सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वासं दत्त्वाऽथ धर्मज्ञं वसूनां लोकमश्नुते ॥ तेनेन लोकमाप्नोति शङ्करस्य महात्मनः ॥ ३६ ॥ इतिहासप्रदानेन बुद्धिमाञ्जायते नरः ॥ आहुतिं
देवमुद्दिश्य यो ददाति हुताशने ॥ ३७ ॥ स देवस्तर्पयत्येनं कामैर्वा तेन तर्पितः ॥ देवमुद्दिश्य विप्राणां यो ददातीह भोजनम् ॥ ३८ ॥ स देवः
प्रीतिमानन्य कामानिष्टानप्रयच्छति ॥ देवमुद्दिश्य यत्किञ्चिद्ब्राह्मणेभ्यः प्रदीयते ॥३९॥ तदेव प्राप्यते लोके प्रसन्ने त्रिदशे बहु ॥ यानं शय्यासनं
छत्रं पादुके चाप्युपानहौ ॥ ४० ॥ वाहनं गां च धर्मज्ञस्त्विहेशेभ्यो ददाति यः ॥ एकैकस्मादवाप्नोति वह्निधमफलं नरः ॥ ४१ ॥ दत्त्वा
फलानि देवेभ्यः सफलां विन्दते क्रियाम् ॥ निवेद्य सस्यानि तथा गतिमाप्नोत्यनुत्तमाम् ॥ ४२ ॥ नेति देवस्तथा प्रीतिं दानेहै
स्तैस्तथा फलैः ॥ प्रीतिमेति यथा विप्राः स्वाश्रितानान्तु पूजनैः ॥ ४३ ॥ देवता नैव तृप्यन्ति दानेन बहुधा द्विजाः ॥ यथा भक्त्या तु
तृप्यन्ति तस्माद्भक्तिं समाश्रयेत ॥ ४४ ॥ घृतपूर्णानि पात्राणि दत्त्वा श्राद्धे तथा नरः ॥ दीर्घ जीवितमाप्नोति न रोगैश्चाभिभूयते ॥ ४५ ॥
मधुपूर्णानि पात्राणि दत्त्वा सौभाग्यमाप्नुयात ॥ यथाशक्तिह्वित्पात्राणां दानाद्भवति सत्तमः ॥४६॥ पात्रं तु सर्वकामानां नात्र कार्या विचारणा ॥
पुष्पवृक्षप्रदानेन गृहमाप्नोति मानवः ॥ ४७ ॥ फलवृक्षप्रदानेन ग्रामस्याधिपतिर्भवेत् ॥ गृहप्रदानाद्भवति खेटकाधिपतिस्तथा ॥ ४८ ॥ गृहं
शय्यासनोपेतं यानवाहनसंयुतम् ॥ धनधान्ययुतं स्फीतं दासीदाससमाकुलम् ॥ ४९ ॥ सर्वकामयुतं रम्यं प्रदाय श्राद्धकर्मणि ॥ स्वर्गलोका
त्परिभ्रष्टो राजा भवति पार्थिवः ॥ ५० ॥ पितृबुद्धिश्च यद्दानं किञ्चिद्देव प्रपच्छति ॥ तस्याप्यधिकमाप्नोति पुण्यं तेषां प्रसादतः ॥ ५१ ॥ तस्या
ऽश्राद्धानि कार्याणि तीर्थष्वायतनेषु च ॥ दानानि चैव देयानि पितॄनुद्दिश्य शक्तितः ॥५२॥ श्राद्धेषु पृष्टिं मनुजा लभन्ते श्राद्धेन विप्रास्त्रिदिवं च
वासः॥ श्राद्धं प्रयत्नेन ततश्च कुर्यात्स्वकल्पसूत्राभिहितं यथावत् ॥५३॥ इति श्रीविष्णुधर्मोत्तरे तृ०खं० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु
पितृपूजाविधानं नामाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८८ ॥ हंस उवाच ॥ शुद्राणां दैवतं वैश्या वैश्यानां क्षत्रियास्तथा ॥ ब्राह्मणाः
क्षत्रियाणां च तेषामपि हुताशनः ॥ १ ॥ गृहदेवो ब्रह्मचारी नार्येश्च पतिर्देवताः ॥ गृहस्थोऽतिथिदेवस्त्यस्तस्मातं पूजयेत्सदा ॥ २ ॥ वैश्वदेवं गृहे
कृत्वा सायं प्रातः समाहितः ॥ पिण्डनिर्वपणं कृत्वा भिक्षां दत्त्वा तु भिक्षवे ॥३ ॥ सत्कृत्य भिक्षादानेन गोदानफलमाप्नुयात ॥ खूभ्यश्च श्वप
चेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ ४ ॥ गृहस्थमुपजीवन्ति प्रजाः स्थावरजङ्गमाः ॥ गृहस्थः पोषणं कुर्यान्तुस्तानां जीवतामपि ॥ ५ ॥ पोषणा
त्प्रियमेवेह तेन स्वर्गं महीयते ॥ कीटः पतङ्गः पतितः शत्रवो द्विजपुङ्गवाः ॥६॥ गृहिणा नावमन्तव्या वैश्वदेवे ह्युपस्थिते ॥ अतिथिं पूजयद्यत्ना

गृहस्थो गृहमागतम् ॥ ७ ॥ उत्थायास्य व्रजन्पूर्वं गोदानफलमाप्नुयात् ॥ आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः ॥ ८ ॥ कृत्वा च कुशलं प्रश्नं बुद्धिमाञ्चायते नरः ॥ पादशौचेन तस्याथ श्रान्तसंवाहनेन च ॥ ९ ॥ वीजनाच्चामरेणापि तालवृन्तेन वीजनात् ॥ पादाभ्यङ्गप्रदानेन दीपदा नेन वाच्यथ ॥ १० ॥ राज्ञो शयनदानेन तथा संवाहनेन च ॥ एकैकस्मादवाप्नोति गोदानफलमुत्तमम् ॥ ११ ॥ उपास्तेनं कथाभिश्च प्रशंसा भो गमाप्नुयात् ॥ संश्राव्य चेतिहासानि तथैनं च तदिच्छया ॥ १२ ॥ नाकलोकम्वाप्नोति गीतनृत्योत्सवादिभिः ॥ पूजयित्वा तथाऽश्नोति गन्धर्वत्वमसंशयम् ॥ १३ ॥ प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते ॥ मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा ॥ १४ ॥ काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात् ॥ प्रताय्य चैनं शीतातं सर्वं सुखमश्नुते ॥ १५ ॥ अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतिर्द्रुतः ॥ आरोग्यरूपलावण्यधन धान्यमुपाश्नुते ॥ १६ ॥ दत्वा सालङ्कृवस्त्राणि ज्ञानानि द्विजसत्तमाः ॥ नासत्यलोकमाप्नोति नात्र कार्या विचारणा ॥ १७ ॥ सुगन्धीनि तथा दत्वा गन्धर्वैः सह मोदते ॥ कंकणस्य प्रदानेन सौभाग्यं महदश्नुते ॥ १८ ॥ अतिथिक्षालनात्पुण्यं दशगोदानजं भवेत् ॥ किमिच्छुकेन संयोज्य वाजपेयफलं लभेत् ॥ १९ ॥ स्वेच्छंतं च प्रदायास्य तदेवाक्षयमश्नुते ॥ सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा ॥ २० ॥ तृप्तोऽतिथियस्य पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः ॥ तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम् ॥ २१ ॥ इति श्रीवि ष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वातिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः ॥ २८९ ॥ ॥ हंस उवाच ॥ ॥ ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ॥ ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्त्रये ॥ १ ॥ अदेवं दैवतं कुर्युः कुर्युर्देवम दैवतम् ॥ ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ॥ २ ॥ ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः ॥ ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्य तमाः सदा ॥ ३ ॥ एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा ॥ ऋषयश्च महाभागाः किम्भूतमधिकं ततः ॥ ४ ॥ यदेव मनुजो भक्त्या ब्राह्म णेभ्यः प्रयच्छति ॥ तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि ॥ ५ ॥ तालवृन्तानिलैनैवं श्रान्तसंवाहनेन च ॥ उन्मार्जनेन गात्राणां तथा प्यञ्जनकर्मणा ॥ ६ ॥ पादशौचप्रदानेन पादयोः शौचनेन च ॥ परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः ॥ ७ ॥ अभिप्रेतमवाप्नोति स्वर्गं लोकं च गच्छति ॥ ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते ॥८॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः॥९॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणस्तुत्या नाम नव

वि० ध० ॥४२८॥ तृ० खं० अ० २९१

त्यधिकद्विशततमोऽध्यायः ॥ २९० ॥ ॥ हंस उवाच ॥ गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥ यथा देवा यथा वेदा ब्राह्मणाश्च यथा द्विजाः ॥ १ ॥ तथा गावो विनिर्दिष्टाः सर्वलोकसुखावहाः ॥ एकैकं ब्राह्मणं ज्ञेयं तयोर्यज्ञः प्रतिष्ठितः ॥ २ ॥ विप्रेषु मन्त्रास्तिष्ठन्ति गोषु सन्तिष्ठते हविः ॥ गवां दानं द्विजश्रेष्ठा दुष्कृतान्यपकर्षति ॥ ३ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिंश्च पञ्चमम् ॥ पवित्रमेतन्निर्दिष्टं नराणां शोधनं परम् ॥ ४ ॥ मङ्गल्याश्च पवित्राश्च रक्षोघ्ना रोचनास्तथा ॥ तासां शुद्धोदकं विप्रा जाह्नवीसलिलोपमम् ॥ ५ ॥ गवां कण्डूयनान्मर्त्यः सर्वं पापं व्यपोहति ॥ तासां ग्रासप्रदानेन महत्पुण्यमवाप्नुयात् ॥ ६ ॥ तासां च प्रचरं कृत्वा तथैव सलिलाशयम् ॥ स्वर्गलोकेषुभास्यन्ति बहून्यब्दगणानि तु ॥ ७ ॥ तासां प्रचारभूमिं तु कृत्वा प्राप्नोति मानवः ॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ ८ ॥ तासामावासथं कृत्वा नगराधिपतिर्भवेत् ॥ तथा लवणदानेन सौभाग्यं महदश्नुते ॥ ९ ॥ आतुरां पङ्कलग्नां वा चौरव्याघ्रभयार्दिताम् ॥ मोक्षयित्वा द्विजश्रेष्ठास्त्वश्वमेधफलं लभेत् ॥ १० ॥ तासामौषधदानेन विरोगस्त्वभिजायते ॥ विप्रमोच्य भयेभ्यश्च न भयं विद्यते क्वचित् ॥ ११ ॥ क्रीत्वा चण्डालहस्ताच्च गोमेधस्य फलं लभेत् ॥ गोपकस्त्वस्वस्य चान्यस्य क्रीत्वा हस्तात्तथैव च ॥ १२ ॥ कृत्वा शीतार्तत्राणं तासां स्वर्गमवाप्नुयात् ॥ उत्थितासूत्थितास्तिष्ठेद्गच्छन्तीरनुधावति ॥ १३ ॥ भुक्तवत्सु च चाश्रीयाज्जले पीते पिवेत्तु च ॥ गोमूत्रेणचरेत्स्नानं गोपुरीषात्तथा बुधैः ॥ १४ ॥ शरीरयात्रां कुर्वीत गोरसैश्च वा द्विजाः ॥ एतद्धि गोव्रतं मासार्त्सवकल्पमनाशनम् ॥ १५ ॥ एकां गां धारयेन्मासं दद्यात्तस्यास्तथा यवान् ॥ गोमयात्तान्समाश्रीय्यान्मासमेकमत्तः शुचिः ॥ १६ ॥ मासांते तां तथा धेनुं दद्याद्विप्राय भक्तिमान् ॥ ऋतमेतत्सुविद्दिष्टं सर्वकल्मपनाशनम् ॥ १७ ॥ राजसूयाश्वमेधाभ्यां ऋतमेतत्तथाधिकम् ॥ व्रतेनानेन चीर्णेन कामानिष्टानवाप्नुयात् ॥ १८ ॥ विमानेनार्कवर्णेन ब्रह्मलोकं च गच्छति ॥ विनापि गोप्रदानेन व्रतमेतन्महाफलम् ॥ १९ ॥ त्रिरात्रं सप्तरात्रं वा शक्तिं ज्ञात्वा तथा स्वकाम् ॥ गवां निहारंनिर्मुक्तैर्वृत्तिं कृत्वा तथा बुधैः ॥ २० ॥ पापमोक्षमवाप्नोति पुण्यं च महदश्नुते ॥ रजश्च गोखुरोद्धूतं सर्वकल्मषनाशनम् ॥ २१ ॥ पादशालात्तथादेशाद्वाह्यात्र कार्या विचारणा ॥ मङ्गल्यं च पवित्रं च तदलक्ष्मीविनाशनम् ॥ २२ ॥ गवां हि परिवासेन भूमिः शुद्धिंमवाप्नुयात् ॥ तद्धि शुद्धं यदा वेश्म यत्र तिष्ठन्ति धेनवः ॥ २३ ॥ तासांनिःश्वासवातेन परं नीराजनं भवेत् ॥ तासां संस्पर्शनं पुण्यं दुःस्वप्नाद्यविनाशनम् ॥ २४ ॥ ग्रीवमस्तकसंस्थौ तु तासां गङ्गा प्रतिष्ठिता ॥ सर्वदेवमया गावः सर्वतीर्थमयास्तथा ॥ २५ ॥ तासां रोमाणि पुण्यानि पवित्राणि तथा द्विजाः ॥ गोमयेनोपलिप्तं तु शुचि स्थानं प्रकीर्तितम् ॥ २६ ॥ अभ्यागारसुरा

॥४२८॥

गारान्गोमयेनोपलेपयेत् ॥ गोमये तु सदा लक्ष्मीः स्वयमेव व्यवस्थिता ॥ २७ ॥ गोमूत्रे च तथा गङ्गा दधिक्षीरघृतेषु च ॥ सदा व्यवस्थितं सोमं रोचनायां सरस्वती ॥ २८ ॥ विष्णुर्यह्वः समाख्यातः स च गोषु प्रतिष्ठितः ॥ तस्माद्गावो विनिर्द्दिष्ट्या विष्णुनेव पुरातनैः ॥ २९ ॥ पूज्यास्तास्तु नमस्यार्याः कीर्त्तनीयाश्च तास्तथा ॥ तासामाहारदानं च कार्यं शुश्रूषणं तथा ॥ ३० ॥ शुश्रूषणेऽथ गवां द्विजेंद्राः प्राप्नोति लोकानमलान्विशोकान् ॥ तस्मात्प्रयत्नेन गवां हि कार्यं शुश्रूषणं धर्मपरैर्मनुष्यैः ॥ ३१ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० मुनित्रये हंसगीतासु गोशुश्रूषा नाम कनवत्यधिकद्विशततमोऽध्यायः ॥ २९१ ॥

हंस उवाच ॥ यो दयावान्स पुरुषो निर्घृणो राक्षसो मतः ॥ राक्षसानामपि घृणा विद्यते द्विजसत्तमाः ॥ १ ॥ निर्घृणाः प्रतिपद्यन्ते घोरं नरकमञ्जसा ॥ वधबन्धपरिक्लेशान्मानुष्येऽथ लभन्ति ते ॥ २ ॥ व्याध्यार्त्ता दुःखिता दीना दरिद्राश्च भवन्ति ते ॥ दयान्विता विराजन्ते नाकमासाद्य मानवाः ॥ ३ ॥ तस्माद्दयावता भाव्यं तृणेष्वपि विपश्चिता ॥ तृणान्यपि सजीवानि तेषां कुर्यान्न पीडनम् ॥ ४ ॥ कीटे पतङ्गे च पशौ दया कार्या तथा मृगे ॥ वर्णोत्तमे वर्णहीने पतिते वर्णसङ्करे ॥ ५ ॥ सर्वत्रैव दया कार्या सर्वकामफलप्रदा ॥ व्रतानामपि सर्वेषां श्रेष्ठमेकं दयाव्रतम् ॥ ६ ॥ दुःखार्तं प्राणिनां किञ्चिद्दुःखान्मोक्षयते द्विज। ॥ बहुदिष्टमफलं प्रोक्तं नात्र कार्या विचारणा ॥ ७ ॥ परिचर्यां तथा कृत्वा सान्त्वयेत्प्राणिनो द्विजाः। ब्रह्मलोकमवाप्नोति दयावान्नेन कर्मणा ॥ ८ ॥ श्लेष्ममूत्रपुरीषाणां व्याधितस्याजुगुप्सकः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ९ ॥ मृतस्य वाप्यनाथस्य न जुगुप्सन्ति ये नराः ॥ कुर्वन्ति चैव संस्कारांस्ते नराः स्वर्गगामिनः ॥ १० ॥ अग्निदाहाज्जलाच्छात्रात्तान्यस्मादुपद्रवात् ॥ प्राणिनो मोक्षणं कृत्वा स्वर्गलोके महीयते ॥ ११ ॥ बन्धनात्प्राणिनः कृत्वा मोक्षणं च तथा द्विजाः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ १२ ॥ यथार्त्ताद्धि प्राणिनं दुःखाद्युक्तो मोक्षयेच्चित् । न तद्दुःखमवाप्नोति यत्रयत्राभिजायते ॥ १३ ॥ सर्वभूतेषु यो दानं चेतसत्त्वं च या दया ॥ सर्वस्वप्रदानाद्धि दया ज्ञेया महाफला ॥ १४ ॥ दयान्वितानां त्रिदशेन्द्रलोका दयान्वितानां च पितामहस्य ॥ दयान्वितानां च समस्तकामा लोकद्वये विप्रवरा प्रदिष्टाः ॥ १५ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दयावर्णनो नाम द्विनवत्यधिकद्विशततमोऽध्यायः ॥ २९२ ॥

॥ हंस उवाच ॥ ॥ दाक्षिण्यं परमं लोके नृणां संवननं परम् ॥ दाक्षिण्ययुक्तस्य तथा परेषां प्रियकारिता ॥ १ ॥ प्रियाण्याचरेते यस्तु परेषां मनुजोत्तमः ॥ समानोति प्रियाण्येन लोकेयोस्मिन्महोर्जसाः ॥ २ ॥ प्रत्यक्षं च परोक्षं च परेषामाचरेत्प्रियम् ॥ प्रियंण विप्रियं हंति प्रियंण प्रियमानुयात् ॥ ३ ॥ मृदुना दारुणं हन्ति मृदुना हंति मार्दवम् ॥ सर्व

वि० ध०तृ० खं० अ० २९६
॥४२१॥॥४२१॥

हि मृदुना हन्ति तस्मात्तीक्ष्णतरो मृदुः ॥ ४ ॥ मृदोरिह वदान्यस्य देवा निघ्नन्ति शात्रवान् ॥ अभिचारः स शत्रूणां नरस्य मृदुता तथा ॥५॥ नरेण मृदुना दग्धा मार्दवेनाभितस्तु ये ॥ न प्ररोहंति ते विप्रा बीजा दग्धा यथा तथा ॥ ६ ॥ दाक्षिण्यमेकं सुभगत्वाहेतुर्दक्षिण्यमेकं त्रिविधस्य हेतुः ॥ दाक्षिण्यमास्थाय जयेद्धरन्तीन्दाक्षिण्ययुक्तस्तु सदा भवेच्च॥७॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दाक्षिण्यवर्णनो नाम त्रिनवत्यधिकदिशततमोऽध्यायः ॥ २९३ ॥ हंस उवाच ॥ ॥ संरोहतीषुभिर्विद्धं वनं परशुना हतम् ॥ वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ १ ॥ मित्राणि यांति शत्रुत्वं नरस्याप्रियवादिनः ॥ अनर्थाः स्वयमयायांति मृतो नरकगच्छति ॥ २ ॥ तस्माद्वाच्यं मनुष्येण स्मितपूर्वाभिभाषिणा ॥ प्रत्यक्षं च परोक्षं च सर्वथा प्रियभाषिणाम् ॥ ३ ॥ मित्रतं यांति रिपवो नराणां प्रियभाषिणाम् ॥ रक्षांस्यपि निगृह्यन्ते पुरुषैः सान्त्ववादिभिः ॥ ४ ॥ प्रियवाक्यात्परं लोके नास्ति संवननं परम् ॥ प्रियो भवति लोकानां प्रियवादी तथा नरः ॥ ५ ॥ प्रियप्रदानां सकलं जगदेतत्तिस्थतं वशे ॥ प्रियवदानां शत्रुत्त्वे नास्ति कश्चिज्जगत्त्रये ॥ ६ ॥ प्रियंवदाः सौम्यमिहाप्नुवंति प्रियंवदा नाकमथ प्रयांति ॥ प्रियंवदाः सर्वमथानुवंति प्रियंवदः स्यादत एव नित्यम् ॥७॥इति श्रीविष्णुधर्मोत्तरे तृ०खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रियवद्प्रशंसा नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ २९४ ॥ हंस उवाच ॥ अलसानां मनुष्याणां सदा दुःखं दरिद्रता ॥ आलस्यं पातकं लोके आलस्यं श्रुतिनाशनम् ॥ १ ॥ नार्चिच्छन्ति मोक्तव्यमलसा ये नराधमाः ॥ अलसानां मनुष्याणां प्राप्नोत्यर्था विन श्यति ॥२॥ तस्मात्त्रित्यं मनुष्येण दाक्ष्यं कार्यं विजानता ॥ दक्षः सर्वमवाप्नोति यत्किञ्चिन्मनसेच्छति ॥ ३ ॥ धर्मे चार्थे च कामे च मोक्षे च द्विजसत्तमाः ॥ भाजनं सर्वकालेषु दक्ष एव सदा नरः॥४॥ अकृष्य दक्षः क्लेशेषु विमुक्त्वामपि च श्रियम् ॥ स्वीकरोति महाभागा दक्षं सर्वं प्रतिष्ठि तम् ॥ ५ ॥ उत्थानधीरः पुरुषो वाग्विगीनधितिष्ठति ॥ उत्थानधीरं वाग्धीरा रमयन्त उपासतै ॥ ६ ॥ उत्थानवानेव दिवं प्रयाति उत्थानवानेव परं पदञ्च ॥ उत्थानवानेव नरो 'जयी स्यात्तस्मात्सदोत्थानपरेण भाव्यम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु उत्थानप्रशंसा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ २९५ ॥ ऋषय ऊचुः ॥ बहिर्विदि त्वमाचक्ष्व पुण्यान्यस्माकमच्युत ॥ त्वया हि ज्ञानदानेन भूय एव स्म वर्धिताः ॥ १ ॥ हंस उवाच ॥ पानीयमेतत्कलं त्रैलोक्यं सचराचरम् ॥ विकारः सलिलस्येदं स्थावरं जङ्गमं तथा ॥२॥ पानीयेन विना वृत्तिर्लोके नास्तिह कर्हिचित् ॥ कृमिकीटपतङ्गानां जलमेव परायणम् ॥ ३ ॥

यत्रोदकं तत्र सुराः सर्व एव प्रतिष्ठिताः ॥ यत्रोदकं तत्र तथा ऋषयश्च महाव्रताः ॥ ४ ॥ दुर्लभं तच्च लोकानां परलोके द्विजोत्तमाः ॥ उदकेन विना वृत्तिर्नास्ति लोकेऽद्य सदा ॥ ५ ॥ तदा जलाशयाः कार्याः पुरुषेण विपश्चिता ॥ अग्निष्टोमसमः कूपस्तत्त्वशंषमंसमं सरः ॥ ६ ॥ कूपः प्रवृत्तपानीयस्त्वधं हरति दुष्कृतम् ॥ कूपकृत्स्वर्गमासाद्य देवभोगान्समश्नुते ॥ ७ ॥ तत्रापि भोगवैकल्यं स्थानाभावान्नचात्र कीर्तितम् ॥ दशकूप समा वापी तथा च परिकीर्तिता ॥ ८ ॥ कृत्वा तडागं च तथा वारुणं लोकमश्नुते ॥ दशवर्षसहस्राणि नलवन्मात्रं द्विजोत्तमाः ॥ ९ ॥ तत्रापि पुण्य माप्नोति स्थानत्यागात्तथा बहु ॥ गवां प्रचारे तत्कृत्वा गोलोकं प्राप्नुयाद् ध्रुवम् ॥ १०॥ शक्रलोकमवाप्नोति तडागकरणात्पथि ॥ मरी तडागे पानीयं यस्य तिष्ठति वै द्विजाः ॥ ११॥ विमानेनानर्कवर्णेन ब्रह्मलोकं स गच्छति ॥ प्रावृट्काले तु पानीयं तडागे यस्य तिष्ठति ॥ १२ ॥ अग्नि ष्टोमफलं तस्य पुरुषस्य प्रकीर्तितम् ॥ द्वादशाहे फलं तस्य शरत्काले तु यस्य वै ॥ १३ ॥ गोमवस्य तु हेमन्ते फलं प्राप्नोति मानवः ॥ पौण्ड रीकफलं तस्य शिशिरे यस्य तिष्ठति॥ १४॥वाजपेयफलं तस्य वसन्ते यत्र च द्विजाः ॥ अश्वमेधफलं तस्य निदाघे यस्य तिष्ठति ॥ १५ ॥ सस्यानां सेचनाथाय नदीवाहे तथा कृते ॥ अश्वद्तः प्राणदश्च त्राणदश्च तथा भवेत् ॥ १६॥ भगीरथस्य लोकांस्तान्समवाप्नोत्यसंशयम् ॥ पानी यशोधनं कृत्वा प्रदेशे देवनिर्मिते॥१७॥ पुरुषः फलमाप्नोति दशगोदानजं द्विजाः ॥ दानपापाणरुचितं सुखसेव्यञ्जलाशयम् ॥ १८ ॥ पुराणं मानवः कृत्वा नाकलोके महीयते ॥ प्रणालिकानां करणात्तृप्तिमाप्नोत्यनुत्तमाम् ॥ १९ ॥ महत्पुण्यमवाप्नोति तथा कृत्वामलं जलम् ॥ तृष्णाप नोदनं कृत्वा चैकस्यापीह देहिनः ॥ २० ॥ महत्फलमवाप्नोति नाकलोके च मोदते ॥ स्वबाहुखातं यः कुर्यात्तडागं मतिमान्नरः ॥ २१ ॥ नत्वात्फलमवाप्नोति राजसूयाश्वमेधयोः ॥ नदीस्नानमवाप्नोति स्नानसेतुर्जलाशये ॥२२॥ बहुलोते ततः (नरः) स्नातो गङ्गास्नानमवाप्नुयात्॥ सरस्तु पुण्यं यः कुर्यात्किञ्चित्तस्य जलाशये॥पुण्यांशभागी भवति यस्य तद्धि जलाशयम्॥२३॥प्राप्नोति तृप्तिं परमां मनुष्यो लोकांस्तथाश्यान्स लिल्लार्थिपश्य ॥ जलाशयेऽल्पेऽपि कृते द्विजेन्द्रास्तस्मात्तु कार्यं सलिलं नुलोके ॥ २४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० संवादे पुनी न्तरिति हंसगीतासु जलाशयनिर्माणो नाम षण्णवत्यधिकद्विशततमोऽध्यायः ॥ २९६॥ हंस उवाच ॥ वृक्षसंरोपणान्मत्र्त्यो महत्फलमुपाश्नुते ॥ गुल्मवल्लीलतानां च रोपणात्पुरुषो द्विजाः ॥१॥ प्रत्येकं फलमाप्नोति गोदाने यत्प्रकीर्तितम् ॥ अभिधेयमवाप्नोति पुष्पवृक्षस्य रोपणात् ॥ २॥ पौण्डरीकमवाप्नोति फलवृक्षस्य रोपणात् ॥ आराममपि यः कुर्यात्तरेषां नामकारणात् ॥ ३ ॥ तथा हरितकार्थं च सोऽश्विमेधफलं लभेत ॥

वि० ध० । बृ० सं० ॥४३०॥ । अ० २४७

पुष्पारामं नरः कृत्वा देवतार्थं मनोहरम् ॥ ४ ॥ देवोद्यानेषु सर्वेषु नन्दनादिषु मोदते ॥ यथाकामं विहारी स्यान्रात्र कार्या विचारणा ॥ ५ ॥ फलारामं ततः कृत्वा विन्दत्यभ्यधिकं फलम् ॥ कृत्वा द्रुमशतारामं सोऽश्वमेधफलं लभेत् ॥ ६ ॥ फले दशशतारामे लक्षारामे च कल्पधृक् ॥ चम्पकं मल्लिकां जातीं श्रेष्ठाः पुष्पकरा मताः ॥ ७ ॥ अन्योऽधिकमवाप्नोति दत्त्वैतानात्र संशयः ॥ गुल्मेषु कथिता श्रेष्ठौ तथोभौ भव्यदा- डिभौ ॥ ८ ॥ पथि श्रेष्ठतमो विप्र्रा वटश्वाश्वत्थ प्रकीर्तितौ ॥ नारङ्गदानाद्भवति नरो रूपसमन्वितः ॥ ९ ॥ बीजपूरकदानेन सौभाग्यं महदाप्नु- यात् ॥ दत्त्वा पालेवताभौ तु तृप्तिमाप्नोत्यनुत्तमाम् ॥ १० ॥ आम्राम्रातकप्रदानेन सर्वकामानवाप्नुयात् ॥ लक्षारामं तु यः कुर्याद्ब्राह्मणाणिह मानवः ॥ ११ ॥ देवोद्यानेषु रम्येषु क्रीडत्यमरसन्निभः ॥ अप्सरोगणः परिवृतो न च तस्मान्निवर्तते ॥ १२ ॥ एकोऽपि रोपितो वृक्षः पुत्रकार्यं करो भवेत् ॥ देवान्प्रसूनैः प्रीणाति छायया चातिथिंस्तथा ॥ १३ ॥ फलैर्मनुष्यान्गृह्णाति नारक्यं नास्ति पादपे ॥ अपि पुष्पफलैर्हीने द्रुमे पान्थस्य विश्रमः ॥ १४ ॥ छायायां स्तोककालेन बहुपुण्यं प्रयच्छति ॥ देवे वर्षति यद्वृक्षात्प्रेमवत् स्रवते जलम् ॥ १५ ॥ तेन तृप्तिमवाप्नोति परलोकेगतो ध्रुवम् ॥ १६ ॥ तेन नाकभवाप्नोति वृक्षरोषयिता नरः ॥ १६ ॥ सेचनादपि वृक्षस्य रोपितस्य परेण तु ॥ महत्फलमवाप्नोति नात्र कार्या विचारणा ॥ १७ ॥ वृक्षायुर्वेद्विधिना व्याधितंस्तु यथाक्रमम् ॥ नीरुजं मानवः कृत्वा स्वर्गलोकमवाप्नुयात् ॥ १८ ॥ शीतवातातपक्लेशं तथा छेदनभेदनै ॥ सहन्ते परमं वृक्षास्तद्धि तेषां महत्त्पः ॥ १९ ॥ पत्रपुष्पफलैर्नित्यं छायया चैव शाखिनः ॥ परेषापुपयुज्यन्ते तद्धि तेषां महत्तपः ॥ २० ॥ तेषां सदा दया कार्या भक्तिः कार्या तथैव च ॥ यस्तेषां भक्तिमाश्रित्य तस्य सा वन्द्वता ॥ २१ ॥ तोषयामा- ति परं तथा कामान्प्रयच्छति ॥ वानस्पत्यं तथा लोकं देहेमद्दे समश्नुते ॥ २२ ॥ वानस्पत्ये शुभे लोके सर्वकामैव शालिताम् ॥ शरीरं यत्तत्प्रतिष्ठन्तं देवता नात्र संशयः ॥ २३ ॥ याः प्रोक्तास्त्वभिमानिन्यः परां शोभामथास्थिताः ॥ याम्यलोके तथा लोके वानस्पत्यं प्रकीर्तितम् ॥ २४ ॥ यमलोकमुपासन्ते सर्वास्ता द्रुमदेवताः ॥ द्रुमारोपयितारं च परलोकमुपागतम् ॥ २५ ॥ दिव्येन गीतनृत्येन रमयन्त उपासिते ॥ रोपितस्य द्रुमस्येह यथा भवति देवता ॥२६॥ याम्ये तु फलदा लोके तथा लोके तु वारुणे ॥ देवता स्यामहाभागाः कृते पुण्ये जलांशये ॥ २७ ॥ कृते शक्तिं तथा सम्प्रब्रह्मलोके तथा द्विजाः ॥ क्षिप्रेमेव महाभागा जायन्ते शाखिदेवताः ॥ २८ ॥ शाखे जलाशय वृक्षं सुवेश्म तथैव च ॥ मृतस्यापि मनुष्यस्य शरीरमिह कीर्तितम्॥२९॥ कीर्त्यते येन चान्येन मानवः स्वर्गमाप्नुयात् ॥ तत्तत्कार्यं मनुष्येण स्वर्गमत्याममीच्छता॥३०॥

॥४३०॥

पुत्राः प्रदिष्टाः पुरुषस्य वृक्षाः स्वयंकृतास्तेस्तु नरेण भाव्यम् ॥ स्नेहेन नित्यं पुरुषं दृशन्ते कामैस्तु दिव्यैः परितर्पयन्ति ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०सं० मुनीन्प्रति हंसगीतासु वृक्षारोपणफलन्निरूपणो नाम सप्तनवत्यधिकद्विशततमोऽध्यायः ॥ २९७ ॥ हंस उवाच ॥ जलेन नाशमायाति यत्र सम्यग्द्विजोत्तमाः ॥ जलोघवारणार्थाय तत्र सेतुं करोति यः ॥ १ ॥ भूमिदाने तु ये लोकाः स तान्प्राप्नोति शाश्वतान् ॥ मार्गसेतुं सुखं कृत्वा वह्निहोमफलं लभेत् ॥ २ ॥ जलप्रतरणे सेतुं यः करोति नरोत्तमः ॥ स तीर्णः सुखदुःखैभ्यः स्वर्गं लोकं प्रपद्यते ॥ ३ ॥ प्रपां पथि तथा कृत्वा नाकलोके महीयते ॥ प्रपास्थानं शुभं कृत्वा स्थानमाप्नोति शाश्वतम् ॥ ४ ॥ तस्य स्थानात्तथा त्यागात्फलवृद्धिः प्रकीर्तिता ॥ तस्योपलेपनं कृत्वा सर्वपापैः प्रमुच्यते ॥ ५ ॥ दत्त्वा रज्जुमपां स्थाने गोदो भवति मानवः ॥ वारियानीं तथा दत्त्वा तदेव फलमाप्नुयात् ॥ ६॥ कुम्भप्रदानाद्भवति सदा पूर्णमनोरथः ॥ प्रपायाञ्च तथा कृत्वा पुरुषं परिचारकम्॥७॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ वर्धमानानि यो दद्यात्प्रपायां द्विजसत्तमाः ॥ ८ ॥ त्रिविधां वृद्धिमाप्नोति तेजसा यशसा श्रिया ॥ लवणस्य प्रदानेन रसानाप्नोति शाश्वतान् ॥ ९ ॥ तत्र हरितदानेन गवां लोकमवाप्नुयात् ॥ १० ॥ फलप्रदानेन तथा वह्निहोमफलं लभेत् ॥ १० ॥ सक्तूनां च प्रदानेन गोसवस्य फलं नरः ॥ गोरसानां प्रदानेन गवां लोकमवाप्नुयात् ॥ ११ ॥ शय्याश्च विविधाः कृत्वा प्रपायामसनानि च ॥ स्वर्गलोकमवाप्नोति मातु ष्ये स्थानमेव च ॥ १२ ॥ कृत्वा निवातं शरणं प्रपास्थाने मनोरहम् ॥ स्वारक्षं लोकमाप्नोति वसूनां नात्र संशयः ॥ १३ ॥ तत्र वह्निं तथा कृत्वा शीतत्राणाय मानवाः ॥ कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं च तथाप्नुयात् ॥ १४ ॥ इन्धनानां प्रदानेन रिपुभिर्नाभिभूयते ॥ तथापि योग्यभाण्डानां दानात्स्वर्गमवाप्नुयात् ॥ १५ ॥ चन्द्रलोकमवाप्नोति स्थापनाच्चुहिनस्य तु ॥ शर्करालोष्टपाषाणकण्टकांश्च तथा नरः ॥ ॥ १६ ॥ मार्गोदपास्य यत्नेन गोदानफलमाप्नुयात् ॥ श्रान्तसंवाहनं कृत्वा तदेव फलमश्नुते ॥ १७ ॥ वीजयित्वा परिश्रान्तं तालेनोदंतेन मानवः ॥ स्कन्धेन श्रान्तमुद्वह्यि वाजपेयफलं लभेत् ॥ १८ ॥ वाहनेनाथ यानेन स्वेन श्रान्तं तथा नयन् ॥ साध्यानां लोकमासाद्य देवभोगादुपाश्नुते ॥ १९ ॥ श्रान्तस्य भोजनं दत्त्वा कामानाप्नोति शाश्वतान् ॥ श्रान्तस्तु तर्पितस्तोयैस्तृप्तिमाप्नोति मानवः ॥ ॥ २० ॥ उपानाहभ्यां छत्रेण श्रान्तं संयोज्य मानवः ॥ स्वाम्यं विषमदेशेषु क्षणाद्वहुफलं लभेत् ॥ २१ ॥ भारश्रान्तात्तथा भारं गृही त्वा वहेत यः यः ॥ कर्मणा तेन विप्रेन्द्राः स्वर्गलोकमुपाश्नुते ॥ २२ ॥ मूल्येन वाहयित्वापि परभारं विचक्षणः ॥ तस्य मूल्यस्य दानेन

वि० ध० तृ० खं० सू० २१९

फलं दशगुणं लभेत् ॥ २३ ॥ रक्षणं पथि यः कुर्यात्तान्यन्यानां मानवोत्तमः ॥ प्राप्ताहुतिमयाद् घोरान्ब्रह्मलोके महीयते ॥ २४ ॥ नदीतीरेषु सन्तार्थे पान्थान्धिश्च तथा नरः ॥ शीघ्रं तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ २५ ॥ सदा शौचं तथा नावं यः करोति नदीतटे ॥ अश्वमेधफलं तेन नरः प्राप्नोति कर्मणा ॥ २६ ॥ सभास्थानानि रम्याणि यः करोति विचक्षणः ॥ उद्यानानि विचित्राणि शक्रलोके महीयते ॥२७॥ प्रक्षणौय प्रदानेन स्मृतिं मंचां च विन्दति॥पान्यानां हि दया कार्या कर्मणा येन केनचित्॥२८॥पान्थस्य पूजां पुरुषस्तु कृत्वा स्थानं समासाद्य पुरंदरस्य॥ थ वा वर्णं पान्थं प्रति विचक्षणैः॥अपेक्षा नैव कर्तव्या पान्थाः पूज्यास्तु सर्वशः॥२९॥पान्थस्य पूजां पुरुपस्तु कृत्वा स्थानं समासाद्य पुरंदरस्य॥ प्राप्नोति पुण्यान्दिवि देवभोगान्पान्थास्ततः पूज्यतमा नृलोके ॥३०॥इति श्रीविष्णुधर्मोत्तरे तृ०खं० मा०सं० मुनिप्रति हंसगीतालु मपाप्रशंसा नामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥ २९८ ॥ ॥ हंस उवाच ॥ ॥ चतुर्धा सर्वपुण्यानां फलमुक्तं मनीषिभिः ॥ कृतानि विधिवन्नानि वञ्चनार्थं परस्य वा ॥ १ ॥ क्रोधेलोभाभिभूतेन तामसानि विनिर्दिशेत् ॥ कृतानि परमानेन राजसानि भवन्ति तु ॥ २ ॥ सात्त्विकानि भव न्तीह श्रद्धया परया द्विजाः ॥ गुणान्तराणि विज्ञाय विधिकामं कृतानि तु ॥ ३॥ तामसानां फलं भुंक्ते तिर्यक्त्वे मानवः सदा ॥ वर्णसंकरभावेन वार्धक्ये यदि वा पुनः ॥ ४ ॥ बाल्ये वा दासभावे वा नात्र कार्या विचारणा ॥ अतोऽन्यथा तु मानुष्ये राजसानां फलं लभेत् ॥ ५ ॥ सात्त्वि कानां फलं भुंक्ते देवत्वे नात्र संशयः ॥ गुणोत्तरकृतानाञ्च फलमोक्ष उदाहृतः ॥ ६ ॥ कर्मणां धनसाध्यानां धनञ्च त्रिविधं स्मृतम् ॥ कृष्णञ्च शबलञ्चैव शुक्लं द्विजसत्तमाः ॥ ७ ॥ त्रिविधस्य फलं तस्य त्रिविधं परिकीर्तितम् ॥ कृष्णेन यत्कृतं किञ्चित्किल्विषं तद्धि भुञ्जते ॥ ८ ॥ वर्णानां हि धनं शुक्लमुर्जितं यत्स्वकर्मणा ॥ शबलन्तु समुद्दिष्टं तथानन्तरकर्मणा ॥ ९ ॥ वर्णातितमस्य हीनस्य कर्मणा कृष्णमुच्यते ॥ तथापि शुक्लं वक्ष्यामि वर्णानान्तु द्विजोत्तमाः ॥ १० ॥ प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा ॥ गुणान्वितेभ्यो विप्रस्य शुक्लं तत्रिविधं धनम् ॥ ११ ॥ युद्धोपलब्धं कारञ्च दण्डाच्च व्यवहारतः ॥ क्षत्रियस्य धनं शुक्लं त्रिविधं परिकीर्तितम् ॥ १२ ॥ कृषिवाणिज्यगोरक्षाः कृत्वा शुक्लं तथा विशः ॥ द्विजशुश्रूषया लब्धं शुक्लं शूद्रस्य कीर्तितम् ॥१३॥ न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्धुषम् ॥ वृषलः कर्म वा ब्रातं पतनीयतरेतरम् ॥ १४ ॥ (उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ॥ मध्यमे कर्मणी हित्वा सर्वसाधारणे हिते॥ १५॥संक्षेपमेवं वर्णानां वक्ष्यामि विविधं धनम्॥) पार्थिकं द्यूतचौर्यात्तु प्रतिरूपकसाहसैः ॥ १६ ॥ व्याजेनोपार्जितं यत्तत्सर्वं कृष्णमुच्यते ॥ शिल्पाद्युद्बुद्धया यत्प्राप्तं कुसीदेन तथा धनम् ॥ १७ ॥ कृतो

॥४३१॥ ॥४३१॥

पकारादात्तं च शबलं समुदाहृतम् ॥ क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ॥ १८ ॥ अविशेषेण सर्वेषां धनं शुक्लगुदाहृतम् ॥ शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ॥ १९॥ न्यायागतेनाथ धनेन विद्वान्पुण्यानि कृत्वा दिवि देवभोगान् ॥ चिरं समश्नाति महाप्रभावो न्यायेन तस्माद्धर नमर्जनीयम् ॥२०॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा०सं० मुनीन्प्रति हंसगीतासु धनविचारो नाम नवनवत्युत्तरद्विशततमोऽध्यायः ॥२९९॥ हंस उवाच ॥ दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजाः ॥ दानेन कामानाप्नोति यान्काँश्चिन्मनसेच्छति ॥ १ ॥ अदत्तदानात्कृपणा दृष्ट्वेह परतन्त्रतान् ॥ पारत्रिकं धनं कुर्याद्दानं विप्रेषु मानवः॥२॥अमुख्ये समं दानं गोषु ज्ञेयं महाफलम् ॥ द्विगुणं च तदर्द्धोक्तं तथा वै वर्णसङ्करे ॥ ॥ ३ ॥ शूद्रे चतुर्गुणं प्रोक्तं विशि चाष्टगुणं भवेत् ॥ क्षत्रिये षोडशगुणं ब्रह्मबन्धौ तदेव तु ॥ ४ ॥ द्वात्रिंशता स्मृतं दानं वेदाध्ययनतत्परे ॥ शतधा तद्विशिष्टे तु प्राधीते लक्षसम्मितम् ॥ ५ ॥ अनन्तं च तदेवोक्तं ब्राह्मणे वेदपारगे ॥ आत्मनस्तु भवेत्पात्रं नान्यस्य तु पुरोहितः ॥ ६ ॥ पुरोहिते तु स्वं दत्तं दानमक्षयमुच्यते ॥ याजके ऋत्विजे चैव गुरावपि च मानवः ॥ ७ ॥ वर्णोपेक्षा न कर्तव्या मातरं पितरं प्रति ॥ मातृष्वसां स्वसां चैव तथैव च पितृष्वसाम् ॥ ८ ॥ मातामहीं भागिनेयीं भागिनेयं तथैव च ॥ दौहित्रं विट्पतिं चैव तेषु दत्तमथाक्षयम् ॥ ९ ॥ श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षयमुच्यते ॥ स्थानभ्रष्टस्य यः कुर्याद्भूयस्त्वारोपणं नरः ॥ १० ॥ नाकलोकमावाप्नोति चिरन्तेनेह कर्मणा ॥ भूपालं यश्च्युतं राज्यात्स्वराज्ये स्थापयेत्पुनः ॥ ११ ॥ स याति शक्रसालोक्यं यावच्छक्राश्चतुर्दश ॥ ततो मानुष्यमासाद्य राजा भवति धार्मिकः ॥ १२ ॥ तस्माद्दानं श्रीहीनं दातव्यं भूतिमिच्छता ॥ श्रीविहीनेषु यद्दत्तं तदनन्तं प्रकीर्तितम् ॥ १३ ॥ काले पात्रे तथा देशे धनं न्यायागतं तथा ॥ यद्दत्तं ब्राह्मणश्रेष्ठेरास्तदनन्तं प्रकीर्तितम् ॥ १४ ॥ द्वादशीषु तु यद्दत्तं शुक्लासु तु विशेषतः ॥ श्रवणेन तु युक्तासु तत्रापि द्विजसत्तमाः ॥ १५ ॥ विशेषाच्छुक्लपक्षेषु पक्षान्तेषु च यत्तथा ॥ तृतीयासु तु शुक्लासु सर्वासु च विशेषतः ॥ १६ ॥ वैशाखशुक्लपक्षे तु विशेषेण च मानदाः ॥ आषाढे कार्त्तिके चैव फाल्गुने च विशेषतः ॥ १७ ॥ तिलस्तैल्वाः पौर्णमास्यां दाने विप्रा महाफलाः ॥ व्यतीपातेषु यद्दत्तं जन्मर्क्षे तु द्विजोत्तमाः ॥ १८ ॥ बृहत्संक्रमकाले तु त्यागे च मिथुनस्य तु ॥ रवेर्महाफलं दत्तन्तेभ्योऽपि स्यान्महाफलम् ॥ १९ ॥ यदा प्रविशते भानुर्मकरं द्विजसत्तमाः ॥ आपाढेऽथयुजे पौषे चैत्रे शुक्के तथैव च ॥ २० ॥ द्वादशीप्रभृति प्रोक्तं पुण्यं दिनचतुष्टयम् ॥ मिथुनं च तथा कन्या धन्विर्न मीनमेव च ॥ २१ ॥ प्रविशेद्भास्करं पुण्यं प्रत्येकं कथितं द्विजाः ॥ षडशीतिमुखं नाम दाने दिनेचतुष्ट

वि० ध० ॥४३२॥ तृ० द्वि० अ० ३०१

ष्ट्यम् ॥ २२॥ अच्छिद्रनाड्यां यद्दत्तं पुत्रे जाते द्विजोत्तमाः ॥ संस्कारेषु च पुत्रस्य तदक्षय्यं प्रकीर्तितम् ॥ २३ ॥ चन्द्रे वा यदि वा सूर्ये दृष्टे राहो महाग्रहे ॥ अक्षय्यं कथितं दत्तं तत्राप्यर्के विशेषतः ॥ २४ ॥ पुष्करेषु प्रयागे च प्रभासे नैमिषे तथा ॥ धर्मारण्ये गयायाञ्च तथ्वामरकण्टके ॥ २५ ॥ गङ्गाद्वारे कुशावर्ते विल्वके नीलपर्वते ॥ तथा कनखले तीर्थे शालिग्रामे तथैव च ॥ २६ ॥ वाराणस्यां सरस्वत्यां गङ्गासागरसङ्गमे ॥ सिन्धुसागरसञ्चौ च त्रितकूपे तथानघाः ॥ २७ ॥ पुष्प्रप्लवने पुण्ये चमसन्मज्जने तथा ॥ महालयेऽथ केदारे भृगुतुङ्गे तथैव च ॥ २८ ॥ दीना मानसे च तथा पुण्ये तथैवोत्तरमानसे ॥ एतेष्वन्येषु च तथा दधितीर्थेषु यद्भवेत् ॥ २९ ॥ निम्नागानां च तीर्थेषु ज्ञेयं बहुफलं हि तत् ॥ दीना न्धकृपणानाथाविगतेष्विषु यत्तथा ॥ ३० ॥ विकलेषु तथाऽन्येषु जडवामनपङ्गुषु ॥ रोगार्त्तिषु च यद्दत्तं तस्याह्वद्धफलं धनम् ॥ ३१ ॥ यद्दत्तं धर्मसाहाय्ये क्रियमाणे तथा कृतौ ॥ विवाहकरणार्थाय तदक्षयं प्रकीर्तितम् ॥ ३२ ॥ यत्प्रत्तेन तु वित्तेन नरः स्यात्सुखसंव्र सुखे ॥ उत्पन्नानां स भागी स्याद्धन तत्राभिजायते ॥ ३३ ॥ यद्दत्तेन च वित्तेन व्यसनादुत्तरेत्पुरः ॥ न स किञ्चिदवाप्नोति व्यसनं मनुजोत्तमः ॥ ३४ ॥ क्रियं मेषवजं चैव गामश्वं तुरगङ्खरम् ॥ ३६ ॥ विक्रयं तु समापन्ना यो दत्त्वा जीवदक्षिणाम् ॥ एवं काले च पात्रे च देशे श्रद्धागमं धनम् ॥ ३७ ॥ स्यात्तदा दातृद्विजोत्तमाः ॥ ३६ ॥ विक्रयं तु समापन्ना यो दत्त्वा जीवदक्षिणाम् ॥ एवं काले च पात्रे च देशे श्रद्धागमं धनम् ॥ ३७ ॥ दत्त्वा धनमवाप्नोति देवब्राह्मणक्षत्रियान् ॥ धनं बहिश्शराः प्राणा घने सर्वं प्रतिष्ठितम् ॥ ३८ ॥ धनाद्दत्तं तथाऽन्नेन सर्वं जीवति वै जनः ॥ यावन्ति लोके पुण्यानि तेभ्यो दाता विशिष्यते ॥ दानेन तदवाप्नोति यत्किञ्चिन्मनसिस्थितम् ॥ ३९ ॥ दानेन लोकं नियतानुपैति दानेन नाकं पुरुषः प्रयाति ॥ मानुष्यमासाद्य च दानशीलो भोगानवाप्नोति मनोरमानान ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतोत्सु दानप्रशंसा नाम त्रिशततमोऽध्यायः ॥ ३०० ॥ ऋषय ऊचुः ॥ सर्वधर्मभृतां श्रेष्ठ विधिं वक्ष्यं प्रचित्सिं ॥ बाल ण्णानां समाचक्ष्व त्वं हि वेदमयो निधिः ॥ १ ॥ ॥ हंस उवाच ॥ ॥ सूतके मृतके विप्रा न तु देयः प्रतिग्रहः ॥ तथापि च तथा देया या स्यादभयदक्षिणा ॥ २ ॥ रात्रौ दानं न शंसन्ति विना त्वभयदक्षिणाम् ॥ विधवा कन्यां.द्विजश्रेष्ठा दीपान्नं प्रतिश्रयम् ॥ ३ ॥ राज्ञापि हितं देयं पश्चाद्यत्कथितं पुरा ॥ पूजने त्वतिथीनां च पान्थानामपि पूजने ॥ ४ ॥ तन्न रात्रौ तथा ज्ञेयं गवाङ्कुक्रे च पूजने ॥ कालः सर्वो विनिर्दिष्टः पात्रः सर्वेश्च मानदाः ॥ ५ ॥ अभयस्य प्रदाने तु नात्र कार्या विचारणा ॥ शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम् ॥ ६ ॥ शुचिनाऽशुचिना

॥४३२॥

वापि ग्राह्या त्वभवद्दक्षिणा ॥ कालः स एव ग्रहणे यदा भयमुपस्थितम् ॥ ७ ॥ प्रतिग्रहणयान्यानि ग्राह्याणि शुचिना सदा॥ सूतके मृतके चैव न ग्राह्याणि द्विजोत्तमाः ॥ ८ ॥ अभ्यक्तेन च धर्मज्ञास्तथा मुक्तशिखेन च ॥ स्नाताः सम्यगुपस्पृश्य गृहीतपात्रयतः शुचिः ॥ ९ ॥ तोयं दद्या त्तथा दाता दाने विधिरयं स्मृतः ॥ प्रतिग्रहीता सावित्रीं सर्व्वत्रैव तु कीर्त्तयेत् ॥ १० ॥ ततस्तु कीर्त्तयेत्साधुं द्रव्येण द्रव्यदेवताम् ॥ समापयेत्ततः पश्चात्कर्मस्तुत्या प्रतिग्रहम् ॥ ११ ॥ प्रतिगृह्यं पठेद्बुधैः प्रतिगृह्य द्विजोत्तमः ॥ मन्दं पठेत्तु राजन्याद्वैशांच तथा विशः ॥ १२ ॥ मनसा तु तथा शूद्रात्स्वस्तिवाचनिकं तथा ॥ सोंकारं ब्राह्मणे कुर्यान्निराकारं महीपतौ ॥ १३ ॥ उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तितम् ॥ अभयं सर्व्वदैवत्यं भूमिर्वै विष्णुदेवता ॥ १४ ॥ कन्यादानं तथा दासी प्राजापत्याः प्रकीर्त्तिताः ॥ तथा चैकाश्वं सर्व्वं कथितं यमदैवतम् ॥ १५ ॥ महिषं च तथा साम्यं चौष्ट्रं वै नैर्ऋतं भवेत् ॥ रौद्री धेनुर्विनिर्द्दिष्टा छागावाग्नेयमुच्यते ॥ १६॥ मेषं तु वारुणं विद्याद्राहो वैष्णवः स्मृतः॥ आरण्याः सर्व्व कथिता वायुदेवताः ॥ १७ ॥ जलशय्यानि सर्वाणि वारुणानी कमण्डलुः ॥ कुम्भं च करकं चैव वाहनानि द्विजोत्तमाः ॥ १८ ॥ समुद्रजानि रत्नानि वारुणानि द्विजोत्तमाः ॥ अग्नेयं कनकं प्रोक्तं सर्व्वलोहानि चाप्यथ ॥ १९ ॥ प्राजापत्यानि सत्यानि पशूनामपि च द्विजाः ॥ ज्ञेयानि सर्व्वगन्धानि गान्धर्वाणि विचक्षणैः ॥ २० ॥ बार्हस्पत्यं स्मृतं वासः सौम्ययान्यथ रसानि च ॥ पक्षिश्चैव तथा सर्व्व वायव्याः परिकीर्त्तिताः ॥ २१ ॥ विद्या ब्राह्मी विनिर्द्दिष्टा विद्योपकरणानि च ॥ सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पण्डितैः ॥२२॥ सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु देवता ॥ दुमाणा मथ पुष्पाणां शाकद्यास्तिकैः सह ॥ २३ ॥ फलानांमपि सर्वेषां तथा ज्ञेयो वनस्पतिः ॥ मयस्यान्नं विनिर्द्दिष्टं प्राजापत्यं तथैव च ॥ २४ ॥ छत्रं कृष्णाजिनं शय्या रथमासनमेव च ॥ उपानहौ तथा यानं वन्चान्यत्प्राणिवर्जितम् ॥२५॥ उपानानीद्विरसे त्वेत त्प्रतिगृह्णीत मानवः ॥ पर्जन्याय तथा सौरं शस्त्रमर्कध्वजादिकम् ॥ २६ ॥ रणोपकरणं सर्वं कथितं चक्रदैवतम् ॥ गृहन्तु सर्व्वदैवत्यं यद्यद्भक्तै द्विजोत्तमाः ॥ २७ ॥ तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा द्विजसत्तमाः ॥ भूमेः प्रतिग्रहं कुर्य्याद्भूमिं कृत्वा प्रदक्षिणम् ॥ २८ ॥ करे गृह्य तथा कन्यां दासीदासी द्विजोत्तमाः ॥ करन्तु हृदि विन्यस्य धम्म्यो ज्ञेयः प्रतिग्रहः ॥ २९ ॥ आरूह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्तितः ॥ तथा चैकशा फानां च सर्वेषामविशेषतः ॥ ३० ॥ प्रतिगृह्णीत गां पुच्छे हन्ते कृष्णाजिनं तथा ॥ कर्णोऽजाः पशवश्चान्ये ग्राह्याः पुच्छे विचक्षणैः ॥ ३१ ॥ प्रतिग्रहस्थथोभूस्त्व आरूढ्यैव तथा भवेत् ॥ बीजानां मुष्टिमादाय रत्नान्यदाय सर्वतः ॥ ३२ ॥ वसुं दशान्तादादद्यात्तरिक्षायथ वा पुनः ॥ ७२

वि० ध० ॥४३॥ तृ० सं० अ० ३०२

आरूढोद्यानहौ मन्त्रमारुहेच्च व पादुके ॥ ३३ ॥ ईषाधस्तु रथं ग्राह्यं छत्रं दंडे तु वाचयेत् ॥ द्रव्याणामथ सर्वेषां मूले न्यस्तकरो द्विजः ॥ ३४ ॥
आयुधानि समादाय तथोन्मुच्य विभूषणम् ॥ वर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम् ॥३५॥ अवतीर्य तु सर्वाणि जलस्थानानि वै द्विजाः॥
द्रव्याण्यन्यान्थ्यादाय स्पृष्ट्वा तु ब्राह्मणः पठेत् ॥ ३६ ॥ कन्यादाने तु च पठेद्द्रव्याणान्तु पृथक्पृथक् ॥ प्रतिग्रहे द्विजश्रेष्ठाइत्सर्वेत्रान्तर्भवन्ति ते
॥ ३७ ॥ द्रव्याणामथ सर्वेषां द्रव्यसंश्रवणान्तराः ॥ वाच्येज्जलंमादाय करेणाथ प्रतिग्रहम् ॥ ३८ ॥ प्रतिग्रहस्य यो धर्म्म न जानाति द्विजो
विधिम् ॥ द्रव्यैस्तैन्त्यसमायुक्तो नरकं प्रतिपद्यते ॥ ३९ ॥ निष्क्रीणाति तु तद्द्रव्यं ब्राह्मणस्तु प्रतिग्रहात् ॥ विधिं तु धर्म्म विज्ञाय ब्राह्मणस्तु
प्रतिग्रहे ॥ ४० ॥ आत्मनः श्रेयसा योगं कुर्याद्दाता तथैव च ॥ भुवं धेनुमथाश्वं च रत्नानि कनकं तथा ॥ ४१ ॥ तिलानि कुञ्जरं दद्याद्भाविक्षाय
ज्ञाय गुणगुणान् ॥ आनृशंस्येन सर्वस्य दद्याद्वनं विचक्षणः ॥४२॥ वासश्च दद्यात्सर्वस्य सर्वसाधारणे हिते ॥ विधिं धर्म्ममविज्ञाय यस्तु कुर्या-
त्प्रतिग्रहम् ॥ ४३ ॥ दात्रा सह तरेन्नेव नैव दुर्गाण्योऽसौ द्विजाः ॥ तस्मात्सर्वप्रयत्नेन विधिज्ञैयः प्रतिग्रहे ॥ ४४ ॥ प्रतिग्रहो यो विधिना गृहीतो
दद्यात्तु योगं परमेण कुर्यात् ॥ पत्र संत्युत्य तथैह लोके स श्रेयसे नात्र विचारमस्ति ॥ ४५ ॥ इति श्रीविष्णुधर्म्मोत्तरे तृ०खं मा०सं०मुनी-
न्वति हंसगीतासु प्रतिग्रहविधिर्वर्णनो नामैकोत्तरिशतरात्ततमोऽध्यायः ॥ ३०१ ॥ ऋषय ऊचुः ॥ पृथक्पृथक् त्वयाऽद्यैव दानानां फलमुक्त-
मम् ॥ सर्वधर्म्मभृतां श्रेष्ठ सर्वज्ञस्त्वं मतो हि नः ॥ १ ॥ ॥ हंस उवाच ॥ ॥ अभयस्य प्रदानाद्धि नान्यद्दानं विशिष्यते ॥ सर्वधर्म्ममव
दानानां प्राणदानं विशिष्यते ॥ २ ॥ ग्राह्यं प्राणप्रदानन्तु चण्डालात्पुक्कसादपि ॥ जीवन्सर्वमवाप्नोति जीवन्धर्म्म करोति च ॥ ३ ॥
जीवमानस्तु पुरुषः कामानां भाजनं भवेत् ॥ भाजनेन तु सर्वं वै भाजनत्वं विनश्यति ॥ ४ ॥ शरीरधर्म्मसर्वस्वं रक्षणाय प्रयत्नतः ॥
शरीरात्स्रवते धर्मं पर्वतात्सलिलं यथा ॥ ५ ॥ अभयस्य प्रदानेन नरः स्यात्सर्वकामदः ॥ अश्वमेधफलं तस्य यो रक्षेच्छरणागतम्
॥ ६ ॥ शरणागतं तु सन्त्यज्य यो नरः पुरुषाधमः ॥ बह्व्यब्दसहस्राणि नरकं प्रतिपद्यते ॥ ७ ॥ नकञ्च तथा भुक्तिक्तिर्यग्यौनिषु
जायते ॥ तत्रापि च तथाप्नोति वधन्धान्यैश्चनेकशः ॥ ८ ॥ देवान्मानुष्यमासाद्य चण्डालत्वमवाप्नुयात् ॥ व्याधिबन्धवधैर्घोरैस्तत्रापि सच
युज्यते ॥ ९ ॥ परित्राणं तु यः कुर्याद्भीतस्य शरैषिणः ॥ स एकः पुरुषो लोके सर्वधर्म्मभृतां वरः ॥ १० ॥ वधभीतस्य
यः कुर्यात्परित्राणं नरोत्तमः ॥ शक्रलोकैः स्तुतस्तस्य यावदिन्द्राश्चतुर्दश ॥ ११ ॥ तमःप्रवेशभीतस्य परित्राणेन मानवः ॥

॥४३॥

ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥ १२ ॥ वधादपि परं पापं चक्षुषा तु नियोजयेत् ॥ पार्थिवेन न तत्कार्यं कदाचिदपि कस्यचित् ॥ ॥ १३ ॥ तमःप्रवेशनं कृत्वा परेषां पुरुषाधमः ॥ अन्धत्वं ध्रुवमाप्नोति यत्रयत्राभिजायते ॥ १४ ॥ अपि कल्पसहस्राणि तमसा न विमुज्यते ॥ अङ्गच्छेदनभीतस्य कृत्वा त्राणमनिन्दिताः ॥ १५ ॥ रुद्रलोकमवाप्नोति कल्पशेषमिति श्रुतिः ॥ कल्पार्द्धसंगे भवति ज्ञान युक्तो नरस्ततः ॥ १६ ॥ कृत्वा बन्धनभीतस्य परित्राणन्नरोत्तमः ॥ सर्वबन्धविनिर्मुक्तो वायुलोके महीयते ॥ १७ ॥ आसेवनाद्धि भीतस्य त्राणं कृत्वा तथा नरः ॥ सर्वदुःखविनिर्मुक्तः साध्यानां लोकमाप्नुयात् ॥ १८ ॥ ताडनाद्यस्तु भीतस्य परित्राणं समाचरेत् ॥ सर्वबन्धविनिर्मुक्तो भृगूणां लोकमश्नुते ॥ १९ ॥ विवासनाच्च भीतस्य त्राणं कृत्वा तथा नरः ॥ स्वर्गलोकमवाप्नोति मानुषे स्थानमुत्तमम् ॥ ॥ २० ॥ धनापहरणभीतस्य त्राणं कृत्वा नरोत्तमः ॥ स्वर्गलोकमवाप्नोति पूजां देवगणात्तथा ॥ २१ ॥ नरः कृतपरित्राणः पुण्यं किञ्चि द्धद्याचरेत् ॥ भागी तस्य परित्राता नरः पुण्यस्य कर्मणः ॥ २२ ॥ पशूनाञ्च मृगाणाञ्च पक्षिणाञ्च तथा द्विजाः ॥ तृणद्रुमलतानाञ्च त्राणा द्भवति नाकभाक् ॥ २३ ॥ वधकस्य हस्तगतं पशुं क्रीत्वा करोत्यसौ ॥ नाकेलोकमवाप्नोति सुखी सर्वत्र जायते ॥ २४ ॥ यावन्ति पशु रोमाणि तावद्वर्षाणि मानवः ॥ स्वर्गलोकमवाप्नोति यश्च त्राणं करोत्यसौ ॥२५॥ अपि कीटपतङ्गस्य त्राणात्सर्वमवाप्नुयात् ॥ बह्वन्यद्वसहस्राणि नात्र कार्या विचारणा ॥२६॥ चौरग्रस्तं नृपग्रस्तं रिपुग्रस्तं तु मोक्षयेत् ॥ व्याघ्रग्रस्तं तथा विप्राः सोऽश्वमेधफलं लभेत्॥२७॥विषमे तु तथा दुर्गे सलिले वा हुताशने॥निमग्नं यः परित्रायेतसोऽश्वमेधफलं लभेत्॥२८॥व्याधितांस्तथ्योपचं दत्वा प्राणदानफलं लभेत्॥रोगातं परिचर्याथ प्राणदानफलं लभेत ॥ २९ ॥ उपचारं तथा कृत्वा भिषङ् मूल्यं विना द्विजाः ॥ प्राणदानफलं तस्य नाकलोके महीयते ॥ ३०॥ये रक्ष्यमाणा निहता मनुष्या भीरूद्गतास्ते त्रिदशेन्द्रलोकम् ॥ च्यवन्ति नाद्यापि च ते नृवीराः कालेऽपि तेषां च्यवनं न चास्ति ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वभयदानप्रशंसावर्णनो नाम द्वयधिकत्रिशततमोऽध्यायः ॥ ३०२ ॥ ॥ हंस उवाच ॥ विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमम् ॥ विद्यादानात्परं दानं न भूतं न भविष्यति ॥ १ ॥ विद्यावान्सर्वकामानां भाजनं पुरुषो भवेत् ॥ तस्माद्विद्यां हि ददता सर्वं दत्तं भवेदिह ॥ २ ॥ पराध्यापनतः कृशं पुरुषस्तु यदश्नुते ॥ तपस्तत्परमं तस्य ब्रह्मलोकं परं स्मृतम् ॥ ३ ॥ दानानामुत्तमं लोके तपसा च तथोत्तमम् ॥ विद्यादानं महाभागाः सर्वकामफलप्रदम् ॥ ४ ॥ वेददानादवाप्नोति सर्व

वि०ध० ॥४३४॥

यक्षफलं नरः ॥ उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥ ५ ॥ वेदज्ञानां च दानेन शक्रलोकमवाप्नुयात् ॥ धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥ ६ ॥ सिद्धान्तानां प्रदानेन मोक्षमप्नोत्यसंशयम् ॥ शास्त्राणि दत्त्वा चान्यानि नरो नाके महीयते ॥ ७ ॥ विद्यादानादवाप्नोति प्रदानात्पुस्तकस्य च ॥ शिल्पानि शिक्षयेश्चैस्तु पौण्डरीकफलं लभेत् ॥ ८ ॥ शिक्षयित्वा धनुर्वेदंश्वमेधफलं लभेत् ॥ शिल्पभाण्डप्रदानेन शिल्पदानफलं लभेत् ॥९॥ आहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम् ॥ विद्यादानफलं प्रोक्तं नात्र कार्या विचारणा ॥१०॥ वापप्रवृत्तस्य तथा नरः कृत्वा निवारणम् ॥ विद्यादानफलं प्राप्य स्वर्गलोके महीयते ॥ ११ ॥ शिक्षयेत्पुरुषः कर्म कर्मणा येन जीवति ॥ शिक्ष यित्वा महाभागाः स्वर्गलोके महीयते ॥ १२ ॥ येन जीवति भाण्डेन तस्य भाण्डस्य दायकः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ १३॥ अन्तर्वन्तीह दानानि सर्वाण्येव द्विजोत्तमाः ॥ एकं महाफलं ज्ञेयं विद्यादानमनन्तकम् ॥ १४ ॥ विद्यां यश्चैद्यं पुरुषस्य दत्त्वा मन्त्रं शुभं वाप्यथ वापि शिल्पम् ॥ शिल्पस्य भाण्डं यदि वा द्विजेन्द्राः प्राप्नोति लोकं मनसा त्वभीप्सम्॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० पुं० दुर्नीनीति हंसगीतासु विद्यादानफलानिरूपणो नाम त्र्यधिकशततमोऽध्यायः॥३०३॥ हंस उवाच ॥ ब्राह्मत्यां तु यः कन्यां पुरस्य प्रयच्छति ॥ सतांस्तिता न्वयिष्याँश्च स्वकुले सप्त मानवान् ॥१॥ तेन कन्याप्रदानेन तारयिष्यत्यसंशयम् ॥ लोकमाप्नोति च तथा दक्षस्येह प्रजापतेः ॥ २ ॥ दत्त्वा देवेन विधिना कुलं त्रिपुरुषं नरः ॥ समुद्धरति दुर्गेभ्यो दक्षलोके च गच्छति ॥३॥ प्राजापत्येन विधिना दत्त्वात्मानं समुद्धरेत् ॥ महत्पुण्यमवाप्नोति स्वर्गलोके च गच्छति ॥ ४ ॥ शृङ्गारिन्द्राश्वदानानि गोदानञ्च तथैव च ॥ अन्तर्भवन्ति वै यस्मिन्क दानमधिकं ततः ॥ ५ ॥ दत्त्वा तां वर्णही नाय घोरे तमसि मज्जति ॥ बह्वब्बुदसहस्राणि तथैवाशुचिभुङ्नरः॥६॥ समावर्याय यो दद्यात्स तूर्णफलभाग्भवेत् ॥ दत्त्वा चाधिकवर्गाय द्विगुणां त्रिगुणां तथा ॥ ७ ॥ द्विगुप्रप्रमनांथ यः संस्कुर्याच्चैव कर्मभिः ॥ चूडोपनयनाद्यैश्च सोऽश्वमेधफलं लभेत् ॥ ८ ॥ अनाथां कन्यकां दत्त्वा सहशी वाधिके वरे ॥ द्विगुणं फलमाप्नोति कन्यादाने पदीरितम् ॥ ९ ॥ विवाहे समनुप्राप्ते कृत्त्वोपकरणानि च ॥ नाकलोकमवाप्नोति कर्मस्वन्येष्वपि द्विजाः ॥ १० ॥ वस्त्रं पत्रमलङ्कारं विवाहार्थं प्रयच्छति ॥ महत्फलमवाप्नोति नाकलोके महीयते ॥ ११ ॥ कन्यया सह यद्दत्तं द्रविणं वलिप्तु लोके ॥ सफलाद्धिगुणं तस्य फलमुक्तं पुरातनैः ॥ १२ ॥ कन्यादानादवाप्नोति दक्षलोके नरोत्तमः ॥ विष्णुपूजासमं पुण्यं तत्फल्लुः पूजया भवेत् ॥ १३॥ विमानमारुह्य मनोभिरामं सुराङ्गनागीतविलासन्द्यम् ॥ प्राप्नोति लोकांस्त्रिदशोत्तमानां कन्याप्रदो नात्र विचारणास्ति ॥ १४ ॥

तृ० खं० अ० ३०४ ॥४३४॥

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु कन्यादानफलानिरूपणो नाम चतुरधिकत्रिशततमोऽध्यायः ॥ ३०४ ॥ हंस उवाच ॥ भूमिर्धात्री विधात्री च भूमौ सर्वं प्रतिष्ठितम् ॥ भूमिर्हि माता सर्वस्य सर्वकामप्रदा वरा ॥ १ ॥ तदुत्सृष्टेन हविषा तृप्तिं मायान्ति देवताः ॥ भूमिर्हि धारणी विप्रायैलोक्यस्य निगद्यते ॥ २ ॥ भूमौ हि सर्वं भवति भूमौ सर्वं प्रतिष्ठितम् ॥ सर्वकामप्रदं ज्ञेयं भूमिदानं नरोत्तम ॥ ३ ॥ हस्तमात्रां तु यो दद्याद्भुवं पुरुषसत्तम ॥ तेनैव ध्रुवमाप्नोति भूमिदानफलं नरः ॥ ४ ॥ गृहपक्ष्मभारपातिं नरः संवत्सरं द्विजाः ॥ एकं गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ॥ ५ ॥ ब्राह्मणाय ततो दत्वा वसूनां लोकमाप्नुयात् ॥ शाकभूमिं ततो दत्त्वा लोकमाङ्गिरसं ब्रजेत ॥ ६ ॥ आरामभूमिं दत्त्वा च मारुतं लोकमश्नुते ॥ जलाशयार्थं यो दद्याद्रुणं लोकमाप्नुयात् ॥ ७ ॥ यस्य दत्त्वा तु वेश्मार्थं तस्य देवस्य सोऽश्नुते ॥ वस्त्रत्र विप्रते नित्यं लोको दिग्वरा ध्रुवम् ॥ ८ ॥ उद्यानभूमिं दत्त्वा च गन्धर्वैः सह मोदते ॥ रत्ना करं तु वै दत्त्वा शक्रलोके महीयते ॥ ९ ॥ दत्त्वा कनकभूमिं च वह्निलोके महीयते ॥ अन्येषामप्यथैव लोहानां यः प्रयच्छति ॥ १० ॥ तस्यापि मतिरुद्दिष्टा लोके हौताशने द्विजाः ॥ धान्यार्कप्रसुवं दत्त्वा नाकलोके महीयते ॥ ११ ॥ अश्मनाकरभूमिं तु यः प्रयच्छति वै द्विजाः ॥ पितॄणामि मलोकेभ्यः पूज्यतेऽसौ नरोत्तमः ॥ १२ ॥ लवणाकरभूमिं च सोमलोके महीयते ॥ शिम्बीसस्यप्ररोहां तु भुवं दत्वा नरोत्तमः ॥ १३ ॥ साध्यानां लोकमाप्नोति नात्र कार्या विचारणा ॥ इन्धनाकरभूमिं तु नामलैः सहितस्तथा ॥ १४ ॥ शूकधान्यसुवं दत्वा रुद्रलोके महीयते ॥ केदार भूमिं धर्मज्ञा यः प्रयच्छति धर्मतः ॥ १५ ॥ स महत्पुण्यमाप्नोति ब्रह्मलोकं च गच्छति ॥ इक्षुभूमिं नरो दत्वा द्राक्षाक्षुम्बिन्धयानि च ॥ १६ ॥ सोमलोकमाप्नोति सर्वकामांश्च विन्दति ॥ सोपरा तस्कराकीर्णा तथा व्याडवती च भूः ॥ १७ ॥ न दत्वा द्विजश्रेष्ठा या च रात्रिञ्चु वै द्विजाः ॥ गुल्मपुष्पप्रदां यस्तु लतां वा संप्रयच्छति ॥ १८ ॥ विमाने नन्दने सोऽथ क्रीडत्यप्सरसां गणैः ॥ पुष्पदं फलदं वृत्तं दत्त्वा विप्राय भक्तितः ॥ १९ ॥ स्वर्गे लोकपारिभ्रंश्रो नगराधिपतिर्भवेत् ॥ ब्राह्मणाय गृहं दत्त्वा वसूनां लोकमश्नुते ॥ २० ॥ आराममथ सोद्यानं नन्दने क्रीडते वनो ॥ धनधान्ययुतं स्फीतं गृहंहाण करणैर्युतम् ॥ २१ ॥ शय्यासनयुतं रम्यं गोऽश्वाश्वियुतं तथा ॥ गृहं दत्त्वा द्विजेन्द्राय तावत्स्वर्गसुखानुते ॥ २२ ॥ यावत्कल्पावसाने तु कल्पादौ पार्थिवो भवेत् ॥ ग्रामप्रदः स्यान्नृपतिस्तथा ह्यशनदो नृपः ॥ २३ ॥ समग्रवसुधेशः स्याच्चक्रवर्ती च राज्यदः ॥ स्वदत्तां परदत्तां वा न हरेत वसुन्धराम् ॥ २४ ॥ भूमेरङ्गलमात्रं तु हत्वा नरकपृच्छति ॥ बहून्यब्दसहस्राणि घर्मेऽपि पुरुषो रतः ॥ २५ ॥ विष्ठाकृमित्वमाप्नोति पितृभिः सहितं

तृ० खं० अ० ३०६

स्तस्था ॥ तस्माद्भूमिं न हिंसैत दद्यादेव विचक्षणः ॥ २६ ॥ भूमिदानात्परं दानं नान्यल्लोकेषु विद्यते ॥ भूमिं युद्धजितां दद्याद्ब्राह्मणेषु महीपतिः ॥ २७ ॥ परं राष्ट्रं समासाद्य प्राग्दत्तं नैव हिंसयेत् ॥ स्वराष्ट्रं परराष्ट्रं वा देवब्राह्मणसात्कृतम् ॥ २८ ॥ चिरं नरकमवाप्नोति हत्वा भूमिपतिर्भुवम् ॥ दत्ता न हिंसनीया स्याद्द्विगुणापि वसुन्धरा ॥ २९ ॥ भूमिहर्ता परं दुःखं प्रेत्य चेह तथाश्नुते ॥ भूमिं क्रीत्वा तु यः कुर्याद्देवब्राह्मणसात्खरः ॥ ३० ॥ स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः ॥ षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः ॥ ३१ ॥ आच्छेत्ता चानुमन्ता च तावन्ति नरके वसेत् ॥ पक्वसस्यां वसुमतीं षोडशङ्कृत्य प्रयच्छति ॥ ३२ ॥ कामगेन विमानेन ब्रह्मलोके स गच्छति ॥ यथा भवति विप्रेन्द्राः फलं भूमौ पुनः पुनः ॥ ३३ ॥ तथा भूमिकृतं दानं सस्यैरिव विवर्धते ॥ यस्तु राजा द्विजातिभ्यः सम्यग्भूमिं प्रयच्छति ॥ पुनस्तु जननं प्राप्य राजैव भुवि जायते ॥ ३४ ॥ शश्वं भद्रासनं छत्रं नराश्चवाववारणाः ॥ भूमिदानस्य पुष्पाणि फलं स्वर्गः प्रकीर्तितः ॥ ३५॥ संग्रामे ये हताः शूरास्तथा ये यज्ञयाजिनः ॥ वनेषु ये मृतास्ते च नातिक्रामन्ति भूमिदम् ॥ ३६ ॥ नास्ति विष्णुसमादाता नास्ति गङ्गासमा नदी ॥ ३७॥ होममन्त्रस्तथा नास्ति महाव्याहृतिभिः समः ॥ गायत्रीसदृशो जप्यो यथा नास्ति द्विजो त्तमाः॥३८॥ अन्तर्जले तथा नास्ति मन्त्रोऽघमर्षणमर्षणात् ॥ विधिर्मानसमो नास्ति तपो नानशनात्परम् ॥३९॥गुरुकीर्तिसमो नास्ति नास्ति भार्यासमाः सखा ॥ नीचावमाननाद्दुःखं न नास्ति यथा परम् ॥ ४० ॥ यथा च नास्ति लोकेषु सुखं शत्रुजयाधिकम् ॥ चक्षुर्ज्ञानसमं नास्ति सुहृद्धर्मसमस्तथा ॥ ४१ ॥ भूमिदानात्परं दानं तथा नास्ति द्विजोत्तमाः ॥भूमिदानात्परं नास्ति विमानैः कामगैरपि ॥ ४२ ॥ देवदन्तिव्यधुहुले वीणामुरजनादिते ॥ किंकिणीजालनिर्घोषे मनोरथफलद्रुमे ॥४३॥ बुढ्याविंवंदवरामाभिर्वीज्यमानास्तु चामरैः॥ संगीयमाना गन्धर्वैः स्तूयमाना स्तथैव च ॥४४॥ बहून्यब्दसहस्राणि देवभोगांस्तु ते नराः ॥ स्वर्गे भुक्त्वा यदा यान्ति मानुष्यं कालपर्ययात् ॥भवन्ति सर्वभोगाढ्याः सर्वदुःखविव र्जिताः॥४५॥विख्यातशब्दाश्च जनाभिरामाः प्रतप्तचामीकरसुप्रभाङ्गाः ॥ सुगन्धिगन्धाश्च तथानुलिप्ता भवन्ति लोके च सुवेषरुपेताः ॥४६॥ इति श्रीविष्णुधर्मोत्तरे तृ०खं० मा०सं० मुनीन्प्रति हंसगीतासु भूमिदानवर्णनो नाम पश्चादधिकत्रिशततमोऽध्यायः॥३०६॥हंस उवाच॥ गावः पवित्रा मङ्ग ल्या गोषु लोकाः प्रतिष्ठिताः॥ तास्सर्वयान्ति यज्ञानि देवतातिथिपूजनम्॥ १॥ बलन्तीष्विष्टिश्च पृष्टिश्च तथा श्राद्धक्रिया द्विजाः॥नानासो सम्प्रयच्छन्ति वस्य धेतुनं विद्यते॥२॥ तस्मात्सर्वप्रदानानां गवां दानमुत्तमम् ॥ हीनाङ्गी क्षीरपां वृद्धां दुग्धदोहां निरिन्द्रियाम्॥ श्रान्त्याधितां विपन्नां व्यालां

वि० ध० ॥४३६॥ ॥४३६॥

तथैव प्रपलायिनीम् ॥ मूल्यैरुत्थाप्य संशुद्धैर्हताश्च द्विजपुङ्गवात्॥४॥न दातव्या स्मृता धेनुर्दत्त्वा नरकमाप्नुयात् ॥ ब्राह्मणो यस्तु कुरुते गोरसानां तु विक्रयम्॥५॥गवां च विक्रयं विप्रा विषमो यस्तथा गवाम्॥अपात्रदोषयुक्तेश्च न देया तस्य चाप्यथ॥ ६॥नैका बहूनां दातव्या न द्वयोर्द्विजपुङ्ग- वाः॥सा तु विक्रयमापन्ना दातॄन्नरकदायिनी॥७॥ एकं पात्रमथासाद्य देयास्तु बहवः स्मृताः ॥ गवां प्रदाने यत्नेन परीक्ष्यो ब्राह्मणो भवेत् ॥ ८ ॥ यथाकथञ्चिद् दत्त्वा गां धेनुं वाऽधेनुमेव वा ॥ अशोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥९॥ दत्त्वा वत्सतरीं विप्राः स्वर्गलोके महीयते ॥ गुर्विणीं च तथा दत्त्वा वसूनां लोकमश्नुते ॥ १० ॥ प्रसूयमानां तां दत्त्वा भूमिदानफलं लभेत् ॥ सवत्सां च तथा दत्त्वा नन्दने मोदते नरः ॥ ११॥ श्वेतां दत्त्वा सोमलोके रक्तां दत्त्वा विभावसोः ॥ कृष्णां दत्त्वा तथा याम्ये नीलां दत्त्वा च वारुणे ॥ १२ ॥ इन्द्रलोके तु शबलां भिन्द्रलोके च रोहिणीम् ॥ वातेररुणसवर्णां तु वायुलोके महीयते ॥ १३ ॥ धूम्रवर्णां तथा दत्त्वा वसूनां लोकमश्नुते ॥ आपाटेन सवर्णांन्तु लोकं वारुणमाप्नु- यात् ॥ १४ ॥ सुवर्णवर्णां कौबेरे ताम्रामग्निसदृशं तथा ॥ पलाशधूम्रवर्णाभां पितृलोकं तथैव च ॥ १५॥शितिकण्ठप्रभामेदेन वैश्वदेवमवाप्नुयात् ॥ गौरीं दत्त्वा भृगूणाञ्च वैराटाभां प्रजापतेः ॥ १६ ॥ पाण्डुकम्बलवर्णाभां रुद्राणां लोकमाप्नुयात् ॥ शुक्लबिन्दुचितां कृष्णां गन्धर्व्वैः सह मोदते ॥ १७ ॥ (कपिलाञ्च तथा दत्त्वा सूर्य्यं लोकमाप्नुयात् ॥) गावः प्रकृतिवर्णास्तु कपिलाः परिकीर्त्तिताः ॥ १८ ॥ कृतन्तु वर्णवैचित्र्यं पूर्वं तासान्तु शम्भुना ॥ यथा तु गङ्गा सरितां धेनूनां कपिला तथा ॥ १९ ॥ सायं प्रातश्च सततं होमकाले द्विजोत्तमाः ॥ गावो ददति वै हौम्यमृषिभ्यो नात्र संशयः ॥ २० ॥ दुष्कृतानि दुरिष्टानि दुर्गाणि विषमाणि च ॥ तरन्ति चैव पापेभ्यो धेनुदानेन मानवाः ॥ २१ ॥ एकां गां दशपूर्व्वेद्वादश दयाच्च गोशतीं ॥ शतं सहस्रगुंणदद्यात्सर्वं तुल्यफला हि ते ॥ २२ ॥ शतवर्षसहस्राणि तपस्तप्तं सुदुष्करम् ॥ गोभिः पूर्व्विसुसृष्टा भिस्तुल्येषु श्रेष्ठतामिति ॥ २३ ॥ लोकैर्द्दिशन्दिशिग्लानाश्च सर्वा गा वयसोत्तराः ॥ भवे तानि च लिप्यन्ते दोषेणातिपरन्तपाः ॥ २४ ॥ शकृन्तासां पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ तथा सर्वाणि भूतानि स्थावराणि चराणि च ॥ २५ ॥ प्रदातारश्च गोलोकान्नच्युङ्गरिति मानदाः ॥ एतद्धनं ददौ तासां सर्वमेव पितामहः ॥ २६ ॥ सुरभिर्धेनुवेत्तुर्या तस्याः पुत्रत्वमागताः ॥ धर्मो वृषभरूपेण महादेवध्वजः स्मृतः ॥ २७ ॥ दशधेनुप्र- दानेन यथेष्टाङ्गतिमाप्नुयात् ॥ शतञ्च दत्त्वा धर्मज्ञः शक्रलोकमुपागतः ॥ २८ ॥ कल्पावशेषं स सुखी मोदत्यप्सरसां गणैः ॥ दत्त्वा सहस्रं धेनूनां सर्वपापैर्विमुच्यते ॥ २९ ॥ उक्षाणं च ये प्रयच्छन्ति शतेन सह यूथपम् ॥ सर्वपापविनिर्मुक्तास्ते प्रयान्त्यमरावतीम् ॥ ३० ॥ कल्पाव

वि० ध० तृ० खं०, अ० ३०६

शेषं त्रिदिवे सुखबुद्ध्य नरोत्तमाः ॥ मानुष्ये धनसंयुक्ता भवन्ति सुखिनस्ततः ॥ ३१ ॥ सहस्रेण गवां सार्धं ये प्रयच्छन्ति यूथपम् ॥ अलंकृतं यथाशक्त्या गोलोकं यान्ति ते नराः ॥ ३२ ॥ लक्षणामन्दिन्द्वोपेतं वरस्तु दद्याद्द्विजातये ॥ दशधेनुफलं तस्य नात्र कार्या विचारणा ॥ ३३ ॥ गोयुगं ये प्रयच्छन्ति सीरयुक्तं द्विजाः ॥ सर्वकामसमृद्धस्य प्राप्नुवन्ति फलं नराः ॥ ३४ ॥ गोमिश्रैस्तुस्तिभिः संयुक्तं रथं दत्त्वा द्विजातये ॥ धान्यैर्विक्षैर्युतं शक्त्या शकलोकं व्रजन्ति ते ॥ ३५ ॥ मानुष्यमासाद्य तथा भवन्ति वसुधाधिपाः ॥ शकटस्य प्रदानन्तु विना गोभिर्महाफलम् ॥ ३६ ॥ विशेषेण महाभागस्तस्य गोभिर्युतस्य च ॥ ससस्यं शकटं दत्त्वा नाकलोके महीयते ॥ ३७॥ दत्त्वा तु धेनुं होमार्थे ब्राह्मणायाग्निताम्रये ॥ गोदानफलमाप्नोति होमदानफलं तथा ॥ ३८ ॥ ऋषभान्नार्थं तथा दत्त्वा धेनुं रुद्रस्रुरालये ॥ रुद्रलोकमवाप्नोति कुलञ्चैव समुद्धरेत् ॥ ३९ ॥ दत्त्वा सचेलं वृषभं महादेवालये नरः ॥ रुद्रलोकमवाप्नोति कुलमुद्धरते तथा ॥ ४० ॥ धेनूनां कपिला श्रेष्ठा वृषभः श्वेत उच्यते ॥ श्वेतन्तु वृषभं दत्त्वा फलस्यानन्त्यमश्नुते ॥ ४१ ॥ दक्षिणारहितायांथ वासुदेवसुरालये ॥ दत्त्वा गां मधुपर्कार्थं चानन्तं फलमाप्नुयात् ॥ ४२ ॥ गोप्रदानरता यान्ति गोलोकं मानवोत्तमाः ॥ सहाप्सरोभिर्मुदिता विमानवरमास्थिताः ॥ ४३ ॥ अपामधस्तस्ताल्लोको यो तत्स्योपरि महीधराः ॥ नागानामुपारिह्यद्भिः पृथिव्युपरि मानवाः ॥ ४४ ॥ मनुष्यलोकादूर्ध्वन्तु खगानां गतिरुच्यते ॥ आकाशस्योपरि रविर्द्धरं स्वर्गस्य तत्स्मृतम् ॥ ४५ ॥ देवलोकः परस्तस्माद्ब्रह्मलोकस्ततः परम्॥ तत्रोपरि गवां लोको विष्णुलोकस्ततः परम् ॥४६॥ एकस्त्वथौ दुष्कृतिनां कर्मिणां पृथिवी मता॥ ब्राह्मे तपसि युक्तानां ब्रह्मलोकः सनातनः ॥४७॥ गवामेव हि गोलोको दुरारोहा हि सा गतिः ॥ एकान्तिनो विष्णुभक्ता विष्णुलोकं व्रजन्ति ते ॥ ४८ ॥ गोप्रदानरता यान्ति गोलोकं सर्वकामदम् ॥ तत्र कामफला वृक्षा नद्यः पायसकर्द्दमाः ॥ ४९ ॥ सुवर्णसिकताश्चान्या विमलोदयुताः शुभाः ॥ यथाकामप्रितस्तास्तत्र भवन्ति शुभकर्मिणाम् ॥ ५० ॥ देशा मनोहराः शुभ्रा इवाश्राविभ्रूषणाः ॥ दिव्येन नृत्यगीतेन वादितेन मनोहराः ॥ ५१ ॥ तत्रैपिस्तानां कामानावाप्तिर्भवति नित्यदा ॥ हेमशृङ्गीं रूप्यखुरां मुक्तालाङ्गूलभूषणाम् ॥ ५२ ॥ अहताम्बरसंवीतां तथा कांस्योपदोहिनीम् ॥ त्रिरात्रं स्थण्डिले सुप्त्वा त्रिरात्रं गोरसाशनः ॥ ५३ ॥ तप्तान्तु तपिते दत्त्वा वत्ससा संवृतां द्विजाः ॥ सदक्षिणां महाभा-स्त्रिरात्रं गोरसैस्तस्तः ॥ ५४ ॥ प्राणसंचारं कृत्वा गवां लोके महीयते ॥ यावन्ति धेनुरोमाणि तावद्वर्षाणि मानवः ॥ ५५ ॥ दूरं कपिलां विप्राः प्राप्नोत्यभ्यर्चिकं फलम् ॥ सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ॥ ५६ ॥ तत्रैककालमश्नन्तो द्वितीयादशनान्नरः ॥ यथा

॥४३६॥ ॥४३६॥

विधिना दद्यात्कृत्वा तु कपिलां नरः ॥ ५७ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ गवां लोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ५८ ॥
अलंकृतां ततो दत्त्वा गोदानफलमाप्नुयात् ॥ अजामलंकृतां दत्त्वा वह्निलोके महीयते ॥ ५९ ॥ तदेव लोकमाप्नोति दत्त्वाजं विधिवन्नरः ॥
वारुणं लोकमाप्नोति दत्त्वा च महिषीं नरः॥६०॥ महिषस्य प्रदानेन याम्ये लोके महीयते ॥ वारुणं लोकमाप्नोति दत्त्वोष्ट्रं नरोत्तमः ॥ ६१॥
आविष्रप्रदाता शतधा तदेव फलमश्नुते ॥ आरण्यपशुदानेन वायुलोके महीयते ॥ ६२ ॥ एतदेव फलं प्रोक्तं प्रदानेन च पक्षिणाम् ॥ शशपिण्डिक-
जालादिदृक्प्रदानात्ततस्तथा ॥ ६३ ॥ गोरसानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ तत्र वायुबुजे मासे यस्तु दद्याद्विजातितु ॥ ६४ ॥ आरोग्यं
महदाप्नोति यत्रयत्राभिजायते ॥ तथा दध्नः प्रदानेन मङ्गलाच्याप्नुते सदा ॥ ६५ ॥ क्षीरद्स्तुप्तिमाप्नोति सर्वदुःखैर्विमुच्यते ॥ क्षीरेण
स्नपनं कृत्वा हरस्य प्रयतो नरः ॥ ६६ ॥ मनोऽभिमतिपापंनुह्वो रुद्रलोके महीयते ॥ परमान्नाम्रप्रदानेन कामानाप्नोति शाश्वतान् ॥ ६७ ॥ मासि
मासि तु रेवत्यां ब्राह्मणान्घृतपायसम् ॥ सदक्षिणं भोजयित्वा रूपमाप्नोत्यनुत्तमम् ॥ ६८ ॥ आज्यन्तेजः समुद्दिष्टं चाज्यं पापहरं परम् ॥
आज्यं सुराणामाहारश्चाज्ये लोकाः प्रतिष्ठिताः ॥ ६९ ॥ आज्येन लिङ्गरुन्स्नपनं नरः कृत्वा तु शूलिनः ॥ सर्वदुःखविनिर्मुक्तो रुद्रलोके महीयते
॥ ७० ॥ अलक्ष्मीशमनं प्रोक्तं घृतस्नानं तथा द्विजाः ॥ कल्पमुत्थाय यो गच्छेद्घृते सुखमथात्मनः ॥ ७१ ॥ पश्यते स जहात्येव
कृत्वा पापमहर्निशम् ॥ अलक्ष्मीर्नश्यते चास्य क्षिप्रेमपा करीषिणी ॥ ७२ ॥ घृतस्नाननरो याति स्वर्गलोकमसंशयम् ॥ मासे चाभ्युजे
नित्यं घृतं यस्तु प्रयच्छति ॥ ७३ ॥ कल्पमुत्थाय विप्रेभ्यः प्रीणयेच्च तथाश्विनौ ॥ स रूपं महदाप्नोति तथा रोगैश्च मुच्यते ॥ एवं महाफलं
दानं गोरसानां तथा गवाम् ॥ ७४ ॥ प्रयच्छते यः कपिलां सचैलां कांस्योपदाहां कनकाग्रशृङ्गीम् ॥ तैस्तैर्गुणैः कामदुघा च भूत्वा नरं
प्रदातारमुपैति सा गौः ॥ ७५ ॥ यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ॥ पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासप्तमं तारयते
परत्रा॥७६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुर्गन्भाति हंसगीतासु गोदानफलन्निरूपणो नाम षडधिकत्रिंशततमोऽ
ध्यायः ॥ ३०६ ॥ हंस उवाच ॥ घृतधेनुप्रदानञ्च निबोधत द्विजोत्तमाः ॥ गव्यस्य सर्पिषः कुम्भं पूर्णन्तु परिकल्पयेत् ॥ १॥ कलशश्च तथा पूर्ण
न्तस्या वत्सं प्रकल्पयेत् ॥ कांस्यापिधानसच्छत्रसिताम्बरयुतन्तथा ॥ २ ॥ हिरण्यगर्भो कर्तव्यंवपुर्ललितौ च बाहतः ॥ इक्षुयष्टिम्मया
न्पादांखुरांश्चरूप्यमयांस्तथा ॥ ३ ॥ सौवर्णं चाक्षिणी कार्ये शृङ्गे चामुरुकाष्ठजे ॥ शतधाग्यतञ्च कर्तव्यं तस्य पार्श्वे पृथक्कृते ॥ ४ ॥ तस्य