विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 945, कुल 1001 में से
संदर्भ में पढ़ेंधनधान्यसमायुते ॥ हस्त्यश्वरथसम्पन्ने मणिभूरूपशोभिते ॥ १७ ॥ पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते ॥ सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥ १८॥ हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे ॥ घृततैलोषधियुते सर्वोपकरणैस्तथा ॥ १९ ॥ प्राकारपरिखावप्रगोपुराट्टालकैर्युते ॥ पापतस्करदुर्धूर्त्तकुहूल्यादिवर्जिते ॥२०॥ दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम् ॥ तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम् ॥ २१ ॥ कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः ॥ कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम् ॥ २२ ॥ तया सह सदा राजा गृहस्थाश्रमचोदितम् ॥ पञ्चयज्ञविधानन्तु कारयेत् पुरोहितम् ॥ २३ ॥ यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा ॥ देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ॥ ॥ २४ ॥ उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च ॥ दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम् ॥ २५ ॥ राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम् ॥ भूमिपानाम्महाप्रज्ञाः सर्वकल्मषनाशनम् ॥ २६ ॥ गवां लक्षणसंयुक्तं तुरगांश्चाभिपरीक्षयेत् ॥ सलक्षणं तथा रत्नं खड्गञ्चेक्षेत भूषणा- न्नृपः ॥ २७॥ दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान् ॥ दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा ॥ २८ ॥ देशेश्वरांस्तथा कुर्या- न्नगरस्थांश्च विशेषतः ॥ ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत् ॥ २९ ॥ अशक्तश्च दशेशाय स तु गत्वा निवेदयेत् ॥ शतेशाय दशेशस्तु शतेशो देशपाय च ॥३०॥ ग्रामादिपालकानां तु शौचाशौचं नराधिपः ॥ चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत् ॥ ३१ ॥ राज्ञो हि रक्षा- धिकृताः परस्वादायिनः शठाः ॥ भूत्वा भवन्ति प्रायेण तेभ्यो रक्षेद्भृशम्प्रजाम् ॥३२ ॥ तथा च रक्षाधिकृताननुरूपेण योजयेत् ॥ विभवेन द्विज- श्रेष्ठाः परीक्ष्य च पुनःपुनः ॥३३॥ राजा कर्मानियुक्तानां क्षीणां प्रपञ्चजनस्य च ॥ प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥३४॥ आपदस्थांश्च नोच्छिन्द्याद्विशेषोदात्तकानपि ॥ सम्बन्धिभ्यश्च गृहीत्वाऽऽत्मन्मालाकारोपमो नृपः ॥ ३५ ॥ क्रयविक्रयमध्वानं भक्तञ्च सपरिच्छदम् ॥ योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम् ॥ ३६ ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ॥ तथावेक्ष्य नरो राष्ट्रे कल्प- येत्सततं करम् ॥ ३७ ॥ पञ्चाशद्भागं आदायो राज्ञाम्पशुहिरण्ययोः ॥ धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता ॥ ३८ ॥ षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम् ॥ गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥ ३९ ॥ पत्रशाकतृणानाञ्च चर्मणां वैदलस्य च ॥ मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ॥ ४० ॥ यत्किंचिदपि वर्षस्य दापयेत्करसंज्ञितम् ॥ व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक् ॥ ४१ ॥ राजदूतकरेभ्यश्च गृह्णीयात्सप्तकं शतम् ॥ पञ्चपञ्चाशतन्तत्र समिकः प्राप्तुमर्हति ॥ ४२ ॥ कारुकाञ्शिल्पिनश्चैव शूद्र-