सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 957, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 957

कर्मणा ॥ भ्रातृमातृपितृप्राप्ते षड्विधं स्त्रीधनं स्मृतम् ॥ ४० ॥ ब्राह्मैदैवार्षगान्धर्त्वप्राजापत्येषु यद्वसु ॥ अप्रजायामतीतायां भर्तुरेव तदिष्य ते ॥४१॥ यथान्येषु पितृगामि...धनानि...भवेत् ॥ पत्न्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्॥४२॥ न भजेरन्दायदा भजमानाः पतन्ति ते ॥ भ्रातॄणामेकजातानां यद्येकः पुत्रवान्भवेत् ॥ ४३ ॥ सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ सर्वासानेकपत्नीनामेका चेत्पुत्रिणी भवेत् ॥ ४४ ॥ पुत्रवत्यस्तु तास्सर्वास्तेन पुत्रेण कीर्तिताः ॥ अनुपघ्नं पितृद्रव्यं श्रमेण यदुपार्जितम् ॥ ४५ ॥ स्वयमीहितलब्धं तं नाकामो दातुमर्हति ॥ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ॥ ४६ ॥ म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ॥ ४७ ॥ भ्रातरो ये च संसृष्टा भगिन्यश्च सजातयः ॥ विभक्ते तु धने जाताः पित्र्यमेव धनं हरेत् ॥ ४८ ॥ विभक्तैर्वास्त्य दातव्यमंशंशास्रानुरूपतः ॥ स्वभागात्स्वांशमुद्धृत्य दत्वा भागं यथाक्रमम् ॥ ४९ ॥ असंस्कृतास्तु संस्कार्या विभक्तैः कन्यकास्तथा ॥ प्रविभागे कृते यत्र पश्चाच्छिष्येत वै धनम् ॥ ५० ॥ पूर्वोक्तेनानुसारेण विभागं तत्र कार येत् ॥ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ॥ ५१ ॥ योगक्षेमप्रचारे च न विभज्यं च पुस्तकम् ॥ रिक्थग्राही ऋणं दद्यात्पिण्डं दद्यात्स एव तु ॥ ५२ ॥ भर्तृव्यान्विष्णुयात्तस्य सर्वामिति मतिमम् ॥ रिक्थग्राही न यः कुर्यात्प्रैतकार्यं यथाविधि ॥५३॥ तस्करं तं स्वकाञ्चांश्रात्क्षिप्तं राजा विवासयेत् ॥ राजगामी भवेद्विप्रा यस्य वित्तं तु कर्हिचित् ॥ ५४ ॥ राजापि दापयेत्पिण्डं तस्य भृत्यैर्यथाविधि ॥ यस्यां नराणामिह वित्त भागी ऋणस्य भागी स तथा निरुक्तः ॥ ऋणावशिष्टं पुरुषस्तु नित्यं मुक्ता द्विजेन्द्राः सुकृती सदा स्यात् ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दायाविभागवर्णनो नाम त्रिशदुत्तरत्रिशततमोऽध्यायः ॥ ३३० ॥ ॥ हंस उवाच ॥ उत्तमर्णाय दातव्यमधमर्णेन याचितम् ॥ ब्राह्मणेन्द्रा धनं सर्वं निह्नवे तच्च भावितम् ॥ १ ॥ सर्वोपायैर्धनी वित्तमृणिकादाप्नुयात्स्वकम ॥ न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥ २ ॥ अर्थिनिह्नव्मानं तु भावनाविरिभावितम् ॥ दापयेद्धनिकस्यार्थं राज्ञो दण्डं च तत्समम् ॥ ३॥ मिथ्याभियोगे द्विगुणमिति योगार्द्धनं हरेत् ॥ भागं विंशतिमन्दद्यात्तथार्थं धनिको नृपे ॥ ४ ॥ यदि राजबलेनासौ तद्धि तस्मादवाप्नु यात् ॥ द्विकं त्रिकं चतुष्कं च पञ्चकं च तथा शतम् ॥ ५ ॥ वर्णानाक्रमतो वृद्धिः प्रतिमासं प्रकीर्तिता ॥ स्वयं कृतां तथा वृद्धिं सर्वे सर्वासु योनिषु ॥ द्वा दातुमर्हति विप्रन्द्रा इति मे निश्चिता मतिः ॥ न ह्वाचिप्रीतिदत्तानां वृद्धिः संवत्सरं भवेत् ॥ ७ ॥ तेषामपि भवेद्वृद्धिर्गते संवत्सरे

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 957, कुल 1001 में से · BharatKosha