विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 959, कुल 1001 में से
संदर्भ में पढ़ें... शततमोऽध्यायः ॥ ३३१ ॥ ॥ छ ॥ ॥ छ ॥ ॥ हंस उवाच ॥ ॥ शीलाढ्ये कुलजे शक्तः निक्षेपे निक्षेपेद्बुधः ॥ याच्यमानं तथैवासौ तस्य तद्दातुमर्हति ॥ १ ॥ याचते यश्च निक्षिप्य निक्षिप्तं न प्रयच्छति ॥ तावुभौ चोरवच्छास्यौ धर्मज्ञेन महीक्षिता ॥ २ ॥ निक्षेपोपनिधी चेव न देयौ प्रत्यनन्तरे ॥ नश्येते वनिपातेतर्वनिपाते त्वनाशिना ॥ ३ ॥ यस्य हस्ते विनिक्षिप्तं तस्य हस्ते तथा विना ॥ नदं तु यदि निक्षिप्तं नासौ दद्यात्कथञ्चन ॥४॥ निक्षेपोपभोगी दण्ड्यः स्याद्भागेनगृह्यन्तु पड्गुणम् ॥ एव एव विधिदृष्टो याचितान्वाहितेषु च ॥ शिल्पिपूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ ५ ॥ प्रतिगृह्णाति यो गण्डं यश्च स प्रयतेन्नरः ॥ तस्याप्येवं भवेद्धर्मः पदेते निबन्धाः स्मृताः ॥ ६ ॥ निक्षेपरक्षा पुरुषेण कार्या यत्नेन विप्रप्रवरास्सदेव ॥ निक्षेपहर्त्ता नरकं प्रयाति कल्पावशेषं निहितस्तु सर्वः ॥ ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु निक्षेपरक्षावर्णनो नाम द्वात्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३२ ॥
हंस उवाच ॥
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ॥ तत्संभूय समुत्थानं शृणुष्वं गदतो मम ॥ १ ॥ फलहेतौ रूपायेण कर्म संभूय कुर्वताम् ॥ आधारभूतः प्रक्षेपः तस्तिष्टेद्युरंशकाः ॥ २ ॥ समोऽतिरिक्तौ हीनो वा यत्रांशो यस्य यादृशः ॥ क्षयव्ययौ तथा वृद्धिरतस्य तस्य तथाविधा ॥ ३ ॥ सर्वेषां च मतं कार्यं भाण्डपिण्डव्ययादिकम् ॥ समं सर्वस्य विभजेल्लोके तस्मान्महीपते ॥ ४ ॥ दैविके राजके वापि व्यसने समुपस्थिते ॥ तत्र तत्र स्वशक्त्या तु तस्यांशो दशमः स्मृतः ॥ ५ ॥ एकस्य चेत्स्याद्व्यसनं दायादस्तद्बधात्पुयात् ॥ तस्याभावे च सर्वेषां तेषामेव हि तद्धनम् ॥६॥ ऋत्विजो व्यसनेष्वेवं मान्यस्त्वर्ह कर्मनिस्तरः ॥ लभते दक्षिणाभागं स तस्मात्संग्रहकल्पितम् ॥ ॥ ७ ॥ ऋत्विव्याज्यां च दुष्टौ तौ सन्त्यजेतां परस्परम् ॥ प्रथमं साहसं दंड्यौ न च तौ त्यागमर्हतः ॥ ८ ॥ अन्वाहितं याचितकं साधिः साधारणं च यत् ॥ निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ ९ ॥ अदेयानि द्विजश्रेष्ठा यश्चान्यस्मै प्रतिश्रुतम् ॥ अदत्तं तु भवेत्कोपभययोकाञ्चित्नैस्तैः ॥ १० ॥ बालवृद्धास्वतन्त्रैश्च मत्तोन्मत्तस्तथैव च ॥ अज्ञानाच्च तथा पात्रे स्पर्धया द्विजसत्तमाः ॥ ११ ॥ गृहीत्वाथञ्च यो मोहावश्चादेयं प्रयच्छति ॥ तावुभौ चोरवच्छास्यौ धर्मज्ञेन महीक्षिता ॥ १२ ॥ दत्तं स्वयं नाथ परेण दत्तं दत्तं नरो यस्तु हरेत्परस्य ॥ ध्रुवं स विप्रा नरकं प्रयाति दत्तं स्वयं वा न च यश्च दद्यात् ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पुनर्नीतिहंसगीतासु संभूयसमुत्थानदायादेयवर्णनो नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ ३३३ ॥
हंस उवाच ॥
कृतकर्मविधौ प्रोक्तस्तस्य...