभिर्मुदा युक्तः क्रीडते नन्दने वने ॥ उष्ट्रं वा गर्दभं विप्रा यो यच्छति द्विजातये ॥५॥ अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥ नानानामुत्तमं प्रोक्तं प्रदानं तुरगस्य तु ॥६॥ वडवायाः प्रदानेन तथा बहुफलं स्मृतम् ॥ तुर्ङ्गं ये प्रयच्छंति सूर्यलोकं व्रजंति ते ॥ ७॥ यावन्ति तस्य रोमाणि तावद्वर्षशतानि च ॥ शुक्लं तुरङ्गं दत्त्वा फलं दशगुणं लभेत् ॥ ८ ॥ गोर्पया कपिला श्रेष्ठा तथैव तुरगस्य तु ॥ तुरङ्गं सपर्य्याणं सालङ्कारं प्रयच्छति ॥ ९॥ पुण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा ॥ चतुर्भिरुत्तरैर्युक्तं सर्वोपकरणैर्युतम् ॥ १० ॥ रथं द्विजाये दत्वा राजसूयफलं लभेत् ॥ १२ ॥ प्रदाय करिणीं सम्यगेतदेव फलं लभेत् ॥ ११ ॥ कुञ्जरस्य प्रदानेन स्वर्गलोके महीयते ॥ १३ ॥ चतुर्भिः कुञ्जरैर्युक्तं रथं दत्त्वा द्विजातये ॥ समग्रभूमिमातृजं दत्त्वा विप्राय वै द्विजाः ॥ राजसूयाश्वमेधाभ्यां फलं विन्दत्यसंशयम् ॥ १४ ॥ इह लोके भवत्तीह तेन ॥ इत्थञ्च लोकान्पुरुषः प्रयाति सम्पूदानस्य फलं प्राप्नोत्यसंशयम् ॥ १५ ॥ भूमिः सशैला सकना सतोया दत्ता हि लोके भवत्तीह तेन ॥ इत्थञ्च लोकान्पुरुषः प्रयाति सम्पूज्यमानोद्विजैश्चैवमहात्मा ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु वाहनदानविविधवर्णनो नामद्वादशाधिकत्रिशततमोऽध्यायः ॥ ३१२ ॥ हंस उवाच ॥ नानानामुत्तमं लोके वस्त्रदानं प्रकीर्तितम् ॥ वासो हि सर्वदैवत्यं सर्वप्रायोज्यमश्नुते ॥ १ ॥ वस्त्रदाता सुवेशः स्याद्रूपद्रविणसंयुतः ॥ युक्तो लावण्यसौभाग्यरोगैश्च तथा द्विजाः ॥ २ ॥ नीलं रक्तं तथा जीर्णं न देयं ब्राह्मणस्य तु ॥ देयं वस्त्राणिद्विरसं क्षौमं दत्त्वा बृहस्पतेः ॥ ३॥ दत्त्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते ॥ दत्त्वा सरोमं तदपि फलं दशगुणं भवेत् ॥ ४॥ आविकं वसनं दत्त्वा भृगूणां लोकमाप्नुयात् ॥ छागं दत्त्वा चाजिरसं क्षौमं दत्त्वा बृहस्पतेः ॥ ५ ॥ वसूनां लोकमाप्नोति कृशौकौशेयवाससी ॥ क्रिमिजञ्च ततो दत्त्वा सोमलोके महीयते ॥ ६ ॥ अभिप्रेतमवाप्नोति दत्त्वैव सुग्लोलिकाम् ॥ दत्त्वा वस्त्रकुलं वासो वसूनां लोकमाप्नुयात् ॥ ७॥ सुमेरुकदल्यादीनां दत्त्वा चैव तथाजिनम् ॥ वारवाणं शिरस्त्राणं हस्तत्राणं तथैव च ॥ ८ ॥ पादत्राणं च ददतः पृथक्फलं स्मृतम् ॥ वस्त्र
वि० ध० ॥४३१॥
दानं पवित्रन्तु पितॄणामपि तारणम् ॥ ९॥ कौसुंभरक्तं दत्त्वा तु सौभाग्यं महदाप्नुयात् ॥ दानात्कुङ्कुमरक्तस्य लावण्यं महदाप्नुयात् ॥ १० ॥ रङ्गे- न्त्यैरनीलैश्च रक्तं दत्त्वा सुखी भवेत् ॥ यथायथा तु वस्त्रस्य भवतीह महर्घता ॥ ११ ॥ यथायथा शुभ्रता च तथा पुण्यफलं लभेत्॥ अन्येषा- मपि दानानामेतदेव प्रकीर्तितम् ॥ १२ ॥ सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान् ॥ पूजामाप्नोति धर्मज्ञास्तद्धि तस्माद्विशिष्यते ॥ १३ ॥ वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखान्दिवि ॥ विमानेनानर्कवर्णेन हंसयुक्तेन भास्वता ॥ १४ ॥ मानुष्यमासाद्य भवेत्यरोगः शौचान्वितः सौख्यपरो विनीतः ॥ जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदैव ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु वस्त्रदानप्रशंसावर्णनो नाम त्रयोदशाधिकत्रिशततमोऽध्यायः ॥ ३१३ ॥ हंस उवाच ॥ धान्यानां ह्यत्तमं दानं कथितं द्विजपुङ्गवाः ॥ धान्येभ्योऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ॥ १ ॥ रक्तशालिं नरो दत्त्वा सूर्यलोके महीयते ॥ दत्त्वा तथा सुगन्धाँश्च गन्धर्वैः सह मोदते ॥ २ ॥ कलमानां प्रदानेन शक्रलोके महीयते ॥ महाशालैः प्रदानेन वसूनां लोकमाप्नुयात् ॥ ३ ॥ काष्ठशालिं तथा दत्त्वा ऽअलकायां प्रसीदति ॥ व्रीहीनां चान्यधान्यानां दानात्स्वर्गमवाप्नुयात् ॥ ४ ॥ यव प्रदानेन नरः शक्रलोके महीयते ॥ तथा गोधूमदानेन वसूनां लोकमाप्नुयात् ॥ ५ ॥ प्रियो भवति लोकस्य प्रियेषु यः प्रयच्छति ॥ ददाति यस्तु श्यामाकं तस्य प्रीयन्ति देवताः ॥ ६ ॥ अन्येषां शूकधान्यानां प्रदानाद्धर्मरतो नरः ॥ स्वर्गलोकमानोति नात्र कार्या विचारणा ॥ ७ ॥ मुद्गदः शक्रलोकन्तु यमलोकन्तु माषदः ॥ यथेष्टं लोकमाप्नोति तथा विष्वास्तिलप्रदः ॥ ८ ॥ षष्टिकानां प्रदानेन लोकं नैर्रतं लभेत ॥ सचीणचणकं दत्त्वा लोकं वारुणमाप्नुयात् ॥ ९ ॥ वायव्यञ्च मसूराणि राजमाषाणि धानदम् ॥ अन्येषां शिम्बिधान्यानां दानात्सर्वमवाप्नु- यात् ॥ १० ॥ इक्षुसृष्टीकयोर्दानात्परं सौभाग्यमाप्नुयात् ॥ गुडप्रदस्तथारोग्यं सितादः काममीप्सितम् ॥ ११ ॥ फाणितस्य प्रदानेन परां तृप्ति- मवाप्नुयात् ॥ खण्डप्रदश्च सौभाग्यं सर्वान्कामानवाप्नुमदः ॥ १२ ॥ घृतदो जीवितं दीर्घ चारोग्यं तैलदस्तथा ॥ सर्वान्कामानवाप्नोति लवणं यः प्रयच्छति ॥ १३ ॥ सक्तुदस्तृप्तिमाप्नोति सिकतादस्तथा श्रियम् ॥ अकीर्तितानामन्येषां दानात्स्वर्गमवाप्नुयात् ॥ १४ ॥ पक्वान्नदानात्फलदं नृलोके शुक्कात्रमुक्तं हि तदाप्य यस्मात् ॥ यजन्ति यज्ञैः सततं द्विजेन्द्रास्तस्माच्च तत्पुण्यतमं प्रदिष्टम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धान्यदानप्रशंसा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः ॥ ३१४ ॥ ॥ हंस उवाच ॥
वि० ध०
॥४४०॥
तृ० खं०
अ० ३१६
सर्वेषामेव दानानामन्नदानं विशिष्यते ॥ अन्नदानात्परं दानं न भूतं न भविष्यति ॥१॥ नात्र पात्रपरीक्षा स्यान्न कालनियमास्तथा ॥ न च देशः परीक्ष्योऽन्नं देयमन्नं सदैव तत्॥२॥ अभूभ्यश्चापथेभ्यश्च पतितेभ्यस्तथैव च ॥ कृमिकीटपतङ्गानां देयमन्नं सदैव तु ॥३॥ अन्नं हि जीवितं लोके प्राणाश्चान्नेनिनबन्धनाः ॥ अन्नदः प्राणदो लोके सर्वदश्च तथान्नदः ॥ ४॥ भुक्त्वा तथा च यस्यान्नं सन्तः स्याद्द्विजोत्तमाः ॥ ज्ञातव्यं ब्राह्मणश्रेष्ठा यस्यान्नं तस्य सन्ततिः॥५॥ दातव्यं सर्ववर्णेष्यो भोक्तव्यं ब्राह्मणस्य च ॥ यस्यत्वेनोदरेस्थन्त ब्राह्मणे म्रियते द्विजाः ॥६॥ तान्तु योनिमवाप्नोति नात्र कार्या विचारणा ॥ भक्ष्यद्भिः स्वर्गमाप्नोति शक्रलोकन्तु भोज्यद्भिः ॥ ७॥ लेह्यद्भिर्वासवं लोके वसूनमपि चोष्यद्भिः ॥ वरुणं लोकमवाप्नोति तथा पानप्रदो नरः ॥ ८ ॥ पानकानि सुगन्धीनि शीतलानि प्रपच्छतः ॥ सर्वकामसमृद्धः स्यान्नात्र कार्या विचारणा ॥ ९ ॥ परमान्नप्रदानेन तृप्तिर्भवति शाश्वती ॥ पिपासमानो म्रियते गवां लोके महीयते ॥१०॥ यो दद्यादपारिक्लिष्टमन्नमन्वानि वर्तते ॥ श्रान्तायादृष्टपूर्वाय तस्य पुण्य फलं महत् ॥ ११ ॥ सहस्रपरिवेष्टुन्तु नरकं स न गच्छति ॥ विमानैनानार्कवर्णन स्वर्गलोके महीयते ॥ १२॥ अपहन्यात्तथा विप्रा एकस्यार्त्तस्य यत्क्षुधा ॥ तेनासौ कर्मणा प्रेत्य महत्फलमुपाश्नुते॥ १३॥ गवादिदत्तन्नं लोके यश्वास्त्य दयितं गृहे ॥ तत्तद्वणवते देयं तद्द्वाक्यमियच्छता ॥ १४ ॥ दानान्यनेकानि फलञ्च तेषां बहुप्रकारं पुरुषः समीक्ष्य ॥ श्रद्धान्वितो ब्राह्मणसात्तु कुर्याद्यत्तद्देवात्ममना नृलोके ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्नदानप्रशंसा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ ३१५ ॥ ॥ ऋषय ऊचुः ॥ कस्य दानस्य कः पात्रं तद्वदस्व महामते ॥ कस्मिन्देशे तथा काले किञ्चिद् दत्तं महाफलम् ॥ १ ॥ ॥ हंस उवाच ॥ ॥ न दानं यशसे दद्यान्नदद्यात्प्रोपकारिणे ॥ न नृत्यगीतशीलेभ्यो नास्तिकेभ्यश्च धार्मिकः ॥ २ ॥ पापशीले न दातव्यं कदाचिदपि किञ्चन ॥ पापशीले तु यदत्तं तद्दातुरदोषमावहेत् ॥ ३ ॥ धनदस्तेन पापेन शीघ्रमेव युज्यते ॥ तस्मात्प्राप्य धनं पुण्यं पुण्यशीलं समाचरेत् ॥ ४ ॥ धनदस्तेन पुण्येन योगमाप्नोत्यसंशयम् ॥ अन्नदानेन कर्तव्यं पात्रवेक्षणमप्यपि ॥ ५ ॥ अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विजाः ॥ सदोषोपि तु निर्दोष सगुणोतिगुणावहम् ॥ ६ ॥ तस्मात्सर्वप्रयत्नेन देयमन्नं सदैव तु ॥ विद्याध्ययनसक्तानामन्नदानं महाफलम् ॥ ७ ॥ शुभानामप्यथाऽन्वेषां कर्मणां द्विजपुङ्गवाः ॥ यथाश्रमुपयुञ्जानो नरः कर्माणि साधयेत् ॥ ८ ॥ कर्म साधयतः पुण्यमन्नदाता तथाऽश्नुते ॥ दत्त्वा नृपतिभीतानां धनिनाञ्च तथा धनम् ॥ ९ ॥ तस्कराम्भ्यश्च भीतानां फलमक्षयमश्नुते ॥ दियक्षता तथा दत्तं व्यसने हेतुमिच्छता ॥ १० ॥ दुःखान्वितानां दीना
॥४४०॥
नाक्षाख्यं तत्प्रकीर्तितम् ॥ विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु ॥ १२॥ आपत्नेषु च यद्दत्तं तदक्षय्यमुदाहृतम् ॥ यज्ञोपकरणं द्रव्यं क्षत्रिये द्विज
पुङ्गवाः ॥ १२ ॥ पुण्योपयोगि तद्देयं शूद्रे शिल्पोपजीविनम् ॥ यस्योपयोगि यद्द्रव्यं देयं तस्यैव तद्भवेत् ॥ १३ ॥ येनेयेन च भाण्डेन
यस्य वृत्तिरुदाहृता ॥ तत् तस्यैव दातव्यं पुण्यकामेन धीमता ॥ १४ ॥ दण्डं कृष्णाजिनञ्चैव तथा विप्राः कमण्डलुम् ॥ चीरं पुण्यमवाप्नोति
दत्त्वैतां ब्रह्मचारिणे ॥ १५ ॥ वस्त्रं शय्यासनं धान्यं द्रव्यं वेश्म परिच्छदम् ॥ गृहस्थाय तु तद्दत्तं ज्ञेयं बहुफलं सदा ॥ १६ ॥ नीवारवल्कलं
शाकं फलमूलं च गोरसम् ॥ वानप्रस्थाय तद्दत्तमन्तं परिकीर्तितम् ॥ १७ ॥ भिक्षाप्रदानं यतये पात्रदानं तथा हितम् ॥ सौभाग्यद्रव्य
ताम्बूलरक्तवस्त्रादिकं स्त्रियः ॥ १८ ॥ स्त्रीणां प्रदानं दातव्यं भर्तुहस्ते तु नान्यथा ॥ प्रोक्तं संमहणं ह्येतद्द्भूतं भर्तुः प्रयच्छतः ॥ १९ ॥ अन्नं
प्रतिश्रयं चोभौ पान्थे दत्तं महाफलम् ॥ विवाहादिक्रियाकाले तत्क्रियासिद्धिकारकम् ॥ २० ॥ यः प्रयच्छति धर्मज्ञाः सोऽक्षय्येमवाप्नुयात् ॥
आतुरेभ्यो धनं दत्त्वा दानं बहुफलं लभेत् ॥ २१ ॥ बाले क्रीडनकं दत्त्वा मिष्टमन्नं तथैव च ॥ फलं मनोहरं वापि अभिप्रेतमफलं लभेत् ॥ २२ ॥
मिष्टान्नं मानवो दत्त्वा मिष्टानि तु कांक्षतम् ॥ अक्षयं फलमाप्नोति स्वर्गलोकं च गच्छति ॥ २३ ॥ श्रीविहीने तथा दत्त्वा भोजनं द्विजसत्तमाः ॥
वस्त्रं शुभं वा धर्मज्ञाः पुण्यं महदुपाश्नुते ॥ २४ ॥ कृपास्थानपरो विप्रा विद्युतैः पुरुषः श्रिया ॥ तस्यानुकम्पा कर्तव्या सतां वर्त्मनि तिष्ठतः
॥ २५ ॥ कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ॥ अक्षयं फलमाप्नोति नात्र कार्या विचारणा ॥ २६ ॥ यवसानां प्रदानेन धेनुमत्सु द्विजातिषु ॥
लवणानाञ्च धर्मज्ञा फलमक्षयमश्नुते ॥२७॥ प्रसवेषु तदा दत्तं व्यसनान्यभये ततः ॥ तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः ॥२८॥दत्त्वा ब्राह्मण
शार्दूला जलमात्रमथार्थिने ॥ फलमक्षयमाप्नोति नात्र कार्या विचारणा ॥ २९॥ क्लेशं विना दत्तमथार्थिने तु दानं हि लोके फलदं निरुक्तम् ॥
अभ्यर्थितेनाथ ततो न कार्या विमानना त्वर्थिजनस्य शक्त्या॥३०॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनोत्युत्पत्ति र्हसगीतासु
पात्रविशेषेण दानविशेषवर्णनो नाम षोडशाधिकत्रिशततमोऽध्यायः ॥३१६॥ ऋषय ऊचुः ॥ दानं बहुफलं काले यस्मिन्यत्परिकीर्तितम् ॥ तद्व
मस्माकमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥ १॥ हंस उवाच ॥ संवत्सरे तथा दानं तिलस्य च महाफलम् ॥ परिपूर्वे तथा दानं यवानां द्विजसत्तमाः
॥ २ ॥ इडापूर्वेऽन्नवस्त्राणां धान्यानां चानुपूर्वके ॥ उदांसंवत्सरे दानं रजतस्य महाफलम् ॥३॥ उत्तरे त्वयने प्रोक्तं वस्त्रदानं फलप्रदम् ॥ स्नानानु
लेपनादीनां वसन्ते द्विजपुङ्गवाः॥४॥पानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे ॥ शरदभ्रस्य धर्मज्ञा वस्त्राणामपि हैमने॥५॥वह्निदानं नरः कुर्या
वि० ध० तृ० खं० अ० ३१७
॥४४१॥
सूर्यस्योदयनं प्रति ॥ शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः ॥ ६ ॥ कुल्माषं सघृतं दत्त्वा यथाशक्त्या द्विजातिषु ॥ कायाभिदीप्तिं प्राकाश्यं शत्रुनाशञ्च विन्दति ॥ ७॥ सूक्ष्मास्ताम्रघटांश्चैव सौवर्णैः कर्णकान्वितान् ॥ जलकुम्भोपरिकृतानक्षयं फलमश्नुते ॥ ८॥ मध्याह्ने प्रावृषि स्नातः सततं द्विजपुङ्गवाः ॥ तिलप्रदानान्मार्गे तु प्राप्यलोकं स गच्छति ॥ ९॥ प्रियंगुं फाल्गुने दत्त्वा प्रियो भवति भूतले ॥ चैत्रे चित्राणि वस्त्राणि सौभाग्यं महदश्नुते ॥ १०॥ अन्नपानां प्रदानेन वैशाखे स्वर्गमश्नुते ॥ छत्रदानं तथा ज्येष्ठे सर्वान्कामानवाप्नुते ॥ दत्त्वा चोपानहौ स्वर्गमाषाढे ध्रुवमश्नुते ॥ ११॥ श्रावणे वस्त्रदानस्य कीर्त्तितं सुमहत्फलम् ॥ प्रोष्ठपादे तथा मासि प्रदानात्कांसिनस्तस्य च ॥ १२ ॥ आश्विने घृतदानेन रूपवानभिजायते ॥ कार्त्तिके दीपदानेन सर्वत्रौजस्यमश्नुयात् ॥ १३ ॥ लवणं मार्गशीर्षे तु दत्त्वा सौभाग्यमश्नुते ॥ पौषे कनकदानेन परां पुष्टिं तथैव च ॥ १४ ॥ पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम् ॥ फलानां च तथा दानं कृष्णपक्षे महाफलम् ॥ १५॥ लवणागुडोपेतमपूपं सूर्यवासरे ॥ सहिरण्यं नरो दत्त्वा न रोगैरभिभूयते ॥ १६ ॥ एवंविधं चन्द्रदिने ददत्सौभाग्यमाप्नुयात् ॥ काष्ठदानं भौमदिने शत्रुनाशमवाप्नुयात् ॥ १७ ॥ बोधे क्रीडनकानाञ्च दानं बालेषु शस्यते ॥ जीवाह्नि वस्त्रदानेन परां पुष्टिं समश्नुते ॥ १८ ॥ सर्वत्र रतिमाप्नोति शुक्रे दत्त्वा रतिप्रियम् ॥ अभ्यङ्गं सौरदिवसे दत्त्वा जीवितमाप्नुयात् ॥ १९॥ कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम् ॥ रक्तवस्त्रस्य रोहिण्यां सौम्ये च लवणस्य चारु ॥ २०॥ मृगस्य तथाऽर्द्धायां चादित्ये रजतस्य च ॥ घृतस्य च तथा पुष्ये गन्धानांमथ सर्पभे ॥ २१ ॥ तिलानाञ्च मघायोगे प्रियङ्गोर्भगदैवते ॥ आर्यम्णे चाप्यपूपानां सावित्रे पायसस्य च ॥ २२ ॥ चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते ॥ ऐन्द्राग्ने चैव लोहानां मैत्रे माल्यफलस्य च ॥ २३॥ छत्रस्य च तथा शाक्रे मूले मूलफलस्य च ॥ हिमस्य मधुयुक्तस्य दानमाप्ये महाफलम् ॥ २४ ॥ विश्वेश्वरेन्नदानस्य श्रवणे वसनस्य च ॥ धान्यस्य वासवे विप्रा वारुणे चौषधस्य च ॥२५॥ अजपादे च बीजानां सस्यानां तदनन्तरे ॥ गोरसानां तथा पौष्णे स्नानानामथ चाश्विने ॥ ॥ २६ ॥ तिलानाञ्च तथा दानं भरणीषु महाफलम् ॥ प्रतिपद्यथ पुष्पाणां द्वितीयायां घृतस्य च ॥ २७ ॥ तृतीयायां तु वस्त्राणां चतुर्थ्यां कनकस्य तु ॥ पञ्चम्यान्तु फलानां वै षष्ठयां स्नानस्य मानदाः ॥२८॥ सप्तम्यां चाप्यपूपानामष्टम्याञ्च गुडस्य च ॥ कुल्माषस्य नवम्यान्तु दशम्यां रजतस्य च ॥ २९ ॥ एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च ॥ त्रयोदश्यां सुगन्धानां सितायास्तदनन्तरम् ॥ ३० ॥ दानञ्च परमावश्यं पञ्चदश्यां महाफलम् ॥ वैशाखशुक्लपक्षे तु तृतीयायां द्विजोत्तमाः ॥ ३१ ॥ यद्ददाति नरश्रेष्ठस्तत्तदक्षय्यमश्नुते ॥ विशेषेण
॥४४१॥
तथा दानमशस्तानां महाफलम् ॥ ३२ ॥ माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा ॥ तिलदानं महत्पुण्यं विनापि श्रवणेन तु ॥ ३३ ॥ मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः ॥ गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात् ॥ ३४ ॥ एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः ॥ देयानि सर्वाणि विनापि योगैर्योगेन पुण्यं त्वधिकं निरुक्तम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा- र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः ॥ ३१७ ॥ ऋषय ऊचुः ॥ व्रतं नक्षत्रसन्नाहं सदानं कथयस्व नः ॥ सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन ॥ १ ॥ हंस उवाच ॥ कृत्तिकासु महाभागाः पायसेन स- सर्पिषा ॥ संतार्य ब्राह्मणांत्साधूंल्लोकान्प्राप्नोत्यनुत्तमान् ॥ २ ॥ रोहिण्यां प्रथितैर्मांसैर्मधुरैश्च परैस्तथा ॥ पयोलुपानं दातव्यं चान्नाद्यार्थं द्वि- जातये ॥ ३ ॥ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ॥ गच्छेन् मातॄनपोढोऽकान्स्वर्गेवासमनुत्तमम् ॥ ४ ॥ आर्द्रार्या कृसरं दत्त्वा तैलमिश्रं सुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान् ॥ ५ ॥ पूपान्पुनर्वसौ दत्त्वा तथैवान्नांश्च शोभनम् ॥ यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥ ६ ॥ पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च ॥ अनालोकेषु लोकेषु सोमवत्स विराजते ॥ ७ ॥ अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति ॥ स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति ॥ ८ ॥ मघासु तिलपूर्णानि वर्धमानानि मानवः ॥ प्रदाय पुत्रपशुमानि- ह प्रेत्य च मोदते ॥ ९ ॥ फाल्गुनीपूर्वसमये ब्राह्मणानासुपोषितः ॥ भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति ॥ १० ॥ घृतक्षीरसमायुक्तं विविधन्पाष्टिकौदनम् ॥ उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ ११ ॥ यद्यत्प्रदीयते दानं चोत्तराविषये नरैः ॥ महाफलमतीतञ्च भवती- ति विनिश्चयः ॥ १२ ॥ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान ॥ १३ ॥ चित्रायां वृषभं दत्त्वा पुण्यान्गंधांश्च मानवः ॥ चरत्यप्सरसां लोके रमते नन्दने वने ॥ १४ ॥ स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः प्राप्नोति लोकान्सु- शुभानिहैव च महद्यशः ॥ १५ ॥ विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ॥ सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम् ॥ १६ ॥ पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते ॥ न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ १७ ॥ दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिश्रां स विन्दति ॥ नरकादींश्च स क्लेशांन्न प्राप्नोतीति निश्चयः ॥ १८ ॥ अनुराधासु प्रावारं वस्त्रान्तरसुपोषितः ॥ दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ १९ ॥ कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ॥ ज्येष्ठायमृद्धिमृद्धाम्च गतिमिष्टाम्च गच्छति॥२०॥ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ॥
वि० ध० तृ० खं० अ० ३१४
॥४४२॥
स पितॄन्प्रीणयत्येव गतिमग्र्याञ्च गच्छति ॥ २१ ॥ अथ पूर्वास्वाषाढासु दधिपात्रामुपोषितः ॥ कुले वृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ २२ ॥ प्रदाय जायते प्रेत्य कुले स बहुगोकुले ॥ उदकुम्भं ससर्पिष्कं प्रसृतं मधुफानितम् ॥ २३ ॥ दत्त्वोत्तरास्वाषाढासु सर्वाङ्कामान्त्समश्नुते ॥ दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् ॥ २४ ॥ वर्षं नित्यं मनीषिभ्यः स्वर्गलोके महीयते ॥ श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ॥ २५ ॥ श्वेतेन याति यानेन स्वर्गलोकान्संवृतान् ॥ गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ॥ २६ ॥ वस्त्रारिश्मन्वं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ गन्धाञ्छतभिषग्योगे दत्त्वा सागुरुचन्दनान् ॥ २७ ॥ प्राप्नोत्यप्सरसां लोकान्रेत्य गन्धैश्च शाश्वतान् ॥ पूर्वाभाद्रपदायोगे राजमाषान्रदाय च ॥ २८ ॥ सर्वभक्ष्यफलोपेतं स वै प्रेत्य सुखी भवेत् ॥ औरभ्रं चोत्तरायोगे यस्तु मांसं प्रयच्छति ॥ २९ ॥ स पितॄन्प्रीणयत्येव प्रेत्य चानन्त्यमश्नुते ॥ कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ॥ ३० ॥ स प्रेत्य कामानादाय दातारमुपतिष्ठते ॥ रथमुश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ॥ ३१ ॥ हस्त्यश्वरथसम्पन्नं वर्चस्वी जायते कुले ॥ भरणीषु द्विजातिभ्यस्तैलधेनुं प्रदाय वै ॥ गाः सुप्रसूताश्चाप्नोति नरः प्रेत्य यशस्तथा ॥ ३२ ॥ नक्षत्रसत्रं कथितं मयैतद्यथेष्टलोकाभिगमाय पुंसाम् ॥ कृत्वा सकृत्प्राप्नुतस्तत्तु कल्पमास्ते सुखं देवपतिर्यथासौ ॥ ३३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नक्षत्रसत्रविधानं नामाष्टादशाधिकत्रिशततमोऽध्यायः ॥ ३१८ ॥
॥ ऋषय ऊचुः ॥ भूय एव त्वमाचक्ष्व दानानां कालयोगतः ॥ फलं द्विजवराख्यांकं प्रत्यक्षामलदर्शन ॥ १ ॥
॥ हंस उवाच ॥ संप्राप्य चैत्रमासस्य शुक्लां पक्षदशीं नरः ॥ चित्रं वस्त्रयुगं दत्त्वा सोपवासो द्विजातये ॥ २ ॥ ब्राह्मणांश्चापरं विप्राः सौभाग्यं महदाप्नुयात् ॥ वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान्सप्त पञ्च वा ॥ ३ ॥ क्षोद्रेणोक्तैस्तिलैः कृष्णैर्वर्णचयंविधेः वेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते ॥ ४ ॥ यावज्जीवकृतोत्पापात्तक्षणादेव मुच्यते ॥ तस्मिन्नेव तथा काले सकुरं कृष्णमार्गणम् ॥ ५ ॥ तिलैः प्रच्छाद्य वासोभिः सर्वतनैरलंकृतम् ॥ तपस्यन्ते च दातव्या मही सवनकानना ॥ ६ ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ॥ ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥ ७ ॥ सोपवासस्तथा ज्येष्ठे पूर्णे तु शशलक्ष्मण ॥ उपानहौ तथा छत्रं दत्त्वात्यन्तसुखी भवेत् ॥ ८ ॥ आषाढ्यामन्नदानस्य प्राप्नोत्यन्नं नरो बहु ॥ जलधेनुप्रदानेन श्रावण्यां स्वर्गमाप्नुयात् ॥ ९ ॥ गोदानं प्रोष्ठपादे तु पौर्णमास्यां महाफलम् ॥ आश्वयुज्यां कांस्यपात्रां घृतपूर्णां द्विजातये ॥ १० ॥ सुवर्णञ्च तथा दत्त्वा दीप्तिमांस्त्वभिजायते ॥ कार्त्तिक्यां चन्द्रपूर्णाभमन्यवर्णमथापि वा ॥ ११ ॥ रत्नैर्गन्धैस्तथा धान्यैर्बीजैश्चैवोक्षतैव च ॥
॥४४२॥
कृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्ततः ॥ १२ ॥ चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ॥ कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ॥ १३ ॥ सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ॥ मार्गशीर्षे तथा मासे पूर्णं शिशिरार्दितौ ॥ १४ ॥ महारजतयुक्तेन वाससा द्विजपुङ्गवान् ॥ आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ॥ १५ ॥ लवणस्य तु शुक्लस्य चूर्णितस्य द्विजोत्तमाः ॥ दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ॥ १६ ॥ सौभाग्यंरूपलावण्ययुक्तो भवति मानवः ॥ गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ॥ १७ ॥ गन्धस्याज्यस्य कुम्भेन सोऽभिषिक्तस्त्वनन्तरम् ॥ विरूढिस्थितस्तथा स्नातः सर्वबीजौषधीजलैः ॥ १८ ॥ गन्धस्तत्फलोपेतैर्घृतेन तदनन्तरम् ॥ स सुवर्णं मुखं दृष्ट्वा घृतं तत्प्रदद्याद्द्विजातये ॥ १९ ॥ घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ॥ घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ॥ २० ॥ कृत्वैवं द्विगुणं द्वादश्योपवासः समाहितः ॥ कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २१ ॥ माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ॥ स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ॥ २२ ॥ रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ॥ नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २३ ॥ तथा नारीपि भर्तारं नात्र कार्या विचारणा ॥ पौर्णमासीषु चैतासु मासषट्सहितासु च ॥ २४ ॥ एतेषामेव दानानां फलं दशगुणं भवेत् ॥ महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ॥ २५ ॥ द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ॥ अक्षयं फलमाप्नोति नाकलोके च गच्छति ॥ २६ ॥ वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ॥ छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥ २७ ॥ स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ॥ आषाढशुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥ २८ ॥ श्रावणे वस्त्रदानेन विष्णुलोके महीयते ॥ गोदः प्रयाति गोलोके मासि भाद्रपदे द्विजाः ॥ २९ ॥ प्रीणयेच्छिरसश्चाश्वं दत्त्वा तथाश्विने ॥ विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ३० ॥ सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात् ॥ प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ॥ ३१ ॥ धान्यानाञ्च तथा पौषे दारूणां चाप्यनन्तरे ॥ फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा ॥ ३२ ॥ भाग्यसंयुता चैत्री द्वादशी स्यान्महाफला ॥ हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ॥ ३३ ॥ ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ॥ तथा भाद्रपदे मासि श्रवणेन तु संयुता ॥ ३४ ॥ आश्विने द्वादशी पुण्या भवत्याज्यैर्ऋक्षसंयुता ॥ कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ॥ ३५ ॥ पौषे मृगशिरोपेता माघे चादित्यसंयुता ॥ फाल्गुने पुष्यसहिता द्वादशी पावना परा ॥ ३६ ॥ नक्षत्रयुक्तास्त्वेतास्तु तथा दानमुपोषितः ॥ सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥ ३७ ॥ मेषसंक्रमणे भानोर्मेषदानं महाफलम् ॥ वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥ ३८ ॥
शयनासनदानञ्च मिथुनोपगते रवौ ॥ कर्कप्रवेशे सक्तूनां सितया च तथैव च ॥ ३९ ॥ गुडफाणितखण्डानां सितायाश्च तथा द्विजाः ॥ लवणो त्पलफालानाञ्च तथा हरितकस्य च ॥ ४० ॥ तथा चैवोदकुंभानां दानं ज्ञेयं महाफलम् ॥ सिंहप्रवेशे पात्राणां तैजसानां तथैव च ॥ ४१ ॥ कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥ तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमे ॥ ४२ ॥ कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च ॥ धन्विप्रवेशे वस्त्राणां यानानाञ्च महाफलम् ॥ ४३ ॥ मृगप्रवेशे दारूणां दानमग्नेस्तथैव च ॥ कुम्भप्रवेशे दानं तु गवामथ तृणस्य तु ॥ मीनप्रवेशे स्थानानां माल्यानामपि चोत्तमम् ॥ ४४ ॥ दानान्येतानि मया द्विजेन्द्राः प्रोक्तानि काले तु नरश्च दत्त्वा ॥ प्राप्नोति कामान्मनसा त्य भीष्टांस्तस्मात्प्रशंसन्ति महाप्रदानम्॥४५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु द्वादशपौर्णमासीदानफल निरूपणं नामैकोनविंशाधिकत्रिशततमोऽध्यायः ॥ ३१९ ॥ ऋषय ऊचुः ॥ पुण्ययज्ञाक्रियाः प्रोक्ता ये नराशनसंयुताः ॥ तथा मध्यमवृत्तानां दानानि विविधानि च ॥ १ ॥ कथितान्यल्पवृत्तानां दानानि विविधानि च ॥ ये नरा विस्तरहितास्तेषां धर्मक्रियां वद ॥ २ ॥ हंस उवाच ॥ उपवासक्रिया तेषां परं धर्मकारणम् ॥ वित्तान्वितानाञ्च तथा प्रशस्ता सा महाफला ॥ ३ ॥ सायं प्रातस्तु भुञ्जानो नान्तरात्वोदकमपिबन् ॥ षड्भिरूषैर्नरो लोकं प्राप्नोति मनसेप्सितम् ॥ ४॥ ऽथमासानुवृत्तं चेत्तच्छ्रन्यं निर्व्यलीकं भवेत् ॥ यथेहलोकदं पुण्यं मानुष्येपि महाफलम् ॥ ५॥ उप वासं नरः कुर्वन्मासि द्विजोत्तमाः ॥ उषित्वा शुचिरं लोके मानुष्ये जायते यदा ॥ ६ ॥ तदा भवति दीर्घायुर्धनवान्बहुसंयुतः ॥ पक्षपक्षं तथा कुर्वन्द्दिगुणं फलमश्नुते ॥ ७ ॥ मासेमासे त्रिरात्रन्तु यः कुर्यान्मानवोत्तमः ॥ गाणपत्यमवाप्नोति स्वर्गलोकेऽप्सरोवृतः ॥ ८ ॥ पक्षपक्षे त्रिरात्रन्तु कृत्वा भवति पार्थिवः ॥ स्वर्गलोकात्पारिभ्रष्टः सुचिरेण महाबलः ॥ ९ ॥ द्विजास्त्रिकालं कुर्वीत न तु शूद्रः कथञ्चन ॥ षष्ठकाला शनं तस्य तपः परिमहोच्यते ॥ १० ॥ शूद्रस्त्रिरात्रं कुरुते विषये यस्य भूपतेः ॥ तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ॥ ११ ॥ तपः कुर्वीत शूद्रस्तु चैकद्विदिवसान्तरम् ॥ यथाशक्ति द्विजश्रेष्ठान्तेन कामानवाप्नुते ॥ १२ ॥ अतः परन्तु वर्षानां मासेमासे द्विजोत्तमाः ॥ एक कालाशनानान्तु शृणुध्वं फलमुत्तमम् ॥ १३ ॥ चैत्रन्तु नियमो मासं चैकभक्तेन यः क्षिपेत् ॥ सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ १४ ॥ निरस्यैदेकभक्तेन वैशाखे यो द्विजोत्तमः ॥ नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ १५ ॥ ज्येष्ठामूलं तु यो मासमेकभक्तेन वर्तयेत् ॥ वैश्वर्यमतुलं श्रेष्ठं पुमांस्त्री वाभिजायते ॥ १६ ॥ आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ॥ बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ १७ ॥
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ॥ यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः ॥ १८ ॥ प्रौष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम् ॥ धनाढ्यः स्फीतममुलं वैश्यं प्रतिपद्यते ॥ १९ ॥ तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ॥ मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ २० ॥ कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम् ॥ शूरश्च बहुभार्य्यश्च कीर्त्तिमांश्चैव जायते ॥ २१ ॥ मार्गशीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो बहुधान्यश्च जायते ॥ २२ ॥ पौषमासन्तु विप्रेन्द्रा भक्तैकेन यः क्षिपेत् ॥ सुभगो दर्शनीयश्च यशोभागी च जायते ॥ २३ ॥ माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो धान्यवानभिजायते ॥ २४ ॥ भगोदवन्तु यो मासमेकभक्तेन यः क्षिपेत् ॥ श्रीमत्कुले ज्ञातिमुख्ये स महत्त्वं प्रपद्यते ॥२५॥ स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ यथोक्तफलदाह्येते वर्षद्वादशभिः स्मृताः॥२६॥ यस्तु संवत्सरं पूर्ण मेकहारी भवेत्सदा ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२७॥ तथा संवत्सरं पूर्णमेकान्तरितभोजनः ॥ यज्ञं बहुसुवर्णञ्च ध्रुवमाप्नोति वै द्विजाः ॥२८॥ अब्दमर्द्धं तृतीयेह्नि भुंजानश्च तथा नरः ॥ वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः ॥ २९ ॥ एककालं तु भुञ्जानस्त्वब्दमर्द्धं तु पञ्चमे ॥ स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते॥ ३० ॥ षष्ठेपष्ठे तथैवाऽहं त्वशानः प्रयतो नरः ॥ अष्टादश पदानि वर्षाणां दिवि मोदते ॥ ३१ ॥ दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम् ॥ षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते ॥ ३२ ॥ अष्टमे दिवसे चाब्दं भुञ्जानः प्रयततः सदा ॥ पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते ॥ ३३ ॥ यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि ॥ कल्पमेकं स विप्रन्द्र देववद्दिवि मोदते ॥ ३४ ॥ एकादशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ शतकल्पद्वयं नाके मोदते देववद्दिवि ॥ ३५ ॥ दिवसे द्वादशे यस्तु प्रांते वै प्राश्नुते हविः ॥ त्रीणि कल्पान्यसौ नाके भुंक्ते देवसुखान्त्रितः ॥ ३६ ॥ त्रयोदशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ तस्य कल्पानि चत्वारि गतिर्नार्क प्रकीर्तिता ॥ ३७ ॥ चतुर्दशी तु दिवसे यः प्रातं प्राश्नुते हविः ॥ सप्त तस्य तु कल्पानि गतिर्नार्क प्रकीर्तिता ॥ ३८ ॥ संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः ॥ नाके वसति धर्मात्मा देशे कल्पान्यसंशयम् ॥ ३९ ॥ अब्दमर्द्धं तथाऽष्टादश फलं दिनयुतेन यः ॥ स तु कल्पशतं विप्रा देववद्दिवि मोदते ॥ ४० ॥ दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम् ॥ स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च ॥ ४१ ॥ अष्टादशे च दिवसे यः प्राशेदेकभोजनम् ॥ नाके कल्पं सहस्रं तु नरः कतर्भामोदते ॥ ४२ ॥ एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम् ॥ स तु कल्पसहस्रन्तु सार्धं नाके च मोदते ॥४३॥ एककालं च भुञ्जानः प्राप्ते विंशतमे दिने ॥ कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः ॥४४॥
वि० ध० ॥४४४॥ तृ० खं० अ० ३२१
एकविंशे तु दिवसे यः कुर्यादेकभोजनम् ॥ त्रीणि कल्पसहस्राणि तस्य नाके गतिर्भवेत् ॥ ४५ ॥ द्वाविंशे दिवसे प्राप्ते यो भुंक्ते चैकभोजनम् ॥ चत्वारि स च कल्पानां सहस्रं प्राप्नुयाद्दिवि ॥ ४६ ॥ त्रयोविंशे च दिवसे यः प्राश्नेदेकभोजनम् ॥ पञ्च कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥ ॥ ४७ ॥ चतुर्विंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ सप्त कल्पसहस्राणि नाकस्थः स तु मोदते ॥ ४८ ॥ पञ्चविंशतमे चाह्नि यः प्राश्नेदेकभोजनम् ॥ दश कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥ ४९ ॥ षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ॥ स तु कल्पसहस्राणि चतुर्विंशः रो भवेत् ॥ ५० ॥ सप्तविंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणि नाकस्थोपि च मोदते ॥ ५१ ॥ अष्टाविंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणि चत्वारिंशत्तु मोदते ॥ ५२ ॥ एकोनत्रिंशे दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणां पञ्चाशन्नाकगो भवेत् ॥ ५३ ॥ यस्तु त्रिंशद्दिने प्राप्ते चाश्नीयादेकभोजनम् ॥ स तु कल्प सहस्राणां नाकस्थः पूज्यते शतम् ॥ ५४ ॥ मासेमासे गते प्रायः प्राश्नीयादेकभोजनम् ॥ पौरुषं स दिनं नाके देववन्मोदते सदा ॥ ५५ ॥ सर्वे व्रतास्तु कव्याय वर्षमेकं सुवावहाः ॥ वर्षं तु फलदाः प्रोक्ता नात्र कार्या विचारणा ॥ ५६ ॥ स्नानं सर्वेषु कर्तव्यं कार्यो होमस्तथैव च ॥ न भोक्तव्यं तथा मांसं व्रतस्य फलमश्नुते ॥ ५७ ॥ आश्रित्य तीर्थं यदि वापि देवं व्रतान्यथैतानि महाफलानि ॥ कार्याणि नैतान्यधिकानिस्तु मासात्तः परं नानशनं प्रदिष्टम् ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्द्राति हंसगीतासूपवासविधिवर्णनं नाम विंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२० ॥ ॥ ऋषय ऊचुः ॥ ॥ केन काले कर्मणा केन प्राप्नुवन्ति नरोत्तमाः॥ तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदर्हसि ॥ १ ॥ ॥ हंस उवाच ॥ ॥ ज्येष्ठस्यान्नं पितरं मातरं गुरुमेव च ॥ नित्यं सम्पूजयद्गत्या याम्यलोके महीयते ॥ २ ॥ भोजनाच्छादनाद्येन त्वतिथिं चैव पूजयेत् ॥ राजराजस्य लोकेषु मोदते नात्र संशयः ॥ ३ ॥ मेरोः समीपं गच्छन्वै नित्यमध्ययनतत्परः ॥ सुदर्शना यत्र च सा जम्बूः ख्याता द्विजातयः ॥ ४ ॥ नृत्ते गीते च कुशालं नन्दनं यान्ति ते वनम् ॥ हिमानि वृत्ता गच्छन्ति तथा चैवोत्तराकुरून् ॥ ५ ॥ नित्यं दानपराः सन्तो लोके गच्छन्ति शाश्वतम् ॥ आदित्यलोके गच्छन्ति तथा ये तपसि स्थिताः ॥ ६ ॥ तीर्थयात्रापरा यान्ति तथा लोके प्रचेतसः ॥ संग्रामे निहता यान्ति शक्रलोकमसंशयम् ॥ ७ ॥ प्रजापत्यं तथा यान्ति सम्यग्वृत्ता महीक्षितः ॥ गवां पत्या तथा यांति गोलोके मानवोत्तमाः ॥ ८ ॥ यान्ति लोकं च सूर्यस्य नित्यं ये सत्यभाषिणः ॥
॥४४४॥
प्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः ॥ ९ ॥ वायुलोके महीयन्ते रोगिणां परिचारकाः ॥ लोकं गच्छन्त्यथामेयं वह्निंशुश्रूषणे रताः ॥ १० ॥ यांति ते नैर्ऋतं लोकं प्रपारक्षणतत्पराः ॥ भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः ॥ ११ ॥ यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः ॥ मरुतां च तथा लोकं यांति यानप्रदा नराः ॥ १२ ॥ नासत्यलोके मोदन्ते तथौषधदायिनः ॥ रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः ॥ १३ ॥ स्वाचारनिरता यांति वैश्वदेवमसंशयम् ॥ आदित्यैः सह मोदंते दयावन्तस्तु ये नराः ॥ १४ ॥ ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च ॥ तद्द्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः॥१५॥यस्य देवस्य यो भक्तिं सदा वहति मानवः॥सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः॥ १६॥ लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः ॥ अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः ॥ १७ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२१ ॥ ॥ ऋषय ऊचुः ॥ कथयस्वामिताप्राज्ञ स्त्रीणां धर्ममतः परम् ॥ तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे ॥ १ ॥ ॥ हंस उवाच ॥ स्त्रीधर्मः पूर्व एवार्य विवाहे बन्धुभिः कृतः ॥ सधर्मचारिणी भर्तुर्भव द्विजसत्तमः॥२॥सा तु स्वभावा सुविमना सुविभक्ता सुदर्शना ॥ अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ ३ ॥ पुत्रवत्क्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती ॥ या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ ४ ॥ अस्त्वेदं पतिधर्मं वै महाश्रमकृतं शिवम् ॥ या भवेद्धर्मपरमा नारी भर्तृसमव्रता॥५॥ देववत्सततं साध्वी भर्तारमनुपश्यति॥ शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती ॥६॥ वश्यभावेन सुमनाः सुव्रता सुसमाहिता ॥ अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी ॥७॥ पारुष्यमपि वोक्ता या हृष्टा वा क्रूरचक्षुषा ॥ सुप्र- सन्नमुखी भर्तुर्यानारी सा पतिव्रता॥८॥न चन्द्रसूर्यौ तद्रूपं नैव या च निरीक्षते॥ भर्तुर्वक्त्रं वरारोहा सा भवेद्धर्मभागिनी॥९॥दारिद्र्ये व्याधितं दीनं याचिना परिकीर्तितम् ॥ पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी ॥ १० ॥ या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ॥ पतिव्रता पतिप्राणा सा नारी धर्मभागिनी ॥ ११ ॥ शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा ॥ सुप्रतीता सुमनाः सा नारी धर्मभागिनी ॥ १२ ॥ न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ॥ स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी ॥ १३ ॥ कामार्थान्न ब्रता नित्यं गृहशुश्रूषणे रता ॥ सुसम्पृष्ट क्षया चैव गोशकृत्कृतलेपना ॥ १४ ॥ अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ॥ देवतातिथिभृत्यानां निरूप्य पतिना सह ॥ १५ ॥ शेषात्न- मुपभुञ्जाना यथान्याय यथाविधि ॥ तुष्टभृत्यजना नित्यं नारी धर्मेण युज्यते ॥ १६ ॥ श्वश्रूश्वशुरयोः पादाँस्तोष्यन्ती गुणान्विता ॥ माता ७५
वि० ध० ॥४४४॥
तृ० खं० अ० २२३
पितुरता नित्यं या नारी सा तपोधना ॥ १७ ॥ ब्राह्मणान्दुर्बलांस्तांश्चान्नतृष्णार्त्तांस्तथा ॥ विभज्येतेन या नारी सा पतिव्रतभागिनी ॥ १८ ॥ ऋतुस्नाता या नित्यं दृश्वरं स्पृष्टमानसा ॥ पतिव्रता पतिरता सा पतिव्रतभागिनी ॥ १९ ॥ पृथुमेतत्तपोधैर्व स्वर्गेभैव सनातनः ॥ या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥२०॥ पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ॥ पत्या गतिः समा नास्ति दैवतं वा यथा पतिः ॥२१॥ पतिः स्वर्गप्रदो नार्या यदा तल्पमना भवेत् ॥ यद्यत्कार्यमकार्यं वा यदि वा प्राणनाशनम् ॥ २२ ॥ पतिः पातकुयुक्तो वा व्याधितो वा कथ ञ्चन ॥ आपन्नो रिपुसंस्थो वा ब्रह्मशापादितोऽपि वा ॥ २३ ॥ आपच्छर्मानुमेधृत्य तत्कार्य्याविशङ्कया ॥ स्वातन्त्र्यपुक्तपरं हि पापं स्त्रीणां सदा तेन सदैव नारी ॥ स्वातन्त्र्यहीना सततमभैर्वृद्धि या काममेवार्कमितिधराय ॥ २४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र सं० मुनीश्वति हंसगीतासु स्त्रीधर्मनिरूपणो नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥ २२२ ॥ ॥ हंस उवाच ॥ ॥ स्वेस्वे धर्मे व्यव स्थानं वर्णानां पृथिवीपतेः ॥ परो धर्मः सदा प्रोक्तस्तत्र यत्र भवेन्नरः ॥ १॥ देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् ॥ निग्रहश्च दुष्टानान्नृपधर्मे नैकारणम् ॥ २ ॥ समता व्यवहारेषु स्वयञ्चैवान्ववेक्षणम् ॥ राज्ञां धर्मं परं विद्यात्तथा वै चाष्टहस्तता ॥ ३ ॥ स्वदेशपालनं धर्मः परराष्ट्राभिभर्द्द नम् ॥ यज्ञदानक्रिया चैव संग्रामे चापलायनम् ॥ ४ ॥ मृगयासा तथा पानं गर्हितानि महीभुजाम् ॥ वाग्दण्डयोस्तु पारुष्यन्तथैवार्थस्य दूष णम् ॥ ५ ॥ सन्धिविग्रहदानानामासनस्य तथैव च ॥ द्वैधीभावस्य चाप्युक्ता सेवा वै संश्रयस्य च ॥ ६ ॥ ज्ञात्वा कालबलं राजा षाड्गुण्यस्य र् निश्चये ॥ इन्द्रियाणाञ्जयः यतः सदा स्याद्विजयबुद्धयाः ॥ ७ ॥ ततो भृत्यजयः कार्य्यः समस्तविनयस्ततः ॥ कामः क्रोधो मदो लोभो मानो हर्षस्तथैव च ॥ ८ ॥ आभ्यन्तरा विजेतव्या रिपवः षण्महीभुजा ॥ ततस्तु शत्रवो जेयाः कुल्यश्चैवेतरेक्रिमाः ॥ ९॥ भूमिमित्रहिरण्यानामर्जने यत्नवान्भवेत् ॥ धर्मार्थकामसस्त्रा च सदा कार्या महीक्षिता ॥ १० ॥ स्वाम्यमात्यञ्जनं दुर्गं कोशो दण्डः सुहृत्तथा ॥ राज्ये प्रकृतयः सप्त रक्ष्या यत्नेन भुभुजा ॥ ११ ॥ देवमन्त्रौषधोत्साहैः शक्तिभिर्युतस्तथा भवेत् ॥ मङ्गलाचारयुक्तानां सिध्यन्ते देशशक्तयः ॥ १२ ॥ चतुरङ्गबलं कुर्यात्सुभृतेश्च तथा नृपः ॥ कर्मणा मनसा वाचा सदा लोकं प्रसाद्येत् ॥ १३॥ महच्चावरणं कार्यमित्यमेव समृद्ध्ये ॥ राजा सहायसम्पन्नः पश्यञ्झाङ्गलं शिवम ॥ १४॥ देश्यशूद्रजनप्रायमरोगं देशमावसेत्॥ तत्र दुर्गाणि कुर्वीत स्वदुर्गश्च विशेषवत ॥ १५ ॥ धन्वदुर्गम्महीदुर्गं गिरिदुर्गन्तथैव च ॥ अदुर्गं वृक्षदुर्गञ्च नदीदुर्गन्तथैव च ॥ १६ ॥ एषामन्यतमे दुर्गे
धनधान्यसमायुते ॥ हस्त्यश्वरथसम्पन्ने मणिभूरूपशोभिते ॥ १७ ॥ पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते ॥ सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥ १८॥ हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे ॥ घृततैलोषधियुते सर्वोपकरणैस्तथा ॥ १९ ॥ प्राकारपरिखावप्रगोपुराट्टालकैर्युते ॥ पापतस्करदुर्धूर्त्तकुहूल्यादिवर्जिते ॥२०॥ दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम् ॥ तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम् ॥ २१ ॥ कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः ॥ कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम् ॥ २२ ॥ तया सह सदा राजा गृहस्थाश्रमचोदितम् ॥ पञ्चयज्ञविधानन्तु कारयेत् पुरोहितम् ॥ २३ ॥ यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा ॥ देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ॥ ॥ २४ ॥ उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च ॥ दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम् ॥ २५ ॥ राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम् ॥ भूमिपानाम्महाप्रज्ञाः सर्वकल्मषनाशनम् ॥ २६ ॥ गवां लक्षणसंयुक्तं तुरगांश्चाभिपरीक्षयेत् ॥ सलक्षणं तथा रत्नं खड्गञ्चेक्षेत भूषणा- न्नृपः ॥ २७॥ दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान् ॥ दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा ॥ २८ ॥ देशेश्वरांस्तथा कुर्या- न्नगरस्थांश्च विशेषतः ॥ ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत् ॥ २९ ॥ अशक्तश्च दशेशाय स तु गत्वा निवेदयेत् ॥ शतेशाय दशेशस्तु शतेशो देशपाय च ॥३०॥ ग्रामादिपालकानां तु शौचाशौचं नराधिपः ॥ चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत् ॥ ३१ ॥ राज्ञो हि रक्षा- धिकृताः परस्वादायिनः शठाः ॥ भूत्वा भवन्ति प्रायेण तेभ्यो रक्षेद्भृशम्प्रजाम् ॥३२ ॥ तथा च रक्षाधिकृताननुरूपेण योजयेत् ॥ विभवेन द्विज- श्रेष्ठाः परीक्ष्य च पुनःपुनः ॥३३॥ राजा कर्मानियुक्तानां क्षीणां प्रपञ्चजनस्य च ॥ प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥३४॥ आपदस्थांश्च नोच्छिन्द्याद्विशेषोदात्तकानपि ॥ सम्बन्धिभ्यश्च गृहीत्वाऽऽत्मन्मालाकारोपमो नृपः ॥ ३५ ॥ क्रयविक्रयमध्वानं भक्तञ्च सपरिच्छदम् ॥ योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम् ॥ ३६ ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ॥ तथावेक्ष्य नरो राष्ट्रे कल्प- येत्सततं करम् ॥ ३७ ॥ पञ्चाशद्भागं आदायो राज्ञाम्पशुहिरण्ययोः ॥ धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता ॥ ३८ ॥ षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम् ॥ गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥ ३९ ॥ पत्रशाकतृणानाञ्च चर्मणां वैदलस्य च ॥ मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ॥ ४० ॥ यत्किंचिदपि वर्षस्य दापयेत्करसंज्ञितम् ॥ व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक् ॥ ४१ ॥ राजदूतकरेभ्यश्च गृह्णीयात्सप्तकं शतम् ॥ पञ्चपञ्चाशतन्तत्र समिकः प्राप्तुमर्हति ॥ ४२ ॥ कारुकाञ्शिल्पिनश्चैव शूद्र-
धर्मोपजीविनः ॥ एकैकं कारयेत्कर्म मासिमासि महीपतिः ॥ ४३ ॥ स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः ॥ विदेशपण्याच्च तथा देयमप्यंशतं समम् ॥ ४४ ॥ शुल्कस्थानमभिन्वेदकं न द्वितीयं कथञ्चन ॥ शुल्कं भूयस्तु गृह्णीयाच्चौरस्यामिति किल्विषम् ॥४५॥ न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ॥ न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रब्रजिते न यज्ञे ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२३ ॥ ऋषय ऊचुः ॥ राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम् ॥ तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥ १॥ हंस उवाच ॥ आसीत्कृतयुगे पूर्वं प्रजाधर्मनिबन्धनः ॥ ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत् ॥ २ ॥ धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः ॥ दृष्ट्वा च व्यवहारान्राजा दण्डधरः कृतः ॥ ॥ ३ ॥ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ॥ दृष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम् ॥ ४ ॥ व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ॥ धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः ॥ ५॥ कुलोद्वत्ता स्थिता धर्मे मन्त्रायुक्ताः श्रुतान्विताः ॥ राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ ॥ ६ ॥ अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ॥ सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ७ ॥ क्षत्रियस्तत्त्व वा वैश्यो न तु शूद्रः कदाचन ॥ यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः ॥ ८॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्ष्याद्व्याधितस्करैः ॥ विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा ॥ ९ ॥ द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः ॥ दुष्टैर्ह्यव्यवहारेण राजा वित्तं यदर्जितम् ॥ १० ॥ त्रि०, । तु दातव्यं ब्राह्मणेभ्यथ वांभसि ॥ स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ॥ ११ ॥ आवेदति चेद्राज्ञे व्यवहारपदं हि तत् ॥ प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः ॥ १२ ॥ अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्॥ नदीसन्तारकारण्यदुर्गदेशोपप्लवादिषु ॥१३॥ नागतव्यो न स दंड्यः स्यान्नासौ राज्ञोऽपराध्नुति ॥ १४ ॥ निवृत्तकामो रोगात्तं विपद्युच्छ्र्वसने स्थितः॥१४॥ अभियुक्तस्तथान्येन राजकार्यरतस्तथा ॥ गवां प्रचारे गोपालाः सम्प्रत्काले कृषीवलाः ॥१५॥ शिल्पिनश्चैव तत्कालं चायुद्येचाश्च विग्रहे ॥ अपास्तव्यवहाराश्च दूतदानो मुखी व्रते ॥ १६ ॥ विषमस्थश्च नासाव्या नचैनांब्राह्वयेन्नृपः ॥ प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनाः ॥ १७ ॥ समामासतदर्द्धाह्रर्जातिनामादिरिचितम् ॥ श्रुतार्थस्योत्तरं लेख्यं पूर्ववेदकसन्निधौ ॥१८॥ ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ चतुर्थं तच्च कथितं सुनिभिस्तत्त्वदर्शिभिः ॥१९ ॥ लिखितं साक्षिणो भुक्तिश्चतुर्थी दैविकी क्रिया ॥ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ॥२० ॥ तत्सिद्धौ सिद्धिमप्नोति विपरीतमतोऽन्यथा ॥
अभियोगमननिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥ २१ ॥ कुर्य्यात्प्रत्यभियोगं च कलहे साहसेषु च ॥ उभयोः प्रतिश्रुतौ ग्राह्यौ समर्थौ कार्यनिर्णये ॥ ॥ २२ ॥ साहसस्तेयपारुष्ये ह्रीमिशापात्यये क्रियम् ॥ विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ २३ ॥ देशाद्देशान्तरं याति सृक्किणी परिलेढि च ॥ ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ २४॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ॥ अभियोगेऽथ वा साक्ष्ये दुष्टः स परिकीर्त्यते ॥ २५ ॥ आकारैरिङ्गितैर्गत्या चेष्टितैर्भाषितेन च ॥ नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥ त्रिपक्षाद्दर्शितो ज्ञेयस्त्वत्तरस्याप्रयच्छतः ॥ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया॥२७॥आधौ प्रतिग्रहे क्रीते पूर्वातु बलवत्तरा ॥ सर्व्वपूर्वकस्त्वारम्भवहुशश्चेत्कृताँस्तथा ॥ तम् ॥२८॥ सर्व्वस्माद्द्धीयते चार्थादिति धर्मविदो विदुः ॥ बलोपधिनिवृत्ताँस्तु व्यवहाङ्गान्निवर्त्तयेत् ॥२९॥ स्त्रीनक्तमन्तरागारबहिःशत्रुकृताँस्तथा ॥ रोगार्त्तभीतव्यसनिबालशिष्यकृतस्तथा तु ॥ ३० ॥ अकृतानि विजानीयात्तथा दासकृतानि तु॥ गुरोर्वाक्येन शिष्यस्य पितृवाक्यात्सुतस्य च ॥ ३१ ॥ दासस्य स्वामिवाक्येन व्यवहारस्तु सिद्ध्यति ॥ ३२ ॥ पुरः पत्युरभावेन राजा वा पितृपुत्रयोः ॥ बाल आपाद्धरऽइषात्पोषण्डव्याभि विक्रमाः ॥ एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥ ३३ ॥ अप्राप्तव्यवहारस्य स्वातंत्र्यं मातृकृच्छ्रयते ॥ ३५ ॥ अस्वन्तन्त्रकृतान्यानुदुप्रमाणानि शस्यते ॥ ३४ ॥ पतौ व्यवहारज्ञः स्वतन्त्रः पितरं विना ॥ अनियुक्तवचो दण्ड्यो राजा रुक्मस्य कृष्णलम् ॥ नियुक्तो न नियुक्तो वा विद्या पंडिताः ॥ नानिर्युक्तेन वक्तव्यं व्यवहारं कथंचन ॥ ३६ ॥ लेखकस्य च सभ्यानां साक्षिणां यश्च दूषकः ॥३८॥ अनाहूतस्य चाह्वाने वाक्यमुदाहरन् ॥ ३७ ॥ सर्वस्वरहितः कार्यो लेखकोऽनुक्तलेखकः ॥ ३९ ॥ राजा तान्विनयेद्विप्रान्दण्डेन द्विगुणेन च ॥ सभा वा न प्र आहूतस्य च मोक्षणे ॥ अजितोऽस्मीति मन्वानो ब्रूयात्तं तु पराजितम् ॥ ३९ ॥ पादो धर्मस्य कर्त्तारं पादः साक्षिणमेव च ॥ ४१ ॥ वेष्टव्या वक्तव्यं वा समंजसम् ॥ ४० ॥ अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ पादो धर्मस्य कर्त्तारं निन्दतो यत्र निन्यते ॥ ४२ ॥ एनो गच्छति कर्त्तारं मुच्यन्ते च सभा पादः सभासदः सर्वान्यादो राजानमृच्छति ॥ राजा भवत्यनेनास्तु निन्दार्हो यत्र निन्यते ॥ स्यात्तद्दण्डं दापयेन्नरः ॥दण्डं च स्वपणं सदः ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः॥४३॥भूतम्पद्यनुपन्यस्तं व्यवहारेण हीयते॥सपणश्चेद्विवादः धर्म्मात् तन्मध्ये न तत्सत्यं गच्छेत्लेनानुवि चैव धनिके धनमेव चा॥४४॥न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्म्मम्॥न तद्धर्मं यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुवि द्धम्॥४५॥इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा० संवादे सुनीन्द्राति हंसगीतासु व्यवहारनिरूपणो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥१२४॥