विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 964, कुल 1001 में से
संदर्भ में पढ़ेंकट्यां कृतंको निर्वाप्यः कृतं चैवास्य कीर्तयेत् ॥ ३२ ॥
अवनिष्ठीवतो दर्पाद्वाष्ठौ च्छेद्येन्नृपः ॥ अवमूत्रयतः शिश्नमवशर्धयतो गुदम् ॥ ३३ ॥
तद्युपाक्रम्य राजानं जिह्वाच्छेदनमर्हति ॥ राजा न प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ॥ ३४ ॥
तमधो विषमेच्छूले ब्रह्महत्याशतातिगम् ॥
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ॥ आततायिनमायांतं हन्यादेवाविचारयन् ॥ ३५ ॥
संक्षेपतो धर्मवृत्तां वरीषां राज्ञो मयेयं कथितास्तु धर्माः ॥ अतः परं यत्र च संशयोस्ति तं मे वदध्वं तपसि प्रधानाः ॥ ३६ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रप्रति हंसगीतासु दण्डानुशासनवर्णनो नामाष्टात्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३८ ॥
ऋषय ऊचुः ॥
अतः परं द्विजश्रेष्ठ वदास्माकं मतेर्द्विजोत्तम ॥ वने निवसतो धर्मं धर्माणामाश्रमिणामपि ॥ १ ॥
हंस उवाच ॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ॥ अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ २ ॥
पुत्रेषु भार्यां निक्षिप्य तया वानुगतो वने ॥ अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥ ३ ॥
यथाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ तेनैव पूजयेद्भिक्षूनतिथिं समुपागतम् ॥ ४ ॥
ग्रामादाहृत्य वाश्नीयाद्ग्रासानष्टौ समाहितः ॥ स्वाध्यायं च तथा कुर्याज्जटाश्च विभृयात्तथा ॥ ५ ॥
तपसा शोषयेन्नित्यं तथा चैव कलेवरम् ॥ आर्द्रवासास्तु हेमंते ग्रीष्मे पञ्चतपास्तथा ॥ ६ ॥
प्रावृष्याकाशशायी च नक्तंकाशी च तथा भवेत् ॥ चतुर्थकालिको वास्यात्षष्ठकालिक एव वा ॥ ७ ॥
कृच्छ्रैरपि नयेत्कालं ब्रह्मचर्यं च पालयेत् ॥ एवं नीत्वा वने कालं द्विजो ब्रह्मशमी भवेत्ततः ॥ ८ ॥
वने विमुच्याथ शरीरधातून्प्राप्नोति लोकान्प्रपितामहस्य ॥ पुनात्यतीतान्पुरुषांश्च सप्त भविष्यतो यानथ सप्त विप्राः ॥ ९ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०वज्रसंवादे मुनीन्प्रति हंसगीतासु वानप्रस्थधर्मवर्णनो नामैकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३३९ ॥
हंस उवाच ॥
चतुर्थमायुषो भागमन्त्यं यत्याश्रमं वसेत् ॥ कृतेष्टि विधिवत्पश्चात्सर्ववेदसदक्षिणाम् ॥ १ ॥
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माक्रमी भवेत् ॥ ग्रामैकरात्रिकः स स्यान्नगरे पञ्चरात्रिकः ॥ २ ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ अतीते पात्रसञ्चारे भिक्षां नित्यं यतिश्चरेत् ॥ ३ ॥
सप्तागारं चरेद्भैक्ष्यं भिक्षुकान्नाभिमन्त्रयेत् ॥ न व्यथेत तथाऽलाभेन यथालाभेन वर्तयेत् ॥ ४ ॥
नास्वादयेत रसान्भिक्षुर्नोश्नीयात्कस्यचिद्गृहे ॥ मृन्मयालावुपात्राणि दारुवैदलकानि च ॥ तेषां सम्मार्जनाच्छुद्धिरद्भिरेव प्रकीर्तिता ॥ ५ ॥
कौपीनाच्छादनं वासो रथ्याविद्धमुपाहरेत् ॥ ६ ॥
शून्यागारनिकेतः स्यान्न सायं गृही मुनिः ॥ कर्मदण्डं मनोदण्डं वाग्दण्डं च तथा न्यसेत् ॥ ७ ॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥ सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ८ ॥
चन्दनेनोक्षितो बाहुं वास्यैकमापि तक्षतः ॥ कल्याणं चाप्यकल्याणं