विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 939, कुल 1001 में से
संदर्भ में पढ़ेंकृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्ततः ॥ १२ ॥ चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ॥ कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ॥ १३ ॥ सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ॥ मार्गशीर्षे तथा मासे पूर्णं शिशिरार्दितौ ॥ १४ ॥ महारजतयुक्तेन वाससा द्विजपुङ्गवान् ॥ आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ॥ १५ ॥ लवणस्य तु शुक्लस्य चूर्णितस्य द्विजोत्तमाः ॥ दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ॥ १६ ॥ सौभाग्यंरूपलावण्ययुक्तो भवति मानवः ॥ गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ॥ १७ ॥ गन्धस्याज्यस्य कुम्भेन सोऽभिषिक्तस्त्वनन्तरम् ॥ विरूढिस्थितस्तथा स्नातः सर्वबीजौषधीजलैः ॥ १८ ॥ गन्धस्तत्फलोपेतैर्घृतेन तदनन्तरम् ॥ स सुवर्णं मुखं दृष्ट्वा घृतं तत्प्रदद्याद्द्विजातये ॥ १९ ॥ घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ॥ घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ॥ २० ॥ कृत्वैवं द्विगुणं द्वादश्योपवासः समाहितः ॥ कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २१ ॥ माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ॥ स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ॥ २२ ॥ रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ॥ नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २३ ॥ तथा नारीपि भर्तारं नात्र कार्या विचारणा ॥ पौर्णमासीषु चैतासु मासषट्सहितासु च ॥ २४ ॥ एतेषामेव दानानां फलं दशगुणं भवेत् ॥ महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ॥ २५ ॥ द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ॥ अक्षयं फलमाप्नोति नाकलोके च गच्छति ॥ २६ ॥ वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ॥ छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥ २७ ॥ स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ॥ आषाढशुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥ २८ ॥ श्रावणे वस्त्रदानेन विष्णुलोके महीयते ॥ गोदः प्रयाति गोलोके मासि भाद्रपदे द्विजाः ॥ २९ ॥ प्रीणयेच्छिरसश्चाश्वं दत्त्वा तथाश्विने ॥ विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ३० ॥ सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात् ॥ प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ॥ ३१ ॥ धान्यानाञ्च तथा पौषे दारूणां चाप्यनन्तरे ॥ फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा ॥ ३२ ॥ भाग्यसंयुता चैत्री द्वादशी स्यान्महाफला ॥ हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ॥ ३३ ॥ ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ॥ तथा भाद्रपदे मासि श्रवणेन तु संयुता ॥ ३४ ॥ आश्विने द्वादशी पुण्या भवत्याज्यैर्ऋक्षसंयुता ॥ कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ॥ ३५ ॥ पौषे मृगशिरोपेता माघे चादित्यसंयुता ॥ फाल्गुने पुष्यसहिता द्वादशी पावना परा ॥ ३६ ॥ नक्षत्रयुक्तास्त्वेतास्तु तथा दानमुपोषितः ॥ सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥ ३७ ॥ मेषसंक्रमणे भानोर्मेषदानं महाफलम् ॥ वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥ ३८ ॥