सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥४४७॥

तृ० खं० अ० ३२६

हंस उवाच ॥ संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ॥ आगमः कारणं तत्र न भोगस्तत्र कारणम्॥१॥आगमोन विशुद्धेन भोगो याति प्रमाणताम् ॥ अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ २ ॥ आहैतवाभियुक्तः सन्त्रर्थानामुद्धरेत्पदम् ॥ भुक्तिरेव विशुद्धा स्यात्प्रातानां पितुस्तः क्रमात्॥३॥अन्वाहितः... हेले विस्पष्टयाचितम् ॥ अप्रत्यक्षं च यद्भुक्तं न चेंद्रेणेन जीर्यते॥४॥पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥ परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ ५ ॥ त्रिभिर्भव तु यद्भुक्तं पुरुषैस्तु यथाविधि ॥ लेख्यभावावपि तं तत्र चतुर्थः समवाप्नुयात् ॥ ६ ॥ आगमोप्याधिको भुक्तेर्विनापूर्वक्रमागतान ॥ आगमोपि बली नैव भुक्तिस्तत्रापि यत्र ना॥७॥आध्यात्मिकैस्ता स भृशं विनया दण्डिन विप्रा द्विगुणेन राज्ञा ॥ लोके न दुष्टः स तु कंटकः स्यात्पापात्मनां मूर्धनि तिष्ठतीति॥८॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु भोगलक्षणवर्णनो नाम पञ्चविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२५ ॥ हंस उवाच ॥ पौरुषञ्चैव दिव्यञ्च निर्णयो द्विविधः स्मृतः ॥ द्विविधः पौरुषस्तत्र लिखितं साक्षिणस्तथा ॥ १ ॥ त्रिविधं लिखितं तत्र तस्य वक्ष्यामि लक्षणम् ॥ राजसाक्षिकमेकं तु द्वितीयं तु ससाक्षिकम् ॥२॥ स्वहस्तलिखितं नाम तृतीयं परिकीर्तितम्॥ नियुक्तकार्यस्य कृतं राजाधिकरणेपरम् ॥ ३ ॥ तदृष्ट्वंशृण्वन् मर्त्यैश्च स्वहस्तपरिश्चितम् ॥ तल्लेख्यं कथितं लोके राजसाक्षिकमित्युत॥४॥ यत्र कचन विप्रेन्द्रा लिखितं येन केनचित् ॥ चिन्हितं यत्स्वहस्तेन साक्षिभिश्च गुणान्वितैः ॥५॥ द्वाभ्यामूध्वं तु तज्ज्ञेयं लिखितञ्च ससाक्षिकम् ॥ साक्षी स्वहस्तलिखितै भवेद्यपि न वा भवेत्॥६॥ विनापि साक्षिभिस्तस्य प्रामाण्यमुपपद्यते ॥स्वहस्तलिखितं पत्रं बलात्कारेण कारितम्॥७॥हस्तप्रमाणं सर्वेषां तथोपधिकृते द्विजाः ॥ मत्तोन्मत्तकृतं लेख्यमस्वतंत्रन्कृतं च यत्॥८॥लेख्यं विना नास्ति सिद्धिः स्थावरस्य तु कर्हिचित् ॥ भुक्तिस्तत्र प्रमाणं वा भवेत्त्रिपुरुषगता॥९॥हस्तेन द्विपदं देयं साम्ना दद्याच्च तुष्पदम् ॥ स्थावराणां च सर्वेषां सिद्धिर्लेख्ये प्रतिष्ठिता ॥१०॥ देशाचाराविरुद्धं यद्धक्तावर्णविलक्षणम् ॥ तत्प्रमाणं स्मृतं लेख्यं विलुप्तमनमध्वमम् ॥ ११ ॥ प्राक्प्रसादाः प्रदीयन्ते पश्चादपि न पार्थिवाः ॥ देशजातिवितेषु न स्वात्स्वमी नृपः क्वचित् ॥ १२ ॥ समूहत्यं न भोगोऽस्ति लेख्यं तत्रापहारकम् ॥ उभयोरपि तत्र स्याद्भुक्तं येन स वै प्रभुः ॥ १३ ॥ चिरन्तनमविज्ञातं भुक्तं भोगान्न चालयेत् ॥ एकाहं लिखिते तस्यात्सम्भोगो यस्य तस्य तु ॥ १४ ॥ अर्वाक्कालिकल्पं तु लेख्येनैव विशोधयेत् ॥ मुद्राशुद्धं क्रियाशुद्धं पारंपर्योऽनुमोदितम् ॥ १५ ॥ अदूषितं च स्पष्टं च सिद्धिमभ्येति नान्यथा ॥ स्ववेशाल्कीर्तयेद्राज्ञा आत्मानं तदनन्तरम्॥ १६॥ दायाद्यप्रमाणं च सहसीमापरिच्छेदैः ॥ ततस्त्

॥४४७॥

लेखयेत्तत्र दानच्छेदोपवर्णनम् ॥ १७ ॥ तल्लेख्यं सिद्धिमाप्नोति मुद्रितं राजमुद्रया ॥ मतान्तरे तु लेख्यस्य श्रावणाच्छ्रवणे तथा ॥ १८ ॥ नैव सिद्धिर्निर्दिष्टा भावनान्या न चेद्भवेत् ॥ स्वहस्तलिखितं पत्रं निह्नुते तु विभावयेत् ॥ १९ ॥ वर्णैश्च तर्कैर्युक्तिभिः प्रायोगेण च युक्तिभिः ॥ यत्रर्णलेखको वापि साक्षी वापि मृते भवेत् ॥ २० ॥ लिखितान्ते प्रविष्टे तु धनी लेख्यं तु पाटयेत् ॥ असमग्रे प्रविष्टे तु लेख्ये दूरगते तथा ॥ ॥ २१॥ धनिकस्य धनी दद्याल्लिखितं स्वमथापरम् ॥ दैवदोषनिषिद्धं तु लेख्यं लेख्यं तु कारयेत् ॥ २२ ॥ अन्यमेवाधमर्णास्तु लेख्यं यत्स्मर्यते यदि ॥ समुद्रे तु पदा लेख्ये मृताः सर्वे तु तत्स्थिताः ॥ २३ ॥ लिखितं तत्प्रमाणं तु मृतेष्वपि हि साक्षिषु ॥ सोपध्यं यद्भवेल्लेख्यं दिव्याद्यैस्त त्साधयेत् ॥ २४ ॥ बलात्कारबलैर्लेख्यैः सत्यञ्चेच्छ्रवणाद्भवेत् ॥ ज्ञापितेनाप्यसिद्धिः स्यात्सिद्धिरस्त्यसमाधया स्मृता ॥ पितामहानां रिक्त्यानां प्रभुः पौत्रोऽपि गीयते ॥ २५ ॥ ये कूटकारा वसुधाधिपेन भृशं विनेयास्त्रिदशेशतुल्या वै ॥ ते कण्टकाः सर्वजनस्य विप्रास्तेषां निषेद्धा नृपति र्भवेद्वै ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लेख्यलक्षणवर्णनो नाम षड्विंशत्युत्तरत्रिशततमो ऽध्यायः ॥ ३२६ ॥ ॥ हंस उवाच ॥ ॥ एकादशविधः साक्षी शास्त्रदृष्टो मनीषिभिः ॥ १ ॥ पञ्चविधस्तत्र षड्विधोऽकृत उच्यते ॥ १ ॥ लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ॥ गूढश्चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः ॥ २ ॥ ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥ कार्येष्वाभ्यन्तरो यः स्यादर्थिना प्रहितः सदा ॥ ३ ॥ कुलं कुलविवादेषु षड्विधस्त्वपरोऽकृतः स्मृतः ॥ द्वयोर्विवादतोरेवं द्वयोः सत्सु च साक्षिषु ॥४॥ पूर्वपक्षो भवेद्यस्य भवेत्तस्य साक्षिणः ॥ आद्ययोः पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् ॥ ५ ॥ विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥ न परेण समुद्दिष्टमुपेयात्साक्षिणं प्रति ॥ ६ ॥ भेदे युक्ते न वाच्योन्यं हीयेतैनं समाचरेत् ॥ साक्षिदोषो यदि प्रेयादच्छेदापि दिगन्तरम् ॥ ७ ॥ तत्रोभयोः प्रमाणं तु प्रमाणे ह्यन्तरा क्रिया ॥ अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् ॥ ८ ॥ सूचीतुलुकः स साक्षी तु न स साक्षित्वम र्हति ॥ न साक्षी नृपतिः कार्यों न कारुकुशीलवौ ॥ ९ ॥ न श्रोत्रियो न लिङ्गस्थो न सर्वेभ्यो विनिर्गतः ॥ न व्याधितो न वक्तव्यो न दस्युनै विकर्मकृत् ॥ १० ॥ न वृद्धो न शिशुर्नैको नान्ध्यो न विकलेन्द्रियः ॥ नार्त्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ॥ ११ ॥ न श्रमातों न कामार्तं न क्रुद्धो नापि तस्करः ॥ नार्थसम्बन्धिनोभ्रातो न हायनविचारिणः ॥ १२ ॥ न दृष्टदोषाः कर्तव्या न व्याख्याता न दूषिताः ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ॥ १३ ॥ शूद्राश्च साधुशूद्राणां मर्त्यानां प्रत्ययोन्त्यः ॥ अनुभावी तु यः कश्चित्कु

वि० ध० । तृ० खं० अ० ३२८ ॥४४८॥

र्यान्साक्ष्यं विवादिनाम् ॥ १४ ॥ अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये ॥ स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा ॥ १५ ॥ शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा ॥१६॥ जानीयाद्दैवसञ्चित्तस्मनसं तथा ॥ गृहिणः पुत्रिणो मौलाः शूद्रा विदधत्रयोन्वयः ॥ १७॥ अयुक्ताः साक्ष्यमर्हन्ति नये कूटञ्चनापि हि ॥ आत्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ॥१८॥ बहुले परिगृह्णीयात्साक्षित्वे चेत्तनाविषम् ॥ समेषु त्वगुणोत्कृष्टं गृणिते वै द्विजोत्तमान् ॥१९॥ समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ॥ तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ २० ॥ साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत् ॥ पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम् ॥ २१ ॥ एको लुब्धस्त्वसाक्षी स्याद्बह्वोऽपि न वा क्वचित् ॥ स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ॥ २२॥ न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ॥ प्राड्विवाको नियुञ्जीत विविनानेन सान्त्वयन् ॥ २३ ॥ यत्तथ्यो नयोर्वोच्यं कार्येऽस्मिंश्चितेऽपि वा ॥ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षित्वम् ॥ २४ ॥ देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः ॥ उङ्मुखः प्राङ्मुखो वा पूर्वाह्ने वै शुचिः शुचीन् ॥ २५ ॥ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ॥ गोबीजकाञ्चनैर्वेश्यं शूद्रं सर्वैस्तु पातकैः ॥ २६ ॥ ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबाल घातिनः ॥ मित्रद्रुहः कृतघ्नस्य तते स्युर्ब्रवतां मृषा ॥ २७ ॥ जन्मप्रभृति यत्किञ्चित्किल्विषं त्वया कृतम् ॥ तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २८ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रोगृहं गच्छेद्वत्सार्द्धमनृतं वदेत् ॥ २९ ॥ एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात् ॥ यथाश्रुतं यथादृष्टं सर्वमेवञ्जसा वद् ॥ ३० ॥ सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्य नुत्तमान् ॥ इह चानुत्तमां कीर्तिं वाग्गेयां ब्रह्मपूजिता ॥ ३१ ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ॥ तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ३२ ॥ आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे तंतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्ताविंशत्युत्तरत्रिशत तमोऽध्यायः ॥३२८॥ हंस उवाच ॥ पौरुषे निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम् ॥ असाक्षिकेषु तथ्येषु मिथो विवदमानयोः ॥ १ ॥ राजद्रोहाभिशापेषु साहसेषु तथैव च ॥ विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ २ ॥ महाभियोगेषु दैवेषु कार्यार्थं शपथः कृताः ॥ वसिष्ठोऽदत्त शपथं समये जबने नृपे ॥ ३ ॥ न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ॥ वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥ ४ ॥

॥४४८॥

स्थावरेषु तु दिव्यानि वर्जनीयानि पार्थिवैः ॥ लिखितेन तथा भुक्त्या तेषां भवति साधनम् ॥ ५ ॥ कोशं घटं विषं चाग्नि मुदकं तत्तमापकम् ॥ फालं च तण्डुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥ ६ ॥ कोशवर्जन्तु दिव्यानि सशिरस्कानि दापयेत् ॥ अशिरस्कः स्मृतः कोशः कालान्तरविभावनात ॥ ७ ॥ अशिरस्कानि दिव्यानि राजा कण्टकशोधनैः ॥ राज्ञा सर्वाणि देयानि स्वयं च परिमार्णिणा ॥ ॥ ८ ॥ लोभान्मोहाद्भयाद्वापि भिद्यन्ते साक्षिणः परैः ॥ अज्ञानाद्गालभावाच्च भेदं धर्मो व्यवस्थितः ॥ ९ ॥ सर्वद्रव्येषु कनकं मूल्यं तु परि कल्पयेत् ॥ माषकेण सुवर्णस्य......काल्यमसृखे द्विजम् ॥ १० ॥ सत्यं वदामीति शपेन्नान्यस्मिन् पार्थिव ॥ शङ्खामादाय वर्त्तव्यं क्षत्रियेण तथैव च ॥ ११ ॥ धेनुं संस्पृशता सत्यं वाच्यं वैश्येन वै द्विजाः ॥ शूद्रः कुर्वीत शपथं तथा सर्वैस्तु पातकैः ॥ १२ ॥ कृष्णलेन सुवर्णस्य तिलवृद्ध्या तु शापयेत् ॥ शूद्रांश्च शापयेद्राजा कदाचिदपि वै द्विजाः ॥ १३ ॥ विप्रवर्णं तथा कोशं वर्णिनां दापयेन्नृपः ॥ सुवर्णमाषकार्द्धमर्द्धमार्णमष्टम्य एव च ॥ १४ ॥ विप्रवर्जं तु विप्रोऽपि वर्णिनां पूरसंयुतम् ॥ कोशस्थाने तु शपथं कारयेद्विचारयन् ॥ १५ ॥ अतः परं तु दिव्यानां कुर्यादन्यतमं नरः ॥ यथा तथा महीपालः शृणुष्वं गदतो मम ॥ १६ ॥ न शीते तु घटं देयमुष्णकाले हुताशनम् ॥ वर्णिनां न तथा फालं तण्डुलं सुखरोगिणाम् ॥ १७ ॥ श्वाकसादितानां च ब्राह्मणानां च नो विषम् ॥ तत्तमापकमर्हन्ति सर्वे वर्णा निरत्ययम् ॥ १८ ॥ न व्याधिमरकाक्रान्ते देशे कोशं तु पातयेत् ॥ मन्त्रैरस्वदिदिव्यानि संध्यन्तीह मानवाः ॥ १९॥ प्रतिमन्त्रविद्भिः स्तम्भनानां विना शने ॥ नियुञ्जीत नरेन्द्रोपि निभृतं धनवत्सलाम् ॥ २० ॥ दिव्यानां स्तम्भकं ज्ञात्वा पापान्भ्रित्यं महीपतिः ॥ विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कण्टकाः ॥ २१ ॥ तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत ॥ ते हि पापसमाचारास्तस्कराद्वेषि तस्कराः ॥ २२ ॥ दृग्दृष्टिदोषा त्स्वल्पेपि दिव्येषु विनियोजयेत् ॥ महत्वपि न पार्थेषु धर्मज्ञान्धर्मवत्सलान् ॥ २३ ॥ ज्ञात्वा धार्मिष्ठतां राजा पुरुषस्य विचक्षणः ॥ स्वल्पे वाप्यथ वास्वल्पे शपथे तान्नियोजयेत् ॥ २४ ॥ न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥ श्रद्ध्यात्यार्थिवस्तेषां वचने धर्मदर्शिनाम ॥२५ ॥ अत्यन्तोपहताः पापा नास्तिका भिन्नसेतवः ॥ दिव्यान्दर्हन्ति सर्वाणि स्वल्पदोषेपि अपि द्विजाः ॥ २६ ॥ आदौ भूमिं परीक्षेत घटस्यार्थे विच क्षणः ॥ इन्द्रस्थाने सभायां वा दिग्भागे पूर्वदक्षिणे ॥ २७ ॥ घटं निवेशयेत्तत्र सुसमायां तथा भुवि ॥ यज्ञियस्य तु वृक्षस्य कर्तव्यं मण्डप द्वयम् ॥ २८ ॥ मण्डपस्य प्रमाणं तु सप्तहस्तं प्रकीर्तितम् ॥ द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ॥ २९ ॥ अन्तरश्च तयोः कार्यं

वि० ध० ॥४४१॥

तृ० खं० अ० ३२८ ॥४४१॥

तथा हस्तचतुष्टयम् ॥ मण्डपोपरि काष्ठं च दृढं कुर्याद्विचक्षणः ॥ ३० ॥ चतुर्हस्तं तुलाकाष्ठं तद्व्रणं कारयेत्तथैव ॥ खदिरार्जुनवृक्षाणां शिशिपासालजं तथा ॥ ३१ ॥ तुलाकाष्ठं तु कर्तव्यं तथा वै शिक्यकद्वयम् ॥ प्राङ्मुखो निश्चलः कार्यः शुचौ देशे घटस्तथा ॥ ३२ ॥ वणिग्वसुवर्णकारौ च कुलालः कांस्यकारकः ॥ तुलाधारे घटः कार्यो रिपौ मित्रे तथा समः ॥ ३३ ॥ श्रावयेत्त्वादित्याविकोपि तुलाधारं विचक्षणः ॥ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम् ॥ ३४ ॥ तुलाधरस्य ते लोकास्तुलां धारयतो मृषा ॥ पूर्वस्मिंस्तोलयिच्छुभ्रे स्नातं सुपोशितं नरम् ॥ ३५ ॥ द्वितीये मृत्तिकां शुद्धां गौरीं तु तोलयेद्बुधः ॥ इष्टकाभस्मपाषाणकपालस्थानि वर्जयेत् ॥ ३६ ॥ तुलयित्वा ततः पूर्वं तस्मात्तमवतारयेत् ॥ मूर्धिन पत्रं ततस्तस्य न्यस्तपत्रं निवेशयेत् ॥ ३७ ॥ मन्त्रश्चायं पुरा प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ब्राह्मणस्त्वं सुता देवि तुलानाम्नीति कथ्यसे ॥ ३८ ॥ तुकारो गौरवो नित्यं लकारो लघूनि स्मृतः ॥ गुरुलाघवसंयोगात्तुला तेन निगद्यते ॥ ३९ ॥ संशयान्मोचयस्वेनं चाभिशस्तं नरं शुभे ॥ भूय आरोपयेत्तं तु नरं तस्यां सपत्रकम् ॥ ४० ॥ तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ॥ हीयमाने न शुद्धः स्यादिति धर्मविदो विदुः ॥ ४१ ॥ शिक्यच्छेदस्तुलाभङ्गे पुनरारोपयेन्नरम् ॥ तथा निःसंशयं ज्ञानं भवतीति विनिश्चयः ॥ ४२ ॥ अग्नेर्विधिं प्रवक्ष्यामि शृणुध्वं गदतो मम ॥ सप्तमण्डलकान्कुर्याद्देवब्राह्मणसन्निधौ ॥ ४३ ॥ प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ॥ ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ ४४ ॥ पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः ॥ चरंस्त्वेवं यथा अस्मिन्कृत्वा चैव समौ करौ ॥ ४५ ॥ लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः ॥ सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ॥ ४६ ॥ नवेन सितसूत्रेण कार्पासेन द्विजोत्तमाः ॥ ततस्तु सममं कृत्वा अङ्गुले त्वेकमायसम् ॥४७॥ पिण्डं हुताशसन्तप्तं पश्चात्तत्पलिकं दृढम् ॥ आदौ पूजां हुताशस्य कारयेद्बहुपार्थिपः ॥४८॥ रक्तचन्दनधूमाभ्यां रक्तपुष्पैस्तथैव च ॥ अभिशस्तस्य मन्त्रं च बध्नीयात्तस्य मूर्धनि ॥ ४९ ॥ मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन तु ॥ त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥५०॥ त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥ जठरस्थोऽपि भूतानां त्वं च वेत्सि शुभाशुभम्॥ पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥ ५१ ॥ अथ वा शुद्धभावेषु शीतो भव महाबल ॥ ततोऽभिशस्तः शनैर्मण्डलानि परिक्रामेत् ॥ ५२ ॥ परिक्रम्य शनेर्जह्याल्लोहपिण्डं तथा क्षितौ ॥ विमुक्तहस्तं तं पश्चात्कारयेद्रीहिमर्दकम् ॥ ५३ ॥ निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ॥ भग्नाङ्गो पातयेद्यस्तु दग्धो वा न विभाव्यते ॥५४॥ पुनस्तु चाहरेल्लोहं विधिरैष प्रकीर्तितः ॥ तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥ ५५ ॥

शैवालनक्रमत्स्याद्यैर्वर्जिते स्थावरे जले ॥ धर्मस्थूणा तत्र कार्या पुरुषं धर्मवत्सलम् ॥ ५६ ॥ नाभिदघ्नोदकस्थस्य गृहीत्वैतांसमाविशेत् ॥ मध्यं
मेनाय धनुषा मध्यस्थः पुरुषोऽपरः ॥ ५७॥ इषुमोक्षं तदा कुर्याद्देशे तृणविवर्जिते ॥ शरमोक्षे समे काले निमज्जेत्पुरुषोऽप्सुसौ ॥ ५८ ॥ मूर्ध्नि
विन्यस्तपत्रस्तु पत्रे चैतान्निवेशयेत् ॥ आदिदेवोऽसि देवानां शौचस्याप्यायनं परम् ॥ ५९ ॥ पश्चानां लोकपालानां त्वं त्राते जगतपते ॥
आयस्वेनं नरं पापात्पश्यसि त्वं शुभाशुभम् ॥ ६० ॥ अन्तश्चरसि भूतानां सर्वेषां मोक्षवत्स्थितः ॥ इषुप्रक्षेपणास्थानमाप्लुवा च बलवान्नरः ॥
॥ ६१ ॥ धावन्स परया शक्त्या शरं तत्समुपातयेत् ॥ आगते तु शरग्राहे तोयस्थश्चेन्न दृश्यते ॥ ६२ ॥ शुद्धो भवति धर्मेण यश्चाप्यङ्गं न दर्श-
येत् ॥ विवस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥ ६३॥ शृणुष्वैको वत्सनाराभस्य हिमशैलौद्भवस्य च ॥ यथास्मस्त प्रदातव्या अथ वा यद्घृता-
क्तुताः ॥ ६४ ॥ मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैतान्निवेशयेत् ॥ त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः ॥ ६५ ॥ त्रायस्वैनं नरं पापात्सत्ये-
नास्य भवामृतम् ॥ येन वेगेनौना जीर्णं छर्दिर्मूर्च्छाविवर्जितम् ॥ ६६ ॥ तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ॥ तण्डुलानां प्रवक्ष्यामि
विधिं धर्म्यं सनातनम् ॥ ६७ ॥ चौंचे तु तण्डुला देया न चान्यत्र कथंचन ॥ तण्डुलोदके सिञ्चा रात्रौ तत्रैव स्थापयेत् ॥ ६८ ॥
तण्डुलन्कारयेच्छुद्धाञ्शालीनां पृथिवीपतेः ॥ मृन्मयं भाजनं कृत्वा सवितुः पुरतः स्थितः ॥ ६९ ॥ तण्डुलान्मन्त्रयेच्छुद्धान्मन्त्रेणानेन
धर्मतः ॥ दीयते सत्यधर्मज्ञैर्नृणाणां विशोधनम् ॥ ७०॥ ततस्तण्डुल सत्येन धर्मस्तत्रावतमर्हसि ॥ प्रभाते कारयेद्देव भक्षणाय न संशयः ॥७१॥
त्रिविधः प्राङ्मुखस्वेह पत्रं निधिवयेत्ततः ॥ पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ॥ ७२ ॥ शोणितं दृश्यते यस्य तन्मद्धं विनिर्दिशेत् ॥
अथातः संप्रवक्ष्यामि तप्तमाषकनिर्णयम् ॥ ७३ ॥ कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥ चतुरङ्गुलखातं तु मृन्मयं वापि कारयेत् ॥
॥ ७४ ॥ पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्ततः ॥ सुतप्ते निक्षिपेत्रत्र सुवर्णस्य तु माषकम् ॥ ७५ ॥ वह्नयर्कं विन्द्यसेन्मन्त्रामिश्रिस्तस्य
मूर्धनि ॥ अङ्गुष्ठाङ्गुलियोगेन तत्तमापं समुद्धरेत् ॥ ७६ ॥ शुद्धं ज्ञेयमदग्धं तु विस्फोटादिविवर्जितम् ॥ फालाङ्गिद्धिं प्रवक्ष्यामि शृणुध्वं
द्विजपुङ्गवाः ॥ ७७ ॥ आयसं द्वादशपलं घटितं फालमुच्यते ॥ अष्टाङ्गुलं मानं दीर्घं चतुरङ्गुलविस्तृतम् ॥ ७८ ॥ वह्नयर्कं विन्यसेत्पत्र
मभिमस्तस्य मूर्धनि ॥ त्रिः परावर्तयाजिह्वां लिहस्त सार्धमङ्गुलम् ॥ ७९ ॥ गवां क्षीरं प्रदातव्यं जिह्वारोधनसमुत्तमम् ॥ जिह्वापरीक्षणं
कुर्याद्दग्धं चेत्र विभाव्यते॥८०॥ तं विशुद्धं विजानीयाद्विशुद्धं चैव मोक्षयेत् ॥ कोषस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥ ८१ ॥ योद्यो

वि० ध० ॥४६०॥ तृ० खं० अ० ३२९ ॥४६०॥

यां देवताभक्तः पाययेत्तस्य तूत्तरम् ॥ सभक्तं तु देवानामादित्यस्यैव कारयेत् ॥८२॥ अग्राणामपि देवानां वध्यस्यैव तु दापयेत् ॥ सर्वपापमवेक्षेत देवानां स्नापयेद्युग्यं स्वकम् ॥८३॥ स्नानेनोदकं वा सकलमाहरेत विचक्षणः ॥ उन्मुखं करणं कृत्वा पाययेत्सप्तसूत्रिकम् ॥८४॥ इदं मया नैव कृतं कृतं वाप्यथ शाश्विना ॥८५॥पीते तु कोशे पुरुषस्य दृष्ट्वा देवोपघातं नृपसंभवं वा ॥ त्रिःसप्तरात्रांतरतो नृपेण भृशं विनेयः पुरुषः स विप्राः॥८६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दिव्यप्रमाणनिरूपणं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ॥ ३२८ ॥ हंस उवाच ॥ एका द्वे च तथा तिस्रस्ततश्च यथाक्रमम् ॥ शूद्रविट्क्षत्रविप्राणां भार्याः प्रोक्ता मनीषिभिः ॥ १ ॥ शूद्रेव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ॥ ते च स्वा च तथा राज्ञस्तथा स्वा चाग्रजन्मनः ॥ २ ॥ न विवर्णा भवेद्भार्या कदाचिदपि कस्यचित् ॥ सवर्णेव भवेज्ज्येष्ठा असवर्णासु सत्वपि ॥ ३ ॥ अष्टौ विवाहा निर्दिष्टास्तेषां वक्ष्यामि लक्षणम् ॥ आहूय दानाद्ब्राह्मस्तु ऋत्विग्दैव उच्यते ॥ ॥ ४ ॥ गोयुगग्रहणादार्षः प्राजापत्योऽर्थिने तथा ॥ आसुरो द्रविणादानाद्गान्धर्वस्तु मताद्द्वयोः ॥ ५ ॥ राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छला त् ॥ प्राजापत्यस्तथा देवो ब्राह्मश्चापि शुभावहाः ॥ ६ ॥ गान्धर्वो राक्षसश्चैव मध्यमौ परिकीर्तितौ ॥ आसुरश्चैव पैशाच आपद्येष्वपि तथाधमः ॥ ॥ ७ ॥ न ते कार्याः प्रयत्नेन कदाचिदपि केनचित् ॥ आसुरस्य तथापैश्य विशेषो नैव विद्यते ॥ ८ ॥ शुल्कमेव ततो ज्ञेयमल्पं वा यदि वा बहु॥ प्राणिविक्रयिणः सर्वे नरकं यान्ति मानवाः॥९॥ विशेषेण च यः पुत्रं विक्रीणाति स्वकं नरः ॥ नरके वसति तस्य बहूनब्दगणान्विभुः ॥ १०॥ मृते भर्तरि या कन्या केवलं हस्तदूषिता ॥ सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥ ११॥ इत्येवं केचिदिच्छन्ति न तन्मम मतं द्विजाः ॥ सतमे हि पदे वृत्ते नान्यमर्हति सा पतिम्॥१२॥वाचा दत्ता तु या कन्या मन्त्रैश्चैव न संस्कृता॥ अन्यस्य सा भवेद्द्या सति भर्तरि दीर्घिणी॥ १३॥ नष्टे मृते प्रब्रजिते क्लीबेऽथ पतिते पतौ॥पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ १४॥ पिता पितामहो भ्राता सकुल्यो जननी तथा ॥ कन्याप्रदः पूर्वेनाशे प्रकृतिस्थः परः परः ॥ १५ ॥ यस्तु दोषमनाख्याय कन्यकां संप्रयच्छति ॥ स राज्ञा दिशतं दण्ड्यो विषूयात्तां च कन्यकाम् ॥ १६ ॥ अदोषामथ यो दुष्टां ब्रूयाद्दोषेण मानवः ॥ प्रथमं साहसं तस्य राजा दण्डं प्रकल्पयेत् ॥ १७ ॥ यस्तु दोषवतीं पत्नीं सम्यक्चेन्नानुवर्तते ॥ दण्ड यित्वा स्वशक्त्या तं समे पथि निवेशयेत्॥ १८॥भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता॥तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ १९॥ भार्याया व्यभिचारिण्या परित्यागो विधीयते ॥ २० ॥ हीनवर्णगमे चास्या वधयुक्तं मनीषिभिः ॥ भर्तृज्ञां विना राजा स्त्रीणां च प्रमवेत

क्वचित् ॥ २१ ॥ अशक्तभर्तृकां नारीं शास्येत्तदनुज्ञया ॥ योऽन्यस्मै कन्यकां दत्त्वा भूयोन्यस्मै प्रयच्छति ॥ २२ ॥ वित्तस्यांशं तुरीयं तं राजा दण्डयेन्नरम् ॥ भर्त्तृदोषे समुत्पन्ने न सा दण्डमवाप्नुयात् ॥ २३ ॥ यस्तु न व्रजेत भार्यामृतुकाले नराधमः ॥ ऋतावृत्तौ भवेद्दुःखं सुवर्णस्य माषकम् ॥ २४ ॥ आहूयमाना या भार्या भर्त्तारं न व्रजेद्व्रतौ ॥ विवास्या सा भवेद्भर्त्ता दोषं व्याख्याय मातरम् ॥ २५॥ यस्त्यजेच्च तथा भार्यामहृष्टां पुरुषाधमः ॥ स सुवर्णं भवेद्दण्ड्यो विभ्रयात्तां तथा पुनः ॥ २६ ॥ विषमे परिणीतासु वर्त्तेत यस्तु मानवः ॥ सवर्णासु भवेद्दण्ड्यः सुवर्णं स महीक्षिता ॥ २७ ॥ त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती ॥ उक्तकालात्परं कन्या विन्देत सदृशं पतिम् ॥ २८ ॥ अलङ्कारं नाददीत पित्र्यं कन्या स्वयं वरात् ॥ मातृकं भ्रातृदत्तं वा स्तेयं वा स्याद्धि तं हरेत् ॥ २९ ॥ कन्यान्तु चेदमृतमतौ पुरुषो न दद्याच्छु- ल्कोपि न द्विजवरश्च स दण्डनीयः॥स्वाम्यं न तां प्रति च तस्य भवेत्कदाचित्पुत्रीगृहीतो न ददतो न पुनर्निहर्जातवत्॥३०॥इति श्रीविष्णुधर्मोत्तरे तृतीय- खण्डे मार्कण्डेयवज्रसंवादे सुनीत्यादि हंसगीतासु विवाहधर्मनिरूपणो नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ ३२९ ॥ ॥ इंस उवाच ॥ ॥ औरसः पुत्रिकापुत्रः क्षेत्रजश्च तथा परः ॥ पौनर्भवश्च कानीनः सहोढश्च तथा सुतः ॥ १ ॥ गूढोत्पन्नो दत्तकश्च क्रीतश्चैव तथा परः ॥ अप- विद्धस्तूपगतः शूद्राष्ट्रस्तथैव च ॥ २ ॥ एते द्वादश वै पुत्रास्तेषां वक्ष्यामि लक्षणम् ॥ संस्कृतायां स्वयं जातः पुत्र औरस उच्यते ॥ ३ ॥ अस्यांपुत्रश्चते पुत्रः स मे भविता सुतः ॥ एषा दत्तापि या पित्रा पुत्रिका सा निगद्यते ॥ ४ ॥ विना वचनदत्तापि भ्रातृहीना तु पुत्रिका ॥ तत्पुत्रः पुत्रिकापुत्रो द्वितीयः परिकीर्तितः ॥ ५ ॥ देवराद्वा सगोत्राद्वा ब्राह्मणाद्वा विचक्षणात् ॥ नियोगोत्पादितः पुत्रः क्षेत्रजः परिकीर्तितः ॥६॥ स्वैरिणी या पतिं हित्वा कामतोऽन्यं समाश्रयेत् ॥ पौनर्भवस्तु तत्पुत्रः चतुर्थः परिकीर्तितः ॥ ७ ॥ असंस्कृतायामुत्पन्नः कानीनो भर्तुरेव सः ॥ गर्भिणी या संस्क्रियेत सहोदस्तत्सुतो मतः ॥ ८॥ गृहे च गूढमुत्पन्नो गृहोत्पन्नः प्रकीर्तितः ॥ तस्यां सकाशात्क्रीतश्च क्रीतपुत्रो निगद्यते ॥ ताभ्यां चैवापविद्धस्तु त्वपविद्धस्तु स स्मृतः ॥९॥ विवृत्तो येन यस्यासौ पुत्रत्वेन निगद्यते ॥ स्वयं यश्चाभ्युपगतः पुत्रत्वे द्विजसत्तमः॥ १० ॥ आदौ तु पुत्रिकापुत्रः पश्चाज्जातस्त्वथौरसः ॥ औरसेन समोशस्तु तत्र स्यात्पुत्रिकासुतः ॥ ११ ॥ जाते तु पुत्रिकापुत्रे क्षेत्रजोत्पादनं वृथा ॥ समाः सर्वांगिनो ज्ञेया यादृशास्तादृशाः सुताः ॥१२॥ प्रतिलोमभवाः पुत्रा न तु रिक्थस्य भागिनः ॥ धनभागभरणं तेषां कर्मणा कर्तुमर्हति ॥ १३ ॥ तदपत्याः पितृवधे भागिनः परिकीर्तिताः ॥ पैतामहेन ते वित्ते स्वाम्यमर्हन्ति केनचित् ॥ १४ ॥ जडाऽन्धबधिरोन्मत्ता भर्त्तव्यास्तु निरंशकाः ॥

७१

तेषामपिपृक्थहराः पुत्रा धने पैतामहे सुताः ॥ १५॥ पतितानां न भागोऽस्ति तत्सुतानां च धर्मतः ॥ कर्मणः प्राक्सुताश्चेत्स्युः पतनीयस्य ये सुताः ॥ १६॥ तेषामृक्थं प्रदातव्यं न तु ते पतिताः स्मृताः ॥ प्रायश्चित्ते तथा चीर्णे पतितो भागमर्हति ॥ १७॥ तत्पुत्रोऽपि तथा विप्रा नात्र कार्या विचारणा ॥ पिता चेद्विभजेत्पुत्रान्स्र्वेच्छा तस्य स्वके धने ॥ १८॥ पैतामहे त्वस्वतन्त्रः पिता भवति धर्मतः ॥ पितामहाजिते वित्ते पितुः पुत्रस्य चोभयोः ॥ १९॥ स्वाम्यन्तु सदृशं ज्ञेयं पुत्रपौत्रानुवान्भवेत् ॥ पितुरूर्ध्वं विभजतां माताप्यंशं समंहरेत् ॥ २० ॥ सवर्णासु सुताः सर्वे तथा ज्ञेयाः समांशिनः ॥ ज्येष्ठस्य किञ्चिदधिकं दातव्यं नात्र संशयः ॥ २१ ॥ ब्रह्मेदावस्तुतस्यापि त्रीन्हि मान्यात्तमो समौ ॥ पिशाचासुरयोर्जातौ यथा पौनर्भवस्तथा ॥ २२ ॥ चतस्रस्तु यदा भार्या भवन्ति ब्राह्मणस्य तु ॥ तासां पुत्रेषु दायं पतार्द्धितं विभजेन्नृपः ॥ २३ ॥ चतुरो शान्हरेद्विप्रस्त्रीनंशानक्षत्रियासुतः ॥ वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ॥ २४ ॥ ब्राह्मणौ यदि पुत्रौ द्वौ चैकः शूद्रासुतो भवेत् ॥ नवधा ब्राह्मणधनं विभज्यमिति निश्चयः ॥ २५ ॥ अष्टौ ब्राह्मणयोर्भागाः शूद्रस्य नवमो भवेत् ॥ द्वौ विश्यो सुतौ स्यातामेकश्च ब्राह्मणीसुतः ॥ २६ ॥ ब्राह्मणस्वं तथा षोढा विभज्यमिति निश्चयः ॥ द्वावंशौ शूद्रयोर्देयौ चतुरोंशा हि वै द्विजाः ॥ २७॥ अनेनैवानुसारेण सर्वै र्वैशांशकल्पना ॥ असवर्णासु जातानां कर्तव्या पृथिवीक्षिता ॥ २८ ॥ षोढा तत्सर्वमर्थवत् कर्तव्यमिति निश्चयः ॥ क्षत्रियायां ततः पुत्रा वित्तंतोशत्रयं हरेत् ॥ २९ ॥ वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ॥ वैश्यास्वं तु त्रिधा कार्यं शृणु तत्रापि कल्पना ॥ ३० ॥ वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ॥ अपुत्रस्य तु दौहित्रो रिक्थमर्हति धर्मतः॥३१॥ दौहित्रस्याप्यभावे तु दुहितापि धनं हरेत्॥ तदभावे तदा भार्या तदभावे सहोदरः ॥ तत्स्याप्यभावे जननी तदभावे पिता हरेत् ॥ भ्रातृस्तदभावे तु भ्रातृपुत्रस्ततो हरेत् ॥ ३२ ॥ सहोदरभ्रातृसुतो विद्यमाने कथंचन ॥ नान्यभ्रात्रभवो भ्राता प्राप्नुयादिति निश्चयः ॥ ३३ ॥ अन्यभ्रात्रभवभ्रातुः पुत्रो यत्र व्यवस्थितः ॥ पितृव्यभ्रातृपुत्रस्तु नैव तत्र धनं हरेत् ॥ ३४ ॥ अनन्तरं सपिण्डद्यस्तत्स्य धनं हरेत् ॥ तदभावे सकुल्यस्य तदभावे गुरोर्भवेत् ॥ ३५ ॥ शिष्यस्य तदभावे तु द्विजानां तद्भावतः ॥ ऋत्विजः समया दान्तास्तस्य वित्तस्य भागिनः ॥ ३६ ॥ ब्राह्मणस्वमनाहार्य्यं पार्थिवानां सदा भवेत् ॥ इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः ॥३७॥ पुत्रौ तु विवदेयातां भ्रात्रौ जातो स्त्रिया घने ॥ तयोर्यद्वस्य पित्र्यं स्यात्तत्सगृह्णीत नेतरः ॥३८॥ मातृकं यद्भवेद्वित्तं कुमारीणां तु तद्भवेत् ॥ तदभावे तु सोढानां सुतानां तदभावतः ॥ ३९॥ अध्ययन्याद्यवानर्कं दत्तं च प्रीति

कर्मणा ॥ भ्रातृमातृपितृप्राप्ते षड्विधं स्त्रीधनं स्मृतम् ॥ ४० ॥ ब्राह्मैदैवार्षगान्धर्त्वप्राजापत्येषु यद्वसु ॥ अप्रजायामतीतायां भर्तुरेव तदिष्य ते ॥४१॥ यथान्येषु पितृगामि...धनानि...भवेत् ॥ पत्न्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्॥४२॥ न भजेरन्दायदा भजमानाः पतन्ति ते ॥ भ्रातॄणामेकजातानां यद्येकः पुत्रवान्भवेत् ॥ ४३ ॥ सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ सर्वासानेकपत्नीनामेका चेत्पुत्रिणी भवेत् ॥ ४४ ॥ पुत्रवत्यस्तु तास्सर्वास्तेन पुत्रेण कीर्तिताः ॥ अनुपघ्नं पितृद्रव्यं श्रमेण यदुपार्जितम् ॥ ४५ ॥ स्वयमीहितलब्धं तं नाकामो दातुमर्हति ॥ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ॥ ४६ ॥ म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ॥ ४७ ॥ भ्रातरो ये च संसृष्टा भगिन्यश्च सजातयः ॥ विभक्ते तु धने जाताः पित्र्यमेव धनं हरेत् ॥ ४८ ॥ विभक्तैर्वास्त्य दातव्यमंशंशास्रानुरूपतः ॥ स्वभागात्स्वांशमुद्धृत्य दत्वा भागं यथाक्रमम् ॥ ४९ ॥ असंस्कृतास्तु संस्कार्या विभक्तैः कन्यकास्तथा ॥ प्रविभागे कृते यत्र पश्चाच्छिष्येत वै धनम् ॥ ५० ॥ पूर्वोक्तेनानुसारेण विभागं तत्र कार येत् ॥ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ॥ ५१ ॥ योगक्षेमप्रचारे च न विभज्यं च पुस्तकम् ॥ रिक्थग्राही ऋणं दद्यात्पिण्डं दद्यात्स एव तु ॥ ५२ ॥ भर्तृव्यान्विष्णुयात्तस्य सर्वामिति मतिमम् ॥ रिक्थग्राही न यः कुर्यात्प्रैतकार्यं यथाविधि ॥५३॥ तस्करं तं स्वकाञ्चांश्रात्क्षिप्तं राजा विवासयेत् ॥ राजगामी भवेद्विप्रा यस्य वित्तं तु कर्हिचित् ॥ ५४ ॥ राजापि दापयेत्पिण्डं तस्य भृत्यैर्यथाविधि ॥ यस्यां नराणामिह वित्त भागी ऋणस्य भागी स तथा निरुक्तः ॥ ऋणावशिष्टं पुरुषस्तु नित्यं मुक्ता द्विजेन्द्राः सुकृती सदा स्यात् ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दायाविभागवर्णनो नाम त्रिशदुत्तरत्रिशततमोऽध्यायः ॥ ३३० ॥ ॥ हंस उवाच ॥ उत्तमर्णाय दातव्यमधमर्णेन याचितम् ॥ ब्राह्मणेन्द्रा धनं सर्वं निह्नवे तच्च भावितम् ॥ १ ॥ सर्वोपायैर्धनी वित्तमृणिकादाप्नुयात्स्वकम ॥ न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥ २ ॥ अर्थिनिह्नव्मानं तु भावनाविरिभावितम् ॥ दापयेद्धनिकस्यार्थं राज्ञो दण्डं च तत्समम् ॥ ३॥ मिथ्याभियोगे द्विगुणमिति योगार्द्धनं हरेत् ॥ भागं विंशतिमन्दद्यात्तथार्थं धनिको नृपे ॥ ४ ॥ यदि राजबलेनासौ तद्धि तस्मादवाप्नु यात् ॥ द्विकं त्रिकं चतुष्कं च पञ्चकं च तथा शतम् ॥ ५ ॥ वर्णानाक्रमतो वृद्धिः प्रतिमासं प्रकीर्तिता ॥ स्वयं कृतां तथा वृद्धिं सर्वे सर्वासु योनिषु ॥ द्वा दातुमर्हति विप्रन्द्रा इति मे निश्चिता मतिः ॥ न ह्वाचिप्रीतिदत्तानां वृद्धिः संवत्सरं भवेत् ॥ ७ ॥ तेषामपि भवेद्वृद्धिर्गते संवत्सरे

वि० ध० ॥४६२॥ तृ० खं० अ० ४२॥

तया ॥ सा च वृद्धिर्यथोक्ता वै वर्णानामनुपूर्वशः ॥ ८ ॥ तथाविधा गृहीतव्या नान्यथेति हि निश्चयः ॥ आधिसमुन्नीयते वृद्धिं नष्टामाधिं च दापयेत् ॥ ९ ॥ दैवराजकृतं दोषं विना ब्राह्मणसत्तमाः ॥ अन्यवृद्धौ प्रविधायां घातौ त्यागो विधीयते ॥ १० ॥ भोग्यस्याधेः परित्यागः प्रविष्टे तु धने भवेत् ॥ भोगस्य गणना कार्या न तत्र वचनादृते ॥ ११ ॥ धनिनोऽर्थं न हीयेत आधौ प्राप्नुवते मृते ॥ हेतुभूतस्तु मरणे न चेत्स्यादुत्तमर्णिकः ॥ १२ ॥ आधौ विवदमानानां मुक्ता जीवन्ति चापराः ॥ अन्यस्याधिकृतां भूमिं यश्चान्यस्य प्रयच्छति ॥ १३ ॥ स्वयमेव नरेन्द्रस्तं घातयेद्विचारयन् ॥ द्रव्येष्ववमथान्येषु दण्डः स्याद्विगुणं भवेत् ॥ १४ ॥ आधौ समुद्रे नष्टे तु मुद्रा यत्र न दृश्यते ॥ न तत्र हीयते वित्तं धनिकस्य कथञ्चन ॥ १५ ॥ अन्यथा तु तथा नष्टे धनिकस्यैव हीयते ॥ अन्त्या वृद्धिर्हिरण्यस्य द्विगुणा परिकीर्तिता ॥ १६ ॥ वस्त्रस्य त्रिगुणा प्रोक्ता धान्यस्य तु चतुर्गुणा ॥ रसस्याष्टगुणा वृद्धिः स्त्रीपशूनां च सन्ततिः ॥ १७ ॥ स्त्रीपशूनां प्रसूते वृद्धिः पशूनां चैव विष्यते ॥ उष्ट्राणां भवेद्वृद्धिः सति पुंस्त्वे हि वै द्विजाः ॥ १८ ॥ ऊर्णावृद्धिर्भवेत्तेषां वर्षाणि द्वादशैव तु ॥ द्रव्याणामप्यनुक्तानां वृद्धिर्ज्ञेया चतुर्गुणा ॥ १९ ॥ दीयमानमप्रयुक्तं तु पुरुषास्यानुगृह्णतः ॥ ततः परं न वृद्धिः स्यात्कथंचिद्द्विजसत्तमाः ॥ २० ॥ स्वमर्थं यो न गृह्णाति दीयमानं पुनःपुनः ॥ तस्मात्स हीयते विप्रा ददत्तदनृणो भवेत् ॥ २१ ॥ पिता प्रवसितो यस्य ब्राह्मणा द्विदशः समाः ॥ ऋणं तस्य सुतैर्देयं मृतस्य यदि वा पुनः ॥ २२ ॥ पैतृकं तु ऋणं पुत्रः पौत्रो वा दातुमर्हति । न कामजमतुष्टं तु दातुमर्हति कर्हिचित् ॥ २३ ॥ रिक्थग्राही तथा पुत्रः स्त्रीग्राही धनदासिकाः ॥ पुत्र स्थितेपि दातव्यमृणं वै धनहारिणाम् ॥ २४ ॥ रिक्थग्राही सुताभावे स्त्रीग्राही दातुमर्हति ॥ स्वयं दातमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ॥ २५ ॥ स दत्त्वा निर्जितां वृद्धिं कारयेत्परिवर्तयेत् ॥ अदर्शयित्वा तन्नैव हिरण्यं परिवर्तयेन् ॥ २६ ॥ यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति । प्रतिभाव्ये वृथा दानं द्यूतं मद्यमथापि च यत् ॥ २७ ॥ दण्डशुल्क्यावशेषं तु न पुत्रो दातुमर्हति ॥ दर्शने प्रत्यये दाने प्रातिभाव्यं त्रिधा स्मृतम् ॥ २८ ॥ आदौ तु वितथे दद्यादितरस्य सुतावापि ॥ दर्शने प्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ॥ २९ ॥ न तत्पुत्रा ऋणं दद्युर्दानाय ये स्थिताः ॥ प्रकाशां प्रतिभूश्चैव दापितो धनिनां धनम् ॥ सोऽपं तत्त्व तु तद्द्रव्यमृणिको दातुमर्हति ॥ ३० ॥ वर्णत्रयं विप्रवरा ऋणाथं क्षीणे विशुद्धाव्हि कर्म कार्यम् ॥ क्षीणोन्नजं सा तु यथोदयं तद्धार्या न कर्महरणे तदर्थम् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ऋणदानवर्णनो नामैकात्रिंशाधिकद्वित्रि ॥४६२॥

... शततमोऽध्यायः ॥ ३३१ ॥ ॥ छ ॥ ॥ छ ॥ ॥ हंस उवाच ॥ ॥ शीलाढ्ये कुलजे शक्तः निक्षेपे निक्षेपेद्बुधः ॥ याच्यमानं तथैवासौ तस्य तद्दातुमर्हति ॥ १ ॥ याचते यश्च निक्षिप्य निक्षिप्तं न प्रयच्छति ॥ तावुभौ चोरवच्छास्यौ धर्मज्ञेन महीक्षिता ॥ २ ॥ निक्षेपोपनिधी चेव न देयौ प्रत्यनन्तरे ॥ नश्येते वनिपातेतर्वनिपाते त्वनाशिना ॥ ३ ॥ यस्य हस्ते विनिक्षिप्तं तस्य हस्ते तथा विना ॥ नदं तु यदि निक्षिप्तं नासौ दद्यात्कथञ्चन ॥४॥ निक्षेपोपभोगी दण्ड्यः स्याद्भागेनगृह्यन्तु पड्गुणम् ॥ एव एव विधिदृष्टो याचितान्वाहितेषु च ॥ शिल्पिपूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ ५ ॥ प्रतिगृह्णाति यो गण्डं यश्च स प्रयतेन्नरः ॥ तस्याप्येवं भवेद्धर्मः पदेते निबन्धाः स्मृताः ॥ ६ ॥ निक्षेपरक्षा पुरुषेण कार्या यत्नेन विप्रप्रवरास्सदेव ॥ निक्षेपहर्त्ता नरकं प्रयाति कल्पावशेषं निहितस्तु सर्वः ॥ ॥ ७ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु निक्षेपरक्षावर्णनो नाम द्वात्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३२ ॥

हंस उवाच ॥

वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ॥ तत्संभूय समुत्थानं शृणुष्वं गदतो मम ॥ १ ॥ फलहेतौ रूपायेण कर्म संभूय कुर्वताम् ॥ आधारभूतः प्रक्षेपः तस्तिष्टेद्युरंशकाः ॥ २ ॥ समोऽतिरिक्तौ हीनो वा यत्रांशो यस्य यादृशः ॥ क्षयव्ययौ तथा वृद्धिरतस्य तस्य तथाविधा ॥ ३ ॥ सर्वेषां च मतं कार्यं भाण्डपिण्डव्ययादिकम् ॥ समं सर्वस्य विभजेल्लोके तस्मान्महीपते ॥ ४ ॥ दैविके राजके वापि व्यसने समुपस्थिते ॥ तत्र तत्र स्वशक्त्या तु तस्यांशो दशमः स्मृतः ॥ ५ ॥ एकस्य चेत्स्याद्व्यसनं दायादस्तद्बधात्पुयात् ॥ तस्याभावे च सर्वेषां तेषामेव हि तद्धनम् ॥६॥ ऋत्विजो व्यसनेष्वेवं मान्यस्त्वर्ह कर्मनिस्तरः ॥ लभते दक्षिणाभागं स तस्मात्संग्रहकल्पितम् ॥ ॥ ७ ॥ ऋत्विव्याज्यां च दुष्टौ तौ सन्त्यजेतां परस्परम् ॥ प्रथमं साहसं दंड्यौ न च तौ त्यागमर्हतः ॥ ८ ॥ अन्वाहितं याचितकं साधिः साधारणं च यत् ॥ निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ ९ ॥ अदेयानि द्विजश्रेष्ठा यश्चान्यस्मै प्रतिश्रुतम् ॥ अदत्तं तु भवेत्कोपभययोकाञ्चित्नैस्तैः ॥ १० ॥ बालवृद्धास्वतन्त्रैश्च मत्तोन्मत्तस्तथैव च ॥ अज्ञानाच्च तथा पात्रे स्पर्धया द्विजसत्तमाः ॥ ११ ॥ गृहीत्वाथञ्च यो मोहावश्चादेयं प्रयच्छति ॥ तावुभौ चोरवच्छास्यौ धर्मज्ञेन महीक्षिता ॥ १२ ॥ दत्तं स्वयं नाथ परेण दत्तं दत्तं नरो यस्तु हरेत्परस्य ॥ ध्रुवं स विप्रा नरकं प्रयाति दत्तं स्वयं वा न च यश्च दद्यात् ॥ १३ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पुनर्नीतिहंसगीतासु संभूयसमुत्थानदायादेयवर्णनो नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३३ ॥

हंस उवाच ॥

कृतकर्मविधौ प्रोक्तस्तस्य...

वि० ध० ॥४६३॥

तृ० खं० अ० ३३४

वक्ष्यामि लक्षणम् ॥ एकत्र कालात्त्वधिको देशाद्वाप्यपरः ॥ १ ॥ कर्मावधिस्तु तृतीयस्तु सर्वे कर्मकराः स्मृताः ॥ अदेशकाले कर्मादौ भृतकश्चेत्त्यजेद्भृतिम् ॥ २ ॥ भृतिश्चादीयते सर्वा स्वामिदोषेण न चेद्भवेत् ॥ हारिते स्वामिदोषेण दाप्यश्च भृतिको भवेत् ॥ ३ ॥ राजा च दण्डनीयः स्यात्तथा पणशतं भवेत् ॥ गृहीतमूल्यं यः शिल्पी काले द्रव्यं न यच्छति ॥ ४ ॥ द्विगुणं दीयते मूलं द्रव्यं दाप्यं तथैव च ॥ तद्द्रव्यं च विना हानिं सकलां दातुमर्हति ॥ ५ ॥ भृत्यदोषं विना स्वामी भृत्यमर्धपथे त्यजेत् ॥ त्यजेत्तु सकलं दद्याद्राज्ञः कनकमाषकम् ॥ ६ ॥ आर्त्तस्य भर्त्तृ दातव्यं स्वस्थस्तत्कर्म पूरयेत् ॥ स्वस्थोऽपि चेन्न तत्कुर्याद्द्विगुणं भृत्यमुत्सृजेत् ॥ ७ ॥ प्रमादान्नाशिते दाप्यं समं छिद्राहता शतम् ॥ प्रसय यद्धृतं चौरैर्न तद्दायो भवेत्क्वचित् ॥ ८ ॥ तोयाग्निभ्रंशे शक्त्या चेत्प्रवर्तेतैव दापयेत् ॥ राजा हतं तथा द्रव्यं न स दाप्यः कथंचन ॥ ९ ॥ यत्र गुप्त्या भवेन्नित्यं तत्र चेद्द्यापको भवेत् ॥ तत्सर्वं दापयेद्द्रव्यं यत्किंचित्तत्र नश्यति ॥ १० ॥ शकटाद्यं तु गृह्णीयाद्भाटकेन तु यो नरः ॥ अद्धद्भाटकं दायो व्युत्स्यापि च भाटकम् ॥ ११ ॥ भृतिं यः प्रतिपद्येत विनेव समयक्रियाम् ॥ देशकालौ च शक्तिं च भुक्तिं चावेक्ष्य शक्तिस्तः ॥ १२॥ धृतिस्तस्य प्रदातव्या दाप्यो राजा बलाइथ ॥ प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ॥ १३ ॥ दुर्भिक्षविह्वतो यस्तु मोक्षतः प्राणसंशयात् ॥ प्रतिशीर्ष प्रदानेन मुच्यते च ध्वजाहतः ॥ १४ ॥ ग्रासमाच्छादनं देयं सर्वेषामेव सर्वदा ॥ तथैव राजा भृत्यानां भृतिं वर्षशतादपि ॥ १५ ॥ पुत्रपोषणानुग्रहेन्त्याद्यसौ तत्र कर्मकृत् ॥ अध्यापने यो भृतकस्तस्याप्येष विनिश्चयः ॥ १६ ॥ काले भृत्यैर्नवार्किचिदि चित्तं स्वकर्मणा ॥ भक्तदस्यैव तत्सर्वमिति धर्मविदो विदुः ॥ १७ ॥ भार्या पुत्रश्च दासश्च त्रय एवाधना मताः ॥ यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ १८ ॥ वर्णानामानुलोम्येन न दास्यं प्रतिलोमतः ॥ प्रातिलोम्येन चेद्दास्यं कारयेत्तं विनाशयेत् ॥ १९ ॥ शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ॥ अप्रयच्छन्पुमांशुल्कं दाप्यस्त्वष्टगुणं भवेत् ॥ २० ॥ पशुभ्येरदरण्ये तु पालको रजनिक्षये ॥ दत्त्वान्नितजलान्सर्वात्सायाह्ने तु समर्पयेत् ॥ २१ ॥ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ॥ पशूनां व्यसनं गोपो व्यापच्छेत्तत्र शक्तितः ॥ २२ ॥ अशक्तानापि पत्तौ तु स्वामिने तन्निवेदयेत् ॥ अध्यागच्छद्रात्रिकोशं स्वामिने विनिवेदयेत् ॥ २३ ॥ वोढुमर्हति गोपस्तु विनयं चापि राजनि ॥ नष्टं विनष्टं कृमिभिः श्वहतं व्यसने मृतम् ॥ २४ ॥ हीनं पुरुषकारेण पालको विनिवेदयेत् ॥ अजाविके तु संरुद्धे वृकैः पाले त्वनायति ॥ २५ ॥ यां प्रसह्य वृको हन्यात्पाले तत्कि

॥४६३॥

ल्विषं भवेत् ॥ तासां चेंद्रुद्धानां चरन्तीनां मिथो वने।र॥क्षायामुपत्य वृको हन्यान्न पालस्तत्र किल्विषी ॥ विद्ध्व्य तु हतं चौरैर्नपालो दातु मर्हति ॥ २७ ॥ यदि देशे च काले च स्वामिनस्तस्य शंसति ॥ एतेन सर्वपालानां विवादः समुदाहृतः ॥ २८ ॥ साकं संभुञ्जं संभुजं च चर्म प्रदर्शयित्वाथ पशोर्मृतस्य ॥ पालस्य शुद्धिः कथिता द्विजेन्द्रा अतोऽन्यथा तस्य न शुद्धिरुक्ता ॥ २९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रान्प्रति हंसगीतासु स्वामिभृत्यनियमवर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४० ॥ ॥ छ ॥ ॥ हंस उवाच ॥ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ॥ प्रकाशक्रयतः शुद्धिः क्रीतः स्तेयो रहः क्रमात् ॥ १ ॥ हीनमूल्यं बलोत्क्रीतं ततस्तद्दोषभागभवेत् ॥ न गृहेतागमं क्रीताच्छुद्धिस्तस्य तदागमात् ॥ २ ॥ स्वामी तु प्राप्नुयाद्वित्तं प्रकाशं रह एव वा ॥ विक्रीथ पण्यं मूल्येन यः क्रीतं न नियच्छति ॥ ३ ॥ स्थावरस्य फलं दाप्यो जङ्गमस्य क्रियाफलम् ॥ अर्थं चेन्न प्रहीयेत सोऽथं पण्यमावहेत् ॥ ४ ॥ स्थानिनामेष नियमो दिक्लाभश्च दिशांगते ॥ उपहन्यात् वा पण्यं दह्यतापहरेत वा ॥ ५ ॥ विक्रेतुर्व सोऽनर्थो विक्रेता सम्प्रयच्छति ॥ दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी ॥ ६ ॥ विक्रीणानं तदन्यत्र विक्रेता नाप राप्नुयात् ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ॥ ७ ॥ मूल्यं तद्द्विगुणं दाप्या विनेयश्च तथा भवेत् ॥ दत्तामूल्यस्य पण्यस्य विधि रेष प्रकीर्तितः ॥ ८ ॥ अदत्तेन्यत्र समयान्न विक्रेतुरतिक्रमः ॥ क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ॥ ९ ॥ विक्रीतं प्रतिदेयं तु यथा विश्रास्तथा शृणु ॥ अह्नादेव भवेद्देयं पञ्चाहाद्वाहमेव तु ॥ १० ॥ सप्ताहेन तथा रत्नं लोहस्तस्मिंस्तथाहनि ॥ द्विपदं चार्द्धमासेन बीजानि दशभिर्दिनैः ॥ तृतीयेऽहनि वस्त्रं च शं चैवापरेऽहनि ॥ ११ ॥ परियुक्तं तु यद्वासः क्लिष्टरूपं महीसमम् ॥ सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः ॥ १२ ॥ द्रव्यं तु विक्रीतमपि स्वकं हि विनायको वा तदवाप्नुयाद्वै ॥ क्रेता न कुर्याद्यदि वञ्चनां वा विक्रेतुर्वैन्द पुनस्तदिष्टम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रान्प्रति हंसगीतासु क्रयविक्रयणनिर्णयो नाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥३४१॥ ॥ हंस उवाच ॥ ॥ पाषण्डनैगमश्रेणी पूर्वविततगणादिषु ॥ संरक्षत्समये राजा दुर्गे जनपदे तथा ॥ १ ॥ यो धर्मः कार्येद्येषां चोपस्थान विधिश्च यः ॥ यश्चैषां वृत्त्युपादानं चानुमन्येत तत्तथा ॥ २ ॥ प्रतिकूलं तु यद्राज्ञः प्रकृत्यवसनं च यत् ॥ बाधकं च यदर्थानां तत्तेभ्यो विनिय र्तयेत् ॥ ३ ॥ मिथः संघातकरणं त्विह ते शस्त्रधारणम् ॥ परस्परोपघातं च तेषां राजा न मर्षयेत् ॥ ४॥ पृथग्गणांश्र यो भिन्द्यात्ते विनेया विशे

वि० ध०
॥४५४॥
तृ० खं०
अ० ३३८

षतः ॥ आवेदयेद्भयं चोरं व्याधिं वा ते ह्यपेक्षिताः ॥ ६ ॥ दोषवत्कल्मषं यत्स्यादनाम्नायं प्रकल्पितम् ॥ प्रवृत्तमपि तद्भक्त्या श्रेयःकामो निवर्त-
येत ॥ ६ ॥ गणपुष्टिश्च यत्किञ्चिन्मध्यैश्च समुद्धरेत् ॥ आत्मार्थे वा नियुक्तं वा देयं तैरेव तद्भवेत् ॥ ७ ॥ यत्स्यात्पृथक्कृतं द्विजैन्द्र्याः
क्षितिशक्त्येन कृतं च यद्वा ॥ भृत्यैः कृतं ज्ञेयमुणं भवेद्धि समीक्षितिस्तत्त्वविदो वदन्ति ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्र
संवादे मुनीन्प्रति हंसगीतासु श्रेणिविभागवर्णनो नाम षट्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३६॥ हंस उवाच ॥ सीमाविवादे सम्प्राप्ते सामन्ताः
स्थविरा गणाः ॥ गोपाः सीमाकृषाणांश्च यदृक्षूस्तथा भवेत् ॥ १॥ रक्तस्रग्वसनाः सर्वे शिरसा क्षितिधारिणः ॥ सीमां नयेयुस्ते ज्येष्ठा प्रकाशेषु
समेषु च ॥२॥ सीमावृक्षांश्च कुर्वीत शाल्मलाश्र्वत्थकिंशुकान् ॥ तुषांगारकपालांस्थिशर्कराणि च यानि च ॥३॥ सीममध्ये तु जातानां वृक्षाणां
क्षेत्रयोर्द्वयोः ॥ फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत्॥४॥ अन्यक्षेत्रेषु जातानां शाखा यत्त्रान्य संस्थिता ॥ स्वामिनं तं विजानीयाद्यस्य
क्षेत्रमुपस्थिता॥५॥गन्धस्पर्शाम्वान्धु प्रस्तुताप्रौढगाहका ॥ वाक्पारुष्यमहास्था विरथातिविशुद्धयोः॥क्षांसंचारपहता भूमिर्नदीवेगेन चिह्निता ॥
समुक्ता स्वामिने देया पूर्वमुक्तिर्व्यवस्थिता ॥७॥ गृहीत्वा कर्षको भूमिं यदि कश्चिन्न वापयेत् ॥ फलं क्षेत्रस्य दाप्योऽसौ क्षेत्रं चान्येन कारयेत् ॥
॥ ८ ॥ विण्मूत्रोदकमाक्रम्य व्रीहिं चित्रे निवेशयेत् ॥ अ...समुत्तुज्य परकुड्ये निवेशयेत् ॥९॥ भ्रमद्रणगवाक्षादचं परपीड़ाकरं तु यत् ॥ निवॄ-
शसमयादृद्ध्वं न तत्कार्यं कदाचन ॥ १० ॥ परस्थाने तु निर्वासं गवांधं यदि कारयेत् ॥ तद्धन्यं प्राप्नुयात्काले स्वामिना चिन्निवारितः ॥ ११ ॥
अजातेषु तु सस्येषु कार्या खलु वृतिर्भवेत् ॥ मासं दद्यात्तु महिषी तदार्वाग्गस्तथा भवेत् ॥ १२ ॥ अजाविकं तदर्धन्तु खरोष्ट्रं महिषीसमम् ॥
अश्वं च विप्रप्रवराः सस्यनाशं प्रदापयेत् ॥ १३ ॥ भक्षयित्वापविद्धेषु द्विगुणं प्रोच्यते दमः ॥ पालश्च दण्डं दाप्यः स्थानार्द्धभावे पतितस्तथा ॥
सतिकोत्कृष्टवृषभः त्वंड्ड्या गर्भिणी च या ॥ १४ ॥ पथस्तथा ग्रामनिनीतकानी न दोषमल्पे प्रवदन्ति कालैः यः कामकारेण करोति राज्ञे
विवासनीयः स भवेद्विजेन्द्रः ॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सस्यहानिदण्डवर्णनो नाम
सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३७ ॥ ॥ हंस उवाच ॥ धनं धर्मार्थकामानां मूलमाहुर्मनीषिणः ॥ नृणां बहिश्धरा प्राणा द्रविणं च
प्रकीर्तितम् ॥१॥ तस्माद्धर्मविदा राज्ञा घातनीयास्तु तस्कराः ॥ ते हि वातनमर्हन्ति सर्वा बाधा विशेषतः ॥ २ ॥ राज्ञो धर्मं न पश्यन्ति
तस्करस्य वधादृते ॥ स्नेहाद्वा धनलोभाद्वा राजा चेत्तस्करं त्यजेत् ॥ ३ ॥ ब्रह्महत्याशतं तस्य प्राहुर्धर्मविदो जनाः ॥ न हन्याद्ब्राह्मणं राजा

॥४५४॥

सर्वपापेष्ववस्थितम् ॥ ४ ॥ स्तेनं विवासयेद्राष्ट्रात्ससमग्रधनमक्षतम् ॥ महापातकितं विप्रं कृतचिह्नं विवासयेत् ॥ ५ ॥ ग्रामसीम्नि हतं द्रव्यं ग्राम्यो दाप्यस्तथा भवेत् ॥ यस्मिन्ग्रामे पदं गच्छेदूतश्च दाप्यस्तथा भवेत् ॥ ८ ॥ ग्रामे द्वौ दण्डनीयौ तु सीमामध्ये हतं यदि ॥ अरण्यां तं नियुक्तं तु नगरे नगराधिपः ॥ ७ ॥ महापातकितः सर्वं घातनीया महीक्षिता ॥ कबन्धन्चाङ्कयेद्विप्रं ललाटे ब्रह्मघातकम् ॥ ८ ॥ सुरां तद्धजनेनाथ कृतं चाश्वपदेन तु ॥ अगम्यगामिनं विप्रं भगाङ्केनाङ्कयेन्नृपः ॥ ९॥घातनीयास्तथा राज्ञा नराश्चाखिलघातिनः ॥ अग्निदांनगरदांश्चैव भूम्यर्थं कूटसा- क्षिणः॥१०॥सेतुभेदकरा ये च राज्ञो व्यञ्जयंश्च दो॥ ते चाङ्गहीनाः कर्तव्या राज्ञा कूटसाक्ष्येद्वकाः॥११॥ कर्णादीनस्तथा कार्यो यश्चैहोपधिविद्विता॥ उत्क्रोशतां जनानां च ह्रियमाणे धने वधं ॥ १२ ॥ श्रोता यस्तु न वावेतंराजा तानपि घातयेत् ॥ अजावघातिनो बध्यास्तथा गोघातिनश्च ये ॥ १३॥ परिशेषपशूनां तु घातिनां छेदयेत्करम् ॥ कार्षापणशतं दण्ड आरण्यपशुघातने ॥१४॥ पक्षघाती तदर्थं तु इति धर्मविदो विदुः ॥ फले- पगद्रुमच्छेदै दण्ड उत्तमसाहसम् ॥ १५ ॥ पुष्पप्रदस्य यश्छेदी मध्यमं दण्डमर्हति ॥ कार्षापणशतं दंड्या लतागुल्मादिभेदकाः ॥ १६ ॥ सवर्णणः पारजायी दंड्या उत्तमसाहसम् ॥ हीनवर्णागमे दण्ड्यास्तथा प्रथमसाहसम् ॥ १७ ॥ तथैवोत्ततमवर्णाया गमने घातमर्हति ॥ हीनवर्णागमे नारी वधमर्हत्यसंशयम् ॥ १८ ॥ समवर्णागमे त्याज्या उत्कृष्टगामथ गच्छति ॥ हताधिकारां मलिनां तां तु संवासयेद्गृहे ॥ १९ ॥ येनयेन तथेांगेन हीनवर्णो नराधमः ॥ उत्कृष्टस्यापकृरुते तत्तदेवांस्य घातयेत्॥२०॥श्वपाकपुक्कशुण्डालेष्ववधु वधवृत्तिषु ॥ हस्तिप्रम्राज्यदासेषु गुरुदाराभिगेषु चा॥२१॥ मर्यादातिक्रमे सद्यो घात एवात्रशासनम् ॥ मला होते मनुष्येषु धनमेषां सदात्मकम्॥२२॥तस्मात्तान्घातयेद्राजा नार्थद- ण्डेन दण्डयेत् ॥ शतं ब्राह्मणमाक्रम्य क्षत्रियो दण्डमर्हति ॥२३॥ विप्रः पंचशतं दण्ड्यः क्षत्रियस्याभिशंसने॥ वैश्यःस्याद्धंधपञ्चाशच्छूंद्रे द्वादशके दमः ॥२४॥लश्रियस्य तु पंचाशद्द्ंडो वैश्येऽभिशंसने॥शूद्रः स्यादर्धपंचाशद्दैश्यः शूद्रामिशंसने॥२५॥कार्षापणं भवेद्दण्ड्यस्तथा वै पञ्चविंशतिः ॥ आक्रोशे स सवर्णानां द्वादशेव व्यतिक्रमः॥२६॥ वादेषु वचनीयेषु तदेव द्विगुणं भवेत् ॥ काणं वाप्यथ वा खंजं त्वन्यद्वापि तथाविधम् ॥२७ ॥ तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणं नरम् ॥ न किल्बिषमपापर्वदच्छास्त्रतः कृतवासनम्॥२८॥ न राज्ञा धृतदण्डं तु दण्डता तद्व्यतिक्रमात् ॥ राजा च ब्राह्मणश्चैव लोके पूज्यतमो मतौ ॥ २९ ॥ नामजातिग्रहं तेषां त्वभिद्रोहेण कुर्वतः ॥ निधेयोयमयः शंकुर्ज्ज्वलन्नास्ये दशाङ्गुलः ॥ ॥ ३० ॥ धर्मोपदेशं द्विजानामस्य कुर्व्वति ॥ तप्तमासेचयेत्तैलं वक्रे श्रोत्रे च पार्थिवः ॥ ३१ ॥ सहहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ॥

कट्यां कृतंको निर्वाप्यः कृतं चैवास्य कीर्तयेत् ॥ ३२ ॥
अवनिष्ठीवतो दर्पाद्वाष्ठौ च्छेद्येन्नृपः ॥ अवमूत्रयतः शिश्नमवशर्धयतो गुदम् ॥ ३३ ॥
तद्युपाक्रम्य राजानं जिह्वाच्छेदनमर्हति ॥ राजा न प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ॥ ३४ ॥
तमधो विषमेच्छूले ब्रह्महत्याशतातिगम् ॥
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ॥ आततायिनमायांतं हन्यादेवाविचारयन् ॥ ३५ ॥
संक्षेपतो धर्मवृत्तां वरीषां राज्ञो मयेयं कथितास्तु धर्माः ॥ अतः परं यत्र च संशयोस्ति तं मे वदध्वं तपसि प्रधानाः ॥ ३६ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रप्रति हंसगीतासु दण्डानुशासनवर्णनो नामाष्टात्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३८ ॥

ऋषय ऊचुः ॥
अतः परं द्विजश्रेष्ठ वदास्माकं मतेर्द्विजोत्तम ॥ वने निवसतो धर्मं धर्माणामाश्रमिणामपि ॥ १ ॥

हंस उवाच ॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ॥ अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ २ ॥
पुत्रेषु भार्यां निक्षिप्य तया वानुगतो वने ॥ अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥ ३ ॥
यथाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ तेनैव पूजयेद्भिक्षूनतिथिं समुपागतम् ॥ ४ ॥
ग्रामादाहृत्य वाश्नीयाद्ग्रासानष्टौ समाहितः ॥ स्वाध्यायं च तथा कुर्याज्जटाश्च विभृयात्तथा ॥ ५ ॥
तपसा शोषयेन्नित्यं तथा चैव कलेवरम् ॥ आर्द्रवासास्तु हेमंते ग्रीष्मे पञ्चतपास्तथा ॥ ६ ॥
प्रावृष्याकाशशायी च नक्तंकाशी च तथा भवेत् ॥ चतुर्थकालिको वास्यात्षष्ठकालिक एव वा ॥ ७ ॥
कृच्छ्रैरपि नयेत्कालं ब्रह्मचर्यं च पालयेत् ॥ एवं नीत्वा वने कालं द्विजो ब्रह्मशमी भवेत्ततः ॥ ८ ॥
वने विमुच्याथ शरीरधातून्प्राप्नोति लोकान्प्रपितामहस्य ॥ पुनात्यतीतान्पुरुषांश्च सप्त भविष्यतो यानथ सप्त विप्राः ॥ ९ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०वज्रसंवादे मुनीन्प्रति हंसगीतासु वानप्रस्थधर्मवर्णनो नामैकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३३९ ॥

हंस उवाच ॥
चतुर्थमायुषो भागमन्त्यं यत्याश्रमं वसेत् ॥ कृतेष्टि विधिवत्पश्चात्सर्ववेदसदक्षिणाम् ॥ १ ॥
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माक्रमी भवेत् ॥ ग्रामैकरात्रिकः स स्यान्नगरे पञ्चरात्रिकः ॥ २ ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ अतीते पात्रसञ्चारे भिक्षां नित्यं यतिश्चरेत् ॥ ३ ॥
सप्तागारं चरेद्भैक्ष्यं भिक्षुकान्नाभिमन्त्रयेत् ॥ न व्यथेत तथाऽलाभेन यथालाभेन वर्तयेत् ॥ ४ ॥
नास्वादयेत रसान्भिक्षुर्नोश्नीयात्कस्यचिद्गृहे ॥ मृन्मयालावुपात्राणि दारुवैदलकानि च ॥ तेषां सम्मार्जनाच्छुद्धिरद्भिरेव प्रकीर्तिता ॥ ५ ॥
कौपीनाच्छादनं वासो रथ्याविद्धमुपाहरेत् ॥ ६ ॥
शून्यागारनिकेतः स्यान्न सायं गृही मुनिः ॥ कर्मदण्डं मनोदण्डं वाग्दण्डं च तथा न्यसेत् ॥ ७ ॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥ सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ८ ॥
चन्दनेनोक्षितो बाहुं वास्यैकमापि तक्षतः ॥ कल्याणं चाप्यकल्याणं

तयोरपि न चिन्त्येता ॥ प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ १० ॥ निराशीर्निर्ममत्कारः
समलोष्टाश्मकाञ्चनः ॥ सर्वभूतसमो मैत्रः परमं पदमश्नुते ॥ ११ ॥ जन्मना चरतु निर्विष्णः मरणेन तथैव च ॥ आधिभिर्व्याधिभिश्चैव तं देवा
ब्राह्मणं विदुः ॥ अशुचित्वं शरीरस्य प्रियमित्यविपर्ययः ॥ १२ ॥ गर्भवासे च वसतिं पश्यन्मुञ्चति नान्यथा ॥ जन्ममृत्योश्च नानन्दं नत्व
सारमनर्थकम् ॥ १३ ॥ भोक्तव्यमिति निर्विण्णः प्रत्यहमुच्यते वचः ॥ एवं वैराग्यमास्थाय नित्यं ध्यानपरायणः ॥ १४ ॥ चतुर्विंशतिकं लंघ्य
प्रपञ्चत्यंशविंशकम् ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १५ ॥ पञ्चैतानि विजानीयान्महाभूतानि सर्वतः ॥ श्रोत्रं चक्षु स्पर्शनं च रसनं
घ्राणमेव च ॥ १६ ॥ बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्शरीरके ॥ शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च ॥ १७ ॥ कर्मेन्द्रि-
याणि पञ्चैव नित्यमस्मिञ्शरीरके ॥ मनोबुद्धी तथैवात्मा ह्यव्यक्तं च तथा द्विजाः ॥ १८ ॥ इन्द्रियेभ्यः पराणीह चत्वारि कथितानि तु ॥
चतुर्विंशतितैतानि पुरुषः पञ्चविंशकः ॥ १९ ॥ तं ज्ञात्वा प्रतिमुच्येत ये नराः शान्तबुद्धयः ॥ गन्धो गुरुतया वायुः स्पर्शः शब्दस्तथा द्विजाः
॥ २० ॥ एते पञ्चगुणा भूमेः स्थूला भूमेषु लक्ष्यते ॥ रसो रूपस्तथा स्पर्शः शब्दश्चाप्सुगुणा मताः ॥ २१ ॥ रूपं स्पर्शं मया शब्दः तेजसस्तु
गुणाः स्मृताः ॥ स्पर्शः शब्दस्तथा वायोः शब्दश्च नभसस्तथा ॥२२॥ आकाशाज्जायते शब्दो वायोः स्पर्शगुणस्तथा ॥ रूपं तु तेजसः प्रोक्तो
रसश्चाम्बुगुणो मतः ॥२३॥पार्थिवं गन्धमित्याहुारिन्द्रियार्थाः प्रकीर्तिताः ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यस्तु परं मनः ॥२४॥ मनसस्तु परा बुद्धि
र्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तं त्वव्यक्तात्पुरुषः परः॥२५॥पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ फतन्तरगतं सूक्ष्मन्तदक्षरममृतं
मथा॥२६॥ ॐकारवाचकं ह्येतत्पातीतं सनातनम् ॥ अशब्दमस्पर्शमरूपमक्षरं गन्धवर्जितञ्च ॥ २७॥ निर्द्वन्द्वसुखदं ज्ञेयं तद्विष्णोः परमं पदम् ॥
वालग्रशतशो भागः कल्पितस्तु सहस्रधा॥२८॥तस्यापि शतशो भागो जीव इत्यभिधीयते ॥ ह्यर्केनेन्दुनाः सूर्यः सोममध्य हुताशनः॥२९॥
तस्य मध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥ स्वदेहमुदरणिं कृत्वा प्रणवं चोत्तरारणिम् ॥ ३० ॥ ज्वलन्निर्मथनाभ्यासाद्दिग्भू पश्चाच्छृदि
स्थितम् ॥ एष देवस्तु मर्त्यानां वरेण्य विधीयते ॥ ३१ ॥ अज्ञानपटसंवीतेरिन्द्रियार्थोपयेषुभिः ॥ एष वै पुरुषो विष्णुरव्यक्तोऽव्ययक्तः सनातनः ॥
॥ ३२ ॥ एष धाता विधाता च प्रमाणो निष्कलः शिवः ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥३३॥ शाब्देब्रह्मणि निष्णातः परं ब्रह्मधि
गच्छति ॥ सूक्ष्मं नित्यमुपासीत शुभं च सततं द्विजाः ॥ ३४ ॥ सूक्ष्मस्योपासनारूढो याति तेजोमयीं गतिम् ॥ तत्त्वं वहति वै बुद्धि बुद्धिरुत्

वि० ध० ॥४६६॥

तृ० खं० अ० ३४१ ॥४६५॥

परमाङ्गतिम् ॥ ३५ ॥ गतिर्वहति चंद्रार्को तपसा परमेष्ठिनः ॥ तयोर्वहति वै सत्त्वं सत्त्वं च वहति प्रभुम् ॥ ३६ ॥ प्रभुर्वहति सौपर्ण्यं हरिं परमात्मानमात्मनः ॥ तयोर्वृत्तिरजः सत्त्वं सत्त्वस्य परमा गतिः ॥ ३७ ॥ सत्त्वं वहति सूक्ष्मत्वात्परं नारायणं प्रभुम् ॥ परमात्मानमासाद्य हरिं वैकुण्ठमीश्वरम् ॥ ३८ ॥ अमृतत्वाय कल्पेत ततो नैव निवर्तते ॥ दशाश्वयुक्तेन रथेन युक्तो मनोजवेनाथवायुवेजिना ॥ तञ्चक्रं नापवहंति वाजिनस्तथगतं नावजयंति शक्तः ॥ ३९ ॥ अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ॥ तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ ४० ॥ वेदाहमेतं पुरुषं महान्तं चादित्यवर्णं तमसः परस्तात् ॥ यं वै विदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ॥ ४१ ॥ एको भ्राता महिमा ब्राह्मणस्य स्वकर्मणा वै जायतेऽसौ कनीयान् ॥ यस्यात्मारामं नापरयस्ति किंचिदंतर्बहिस्त्वात्मनहृष्य ञ्च ततश्च नान्यः ॥ ४२ ॥ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ सुरुवाङ्गमः शुच्यायो दृश्यते स वृक्षः परिपश्यन्त्वातातो तयोरन्यापिप्पलं नाम स्वाद्वत्त्यनश्न्नन्यो अभिचाकशीति ॥ ४३ ॥ अकामधीरमृतः स्वयंभू रसेन तृप्तो न च कश्चिदूणाताम् ॥ पूर्णेन नाकं नापतिनं गुहायं विभ्राजते तं नियता विशन्ति ॥ ४४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दुर्नीमन्तं हंसगीतासु यतिधर्म वर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४० ॥ ॥ ऋषय ऊचुः ॥ ॥ वर्णानामाश्रमाणां च प्रोक्ता धर्मास्त्वयानघ ॥ गृहस्थभूता ये धर्मा ये च स्वल्पा महाफलाः ॥ १ ॥ येभ्यश्चाभ्यधिकं नास्ति सर्वेषां तु समाश्रये ॥ तानधर्मान्कथयस्वद्य सर्वज्ञां दिलांतिद्दिज ॥ २ ॥ ॥ ॥ हंस उवाच ॥ ॥ आश्रित्य देवदेवेशं जगद्योनिं जगद्गुरुम् ॥ विष्णुं जिष्णुं हरिं कृष्णं कृता धर्मा महाफलाः ॥ ३ ॥ पतनात्त्रायते यस्मा तत्तस्मात्पात्रेति कीर्त्यते ॥ पततां त्राणदस्स्त्वेकः स देवो मधुसूदनः ॥ ४ ॥ स्मरणात्कीर्त्तनाद् ध्यानान्नमस्करारणातद्वन्दिशनात् ॥ तथाविष्णुर्चानाद्यै मुच्यते सर्वकिल्बिषैः ॥ ५॥ कृत्वा देवाह्नं तस्य देवस्य परमेष्ठिनः ॥ राजसूयाश्वमेधानां फलेन स तु युज्यते ॥ ६ ॥ सुसूक्ष्मानि यावन्ति द्विजेन्द्राः परमाणवः ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥ प्रासादं मृन्मयं पुण्यं मयेतत्कथितं द्विजाः ॥ तस्माद्दशगुणं पुण्यं कृत इष्ट मये भवेत् ॥ ८॥ ततो दशगुणं पुण्यं तथा शैलकृते भवेत् ॥ ततो दशगुणं लोहे ताम्रे शतगुणं ततः ॥ ९॥ सहस्रगुणितं रौप्ये तस्मात्फलगुणा स्मृते ॥ ततः शतसहस्रं च सौवर्णे द्विजसत्तमाः ॥ १० ॥ अनन्तफलमाप्नोति रत्नचित्रे मनोहरे ॥ प्रतिमां कारयित्वा तु दुर्वाद्वस्य चक्रिणः ॥ न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥ ११ ॥ हैवस्य प्रतिमायां तु यावंतः परमाणवः ॥

तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ १२ ॥ प्रासादवत्तथा तस्य फलं समुदाहृता ॥ १३ ॥ उत्तरोत्तरतो दिव्यैर्विना
पक्वेष्टिका द्विजाः ॥ यथोक्तविधिना देवं प्रतिष्ठाप्य जनार्दनम् ॥ १४ ॥ अक्षय्यं लोकमाप्नोति विष्णोरमिततेजसः ॥ इष्ट्याविधियुपुर-
स्कारकृते तत्र तथा सुखम् ॥ १५ ॥ तत्सेवालुचरो ह्योकरस्तस्यैवाप्नोति चाक्षयम् ॥ करोति देवप्रासादं यावद्धारं सुयासितम् ॥ १६ ॥ जन्मा-
न्तराणि तावन्ति यशस्वी भुवि जायते ॥ चित्रं लक्षणसंयुक्तं कारयित्वा हरेर्गृहम् ॥ १७ ॥ गन्धर्वलोकमाप्नोति बह्वब्द्वण्डणानि तु ॥
दत्त्वा च गीतं धर्मज्ञा गन्धर्वैः सह मोदते ॥ १८ ॥ स्वयं गीतेन संपूज्य तस्य चानुचरो भवेत् ॥ वाद्यं दत्त्वा तथा विप्रा शक्रलोकमवाप्नुयात् ॥
॥ १९ ॥ स्वयं वाद्येन संपूज्य तस्यैवानुचरो भवेत् ॥ वाद्यानामपि देवस्य तन्त्रीवाद्यं सदा प्रियम् ॥ २० ॥ तेन संपूज्य वरदं गाणपत्यमवा-
प्नुयात् ॥ नृत्यं दत्त्वा तथाभ्रेति रुद्रलोकमसंशयम् ॥ २१ ॥ स्वयं नृत्येन संपूज्य तस्यैवानुचरो भवेत् ॥ प्रेक्षणीयप्रदानेन शक्रलोकमवाप्नुयात्
॥ २२ ॥ अभ्यर्चनं कारयित्वा ब्रह्मलोके प्रपद्यते ॥ तोयेनाभ्युक्षणं कृत्वा देवेन्द्राजिरे नरः ॥ २३ ॥ सर्वपापविनिर्मुक्तो वारुणं लोक-
मश्नुते ॥ यस्तु सम्मार्जनं कुर्याद्देवदाजिरे नरः ॥ २४ ॥ सपापजं मलं देहादपापामार्जति सत्वरः ॥ करोति परमात्प्रत्नां यावत्पामपभार्जनम् ॥
॥ २५ ॥ तावद्वर्षाणि नाकस्थस्त्रिदशैः सह मोदते ॥ कृत्वापलेपनं विष्णोर्गोमयेनालये नरः ॥ २६ ॥ गवां लोकसवाप्नोति यन्नचाभिजा-
यते ॥ कृत्वा च विविधैर्गन्धैर्गन्धवैः सह मोदते ॥ २७ ॥ बह्वन्द्वसहस्राणि भूमिशोभां हरेर्गृहे ॥ गन्धोदकेन यः कुर्याद्विष्णोरभ्युक्षणं
गृहे ॥ २८ ॥ दशवर्षसहस्राणि गन्धर्वैः सह मोदते ॥ दत्त्वोपकारं कुसुमैर्गन्धवत्त्वमवाप्नुयात् ॥ २९ ॥ पुष्पवृत्यानि वर्षाणि दिव्याग्रयरूप-
वान् ॥ कृत्वा शीणंस्य संस्कारं तथा देवेशवेश्मनः ॥ ३० ॥ द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ॥ सायं प्रातस्तथा कृत्वा वासुदेवस्य कीर्त-
नम् ॥ ३१ ॥ सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ शयनाङ्कुतितो यस्तु कीर्तयेन्मधुसूदनम् ॥ ३२ ॥ कीर्तनात्तस्य पापानि नाशमायान्त्यशेषतः ॥
अहोग्रगस्य शान्तिश्च तथा तेन कृता भवेत् ॥ ३३ ॥ प्रभवश्यायनानां नास्य स्यात्तद्दहर्निशम् ॥ कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ॥
॥ ३४ ॥ यक्षराक्षसवेतालभूतप्रेतविनायकाः ॥ डाकिन्यो विद्रवन्ति स्म ये तथा ये च हिंसकाः ॥ ३५ ॥ सर्वानर्थहरं तस्य नामसङ्कीर्तनं
स्मृतम् ॥ देवदेवस्य नामानि बहूनीह विदुर्बुधाः ॥ ३६ ॥ तेषामनर्थशमनं यद्देवं महत्तमः ॥ एकं नाम जपेद्यस्तु देवदेवस्य चक्रिणः ॥ ३७ ॥
स च पापविनिर्मुक्तः स्वर्गलोके महीयते ॥ हृदि कृत्वा तथा काममभीष्टं द्विजपुङ्गवाः ॥ ३८ ॥ एकं नाम जपेद्यस्तु स तान्कामानवाप्नुयात् ॥

७७