विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 946, कुल 1001 में से
संदर्भ में पढ़ेंधर्मोपजीविनः ॥ एकैकं कारयेत्कर्म मासिमासि महीपतिः ॥ ४३ ॥ स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः ॥ विदेशपण्याच्च तथा देयमप्यंशतं समम् ॥ ४४ ॥ शुल्कस्थानमभिन्वेदकं न द्वितीयं कथञ्चन ॥ शुल्कं भूयस्तु गृह्णीयाच्चौरस्यामिति किल्विषम् ॥४५॥ न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ॥ न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रब्रजिते न यज्ञे ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२३ ॥ ऋषय ऊचुः ॥ राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम् ॥ तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥ १॥ हंस उवाच ॥ आसीत्कृतयुगे पूर्वं प्रजाधर्मनिबन्धनः ॥ ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत् ॥ २ ॥ धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः ॥ दृष्ट्वा च व्यवहारान्राजा दण्डधरः कृतः ॥ ॥ ३ ॥ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ॥ दृष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम् ॥ ४ ॥ व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ॥ धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः ॥ ५॥ कुलोद्वत्ता स्थिता धर्मे मन्त्रायुक्ताः श्रुतान्विताः ॥ राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ ॥ ६ ॥ अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ॥ सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ७ ॥ क्षत्रियस्तत्त्व वा वैश्यो न तु शूद्रः कदाचन ॥ यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः ॥ ८॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्ष्याद्व्याधितस्करैः ॥ विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा ॥ ९ ॥ द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः ॥ दुष्टैर्ह्यव्यवहारेण राजा वित्तं यदर्जितम् ॥ १० ॥ त्रि०, । तु दातव्यं ब्राह्मणेभ्यथ वांभसि ॥ स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ॥ ११ ॥ आवेदति चेद्राज्ञे व्यवहारपदं हि तत् ॥ प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः ॥ १२ ॥ अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्॥ नदीसन्तारकारण्यदुर्गदेशोपप्लवादिषु ॥१३॥ नागतव्यो न स दंड्यः स्यान्नासौ राज्ञोऽपराध्नुति ॥ १४ ॥ निवृत्तकामो रोगात्तं विपद्युच्छ्र्वसने स्थितः॥१४॥ अभियुक्तस्तथान्येन राजकार्यरतस्तथा ॥ गवां प्रचारे गोपालाः सम्प्रत्काले कृषीवलाः ॥१५॥ शिल्पिनश्चैव तत्कालं चायुद्येचाश्च विग्रहे ॥ अपास्तव्यवहाराश्च दूतदानो मुखी व्रते ॥ १६ ॥ विषमस्थश्च नासाव्या नचैनांब्राह्वयेन्नृपः ॥ प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनाः ॥ १७ ॥ समामासतदर्द्धाह्रर्जातिनामादिरिचितम् ॥ श्रुतार्थस्योत्तरं लेख्यं पूर्ववेदकसन्निधौ ॥१८॥ ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ चतुर्थं तच्च कथितं सुनिभिस्तत्त्वदर्शिभिः ॥१९ ॥ लिखितं साक्षिणो भुक्तिश्चतुर्थी दैविकी क्रिया ॥ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ॥२० ॥ तत्सिद्धौ सिद्धिमप्नोति विपरीतमतोऽन्यथा ॥