सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 961, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 961

ल्विषं भवेत् ॥ तासां चेंद्रुद्धानां चरन्तीनां मिथो वने।र॥क्षायामुपत्य वृको हन्यान्न पालस्तत्र किल्विषी ॥ विद्ध्व्य तु हतं चौरैर्नपालो दातु मर्हति ॥ २७ ॥ यदि देशे च काले च स्वामिनस्तस्य शंसति ॥ एतेन सर्वपालानां विवादः समुदाहृतः ॥ २८ ॥ साकं संभुञ्जं संभुजं च चर्म प्रदर्शयित्वाथ पशोर्मृतस्य ॥ पालस्य शुद्धिः कथिता द्विजेन्द्रा अतोऽन्यथा तस्य न शुद्धिरुक्ता ॥ २९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रान्प्रति हंसगीतासु स्वामिभृत्यनियमवर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४० ॥ ॥ छ ॥ ॥ हंस उवाच ॥ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ॥ प्रकाशक्रयतः शुद्धिः क्रीतः स्तेयो रहः क्रमात् ॥ १ ॥ हीनमूल्यं बलोत्क्रीतं ततस्तद्दोषभागभवेत् ॥ न गृहेतागमं क्रीताच्छुद्धिस्तस्य तदागमात् ॥ २ ॥ स्वामी तु प्राप्नुयाद्वित्तं प्रकाशं रह एव वा ॥ विक्रीथ पण्यं मूल्येन यः क्रीतं न नियच्छति ॥ ३ ॥ स्थावरस्य फलं दाप्यो जङ्गमस्य क्रियाफलम् ॥ अर्थं चेन्न प्रहीयेत सोऽथं पण्यमावहेत् ॥ ४ ॥ स्थानिनामेष नियमो दिक्लाभश्च दिशांगते ॥ उपहन्यात् वा पण्यं दह्यतापहरेत वा ॥ ५ ॥ विक्रेतुर्व सोऽनर्थो विक्रेता सम्प्रयच्छति ॥ दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी ॥ ६ ॥ विक्रीणानं तदन्यत्र विक्रेता नाप राप्नुयात् ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ॥ ७ ॥ मूल्यं तद्द्विगुणं दाप्या विनेयश्च तथा भवेत् ॥ दत्तामूल्यस्य पण्यस्य विधि रेष प्रकीर्तितः ॥ ८ ॥ अदत्तेन्यत्र समयान्न विक्रेतुरतिक्रमः ॥ क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ॥ ९ ॥ विक्रीतं प्रतिदेयं तु यथा विश्रास्तथा शृणु ॥ अह्नादेव भवेद्देयं पञ्चाहाद्वाहमेव तु ॥ १० ॥ सप्ताहेन तथा रत्नं लोहस्तस्मिंस्तथाहनि ॥ द्विपदं चार्द्धमासेन बीजानि दशभिर्दिनैः ॥ तृतीयेऽहनि वस्त्रं च शं चैवापरेऽहनि ॥ ११ ॥ परियुक्तं तु यद्वासः क्लिष्टरूपं महीसमम् ॥ सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः ॥ १२ ॥ द्रव्यं तु विक्रीतमपि स्वकं हि विनायको वा तदवाप्नुयाद्वै ॥ क्रेता न कुर्याद्यदि वञ्चनां वा विक्रेतुर्वैन्द पुनस्तदिष्टम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्द्रान्प्रति हंसगीतासु क्रयविक्रयणनिर्णयो नाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥३४१॥ ॥ हंस उवाच ॥ ॥ पाषण्डनैगमश्रेणी पूर्वविततगणादिषु ॥ संरक्षत्समये राजा दुर्गे जनपदे तथा ॥ १ ॥ यो धर्मः कार्येद्येषां चोपस्थान विधिश्च यः ॥ यश्चैषां वृत्त्युपादानं चानुमन्येत तत्तथा ॥ २ ॥ प्रतिकूलं तु यद्राज्ञः प्रकृत्यवसनं च यत् ॥ बाधकं च यदर्थानां तत्तेभ्यो विनिय र्तयेत् ॥ ३ ॥ मिथः संघातकरणं त्विह ते शस्त्रधारणम् ॥ परस्परोपघातं च तेषां राजा न मर्षयेत् ॥ ४॥ पृथग्गणांश्र यो भिन्द्यात्ते विनेया विशे