सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 965, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 965

तयोरपि न चिन्त्येता ॥ प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ १० ॥ निराशीर्निर्ममत्कारः
समलोष्टाश्मकाञ्चनः ॥ सर्वभूतसमो मैत्रः परमं पदमश्नुते ॥ ११ ॥ जन्मना चरतु निर्विष्णः मरणेन तथैव च ॥ आधिभिर्व्याधिभिश्चैव तं देवा
ब्राह्मणं विदुः ॥ अशुचित्वं शरीरस्य प्रियमित्यविपर्ययः ॥ १२ ॥ गर्भवासे च वसतिं पश्यन्मुञ्चति नान्यथा ॥ जन्ममृत्योश्च नानन्दं नत्व
सारमनर्थकम् ॥ १३ ॥ भोक्तव्यमिति निर्विण्णः प्रत्यहमुच्यते वचः ॥ एवं वैराग्यमास्थाय नित्यं ध्यानपरायणः ॥ १४ ॥ चतुर्विंशतिकं लंघ्य
प्रपञ्चत्यंशविंशकम् ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १५ ॥ पञ्चैतानि विजानीयान्महाभूतानि सर्वतः ॥ श्रोत्रं चक्षु स्पर्शनं च रसनं
घ्राणमेव च ॥ १६ ॥ बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्शरीरके ॥ शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च ॥ १७ ॥ कर्मेन्द्रि-
याणि पञ्चैव नित्यमस्मिञ्शरीरके ॥ मनोबुद्धी तथैवात्मा ह्यव्यक्तं च तथा द्विजाः ॥ १८ ॥ इन्द्रियेभ्यः पराणीह चत्वारि कथितानि तु ॥
चतुर्विंशतितैतानि पुरुषः पञ्चविंशकः ॥ १९ ॥ तं ज्ञात्वा प्रतिमुच्येत ये नराः शान्तबुद्धयः ॥ गन्धो गुरुतया वायुः स्पर्शः शब्दस्तथा द्विजाः
॥ २० ॥ एते पञ्चगुणा भूमेः स्थूला भूमेषु लक्ष्यते ॥ रसो रूपस्तथा स्पर्शः शब्दश्चाप्सुगुणा मताः ॥ २१ ॥ रूपं स्पर्शं मया शब्दः तेजसस्तु
गुणाः स्मृताः ॥ स्पर्शः शब्दस्तथा वायोः शब्दश्च नभसस्तथा ॥२२॥ आकाशाज्जायते शब्दो वायोः स्पर्शगुणस्तथा ॥ रूपं तु तेजसः प्रोक्तो
रसश्चाम्बुगुणो मतः ॥२३॥पार्थिवं गन्धमित्याहुारिन्द्रियार्थाः प्रकीर्तिताः ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यस्तु परं मनः ॥२४॥ मनसस्तु परा बुद्धि
र्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तं त्वव्यक्तात्पुरुषः परः॥२५॥पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ फतन्तरगतं सूक्ष्मन्तदक्षरममृतं
मथा॥२६॥ ॐकारवाचकं ह्येतत्पातीतं सनातनम् ॥ अशब्दमस्पर्शमरूपमक्षरं गन्धवर्जितञ्च ॥ २७॥ निर्द्वन्द्वसुखदं ज्ञेयं तद्विष्णोः परमं पदम् ॥
वालग्रशतशो भागः कल्पितस्तु सहस्रधा॥२८॥तस्यापि शतशो भागो जीव इत्यभिधीयते ॥ ह्यर्केनेन्दुनाः सूर्यः सोममध्य हुताशनः॥२९॥
तस्य मध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥ स्वदेहमुदरणिं कृत्वा प्रणवं चोत्तरारणिम् ॥ ३० ॥ ज्वलन्निर्मथनाभ्यासाद्दिग्भू पश्चाच्छृदि
स्थितम् ॥ एष देवस्तु मर्त्यानां वरेण्य विधीयते ॥ ३१ ॥ अज्ञानपटसंवीतेरिन्द्रियार्थोपयेषुभिः ॥ एष वै पुरुषो विष्णुरव्यक्तोऽव्ययक्तः सनातनः ॥
॥ ३२ ॥ एष धाता विधाता च प्रमाणो निष्कलः शिवः ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥३३॥ शाब्देब्रह्मणि निष्णातः परं ब्रह्मधि
गच्छति ॥ सूक्ष्मं नित्यमुपासीत शुभं च सततं द्विजाः ॥ ३४ ॥ सूक्ष्मस्योपासनारूढो याति तेजोमयीं गतिम् ॥ तत्त्वं वहति वै बुद्धि बुद्धिरुत्

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 965, कुल 1001 में से · BharatKosha