सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 954, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 954

वि० ध० ॥४६०॥ तृ० खं० अ० ३२९ ॥४६०॥

यां देवताभक्तः पाययेत्तस्य तूत्तरम् ॥ सभक्तं तु देवानामादित्यस्यैव कारयेत् ॥८२॥ अग्राणामपि देवानां वध्यस्यैव तु दापयेत् ॥ सर्वपापमवेक्षेत देवानां स्नापयेद्युग्यं स्वकम् ॥८३॥ स्नानेनोदकं वा सकलमाहरेत विचक्षणः ॥ उन्मुखं करणं कृत्वा पाययेत्सप्तसूत्रिकम् ॥८४॥ इदं मया नैव कृतं कृतं वाप्यथ शाश्विना ॥८५॥पीते तु कोशे पुरुषस्य दृष्ट्वा देवोपघातं नृपसंभवं वा ॥ त्रिःसप्तरात्रांतरतो नृपेण भृशं विनेयः पुरुषः स विप्राः॥८६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दिव्यप्रमाणनिरूपणं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ॥ ३२८ ॥ हंस उवाच ॥ एका द्वे च तथा तिस्रस्ततश्च यथाक्रमम् ॥ शूद्रविट्क्षत्रविप्राणां भार्याः प्रोक्ता मनीषिभिः ॥ १ ॥ शूद्रेव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ॥ ते च स्वा च तथा राज्ञस्तथा स्वा चाग्रजन्मनः ॥ २ ॥ न विवर्णा भवेद्भार्या कदाचिदपि कस्यचित् ॥ सवर्णेव भवेज्ज्येष्ठा असवर्णासु सत्वपि ॥ ३ ॥ अष्टौ विवाहा निर्दिष्टास्तेषां वक्ष्यामि लक्षणम् ॥ आहूय दानाद्ब्राह्मस्तु ऋत्विग्दैव उच्यते ॥ ॥ ४ ॥ गोयुगग्रहणादार्षः प्राजापत्योऽर्थिने तथा ॥ आसुरो द्रविणादानाद्गान्धर्वस्तु मताद्द्वयोः ॥ ५ ॥ राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छला त् ॥ प्राजापत्यस्तथा देवो ब्राह्मश्चापि शुभावहाः ॥ ६ ॥ गान्धर्वो राक्षसश्चैव मध्यमौ परिकीर्तितौ ॥ आसुरश्चैव पैशाच आपद्येष्वपि तथाधमः ॥ ॥ ७ ॥ न ते कार्याः प्रयत्नेन कदाचिदपि केनचित् ॥ आसुरस्य तथापैश्य विशेषो नैव विद्यते ॥ ८ ॥ शुल्कमेव ततो ज्ञेयमल्पं वा यदि वा बहु॥ प्राणिविक्रयिणः सर्वे नरकं यान्ति मानवाः॥९॥ विशेषेण च यः पुत्रं विक्रीणाति स्वकं नरः ॥ नरके वसति तस्य बहूनब्दगणान्विभुः ॥ १०॥ मृते भर्तरि या कन्या केवलं हस्तदूषिता ॥ सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥ ११॥ इत्येवं केचिदिच्छन्ति न तन्मम मतं द्विजाः ॥ सतमे हि पदे वृत्ते नान्यमर्हति सा पतिम्॥१२॥वाचा दत्ता तु या कन्या मन्त्रैश्चैव न संस्कृता॥ अन्यस्य सा भवेद्द्या सति भर्तरि दीर्घिणी॥ १३॥ नष्टे मृते प्रब्रजिते क्लीबेऽथ पतिते पतौ॥पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ १४॥ पिता पितामहो भ्राता सकुल्यो जननी तथा ॥ कन्याप्रदः पूर्वेनाशे प्रकृतिस्थः परः परः ॥ १५ ॥ यस्तु दोषमनाख्याय कन्यकां संप्रयच्छति ॥ स राज्ञा दिशतं दण्ड्यो विषूयात्तां च कन्यकाम् ॥ १६ ॥ अदोषामथ यो दुष्टां ब्रूयाद्दोषेण मानवः ॥ प्रथमं साहसं तस्य राजा दण्डं प्रकल्पयेत् ॥ १७ ॥ यस्तु दोषवतीं पत्नीं सम्यक्चेन्नानुवर्तते ॥ दण्ड यित्वा स्वशक्त्या तं समे पथि निवेशयेत्॥ १८॥भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता॥तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ १९॥ भार्याया व्यभिचारिण्या परित्यागो विधीयते ॥ २० ॥ हीनवर्णगमे चास्या वधयुक्तं मनीषिभिः ॥ भर्तृज्ञां विना राजा स्त्रीणां च प्रमवेत