सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 970, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 970

वि० ध० ॥४६७॥

तृ० सं० अ० ३४१

नामसंकीर्तनं कृत्वा सुप्तप्रस्खलनादिषु ॥ ३९ ॥ वियोगं शीघ्रमाप्नोति सर्वानर्थैरसंशयम् ॥ कृत्वा नामसहस्रेण स्तुतिं तस्य महात्मनः ॥ ४० ॥ वियोगमाप्नोति नरः सर्वानर्थैरसंशयम् ॥ साम्ना ऋग्लिङ्गमंत्रैश्च तथैवाथर्वणेन तु ॥ ४१ ॥ कृत्वा त्विष्टुवनं तस्य दिव्यैरुक्तैस्तथा स्तवैः ॥ सर्वानर्थविनिर्मुक्तः कामानाप्नोति शाश्वतान् ॥ ४२ ॥ अभ्रष्टलक्षणैः कृत्वा स्वयं स्वरचितैःस्तवैः ॥ स्तवेद् ब्राह्मणशार्दूलस्तस्मात्कामानवाप्नुयात् ॥ ४३ ॥ न वित्तहानिनिचयैर्बहुभिर्मधुसूदनः ॥ तथा तोषमुपायाति यथा स्तोत्रैर्द्विजोत्तमाः ॥ ४४ ॥ स्तुतिः पवित्रा मङ्गल्या सर्वपापप्रणाशिनी ॥ सर्वानर्थप्रशमनी देवदेवस्य कीर्तिता ॥ ४५ ॥ तत्कथाश्रवणं कृत्वा सर्वानर्थैर्विमुच्यते ॥ तत्ततोऽश्रवणात्पापं जहाति सकलं तथा ॥ ४६ ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सुसंहिताः ॥ तच्छ्रोतुमेत्य मनुष्येण परं पदमिच्छता ॥ ४७ ॥ विष्णोरायतने दत्त्वा तत्कथापुस्तकं नरः ॥ ब्रह्मलोकमवाप्नोति बहवो वत्सराञ्द्विजाः ॥ ४८ ॥ पुस्तकांश्च तथैवान्यान्प्रदद्याद्भरतर्षभ ॥ सारस्वतंमवाप्नोति लोकं कालं तथा बहु ॥ ४९ ॥ तत्कथां श्रावयेद्यस्तु तद्वत्सन्तानवोत्तमः ॥ गोदानफलमाप्नोति स नरस्तेन कर्मणा ॥ ५० ॥ श्रावके तु कृतं पुण्यं स फलांशेन युज्यते ॥ सूक्तं वाचकं कृत्वा देवागारे तथा नरः ॥ ५१ ॥ विद्यादानफलं प्राप्य ब्रह्मलोकं प्रपद्यते ॥ विष्णुं शङ्खप्रदानेन निर्वाणं लोकमश्नुते ॥ ५२ ॥ मातृभ्यामात्मनश्च तथा ख्याताश्शब्दाश्च जायते ॥ घण्टाप्रदानेन तथा महद्वश उपाश्नुते ॥ ५३ ॥ सौभाग्यमथ वाप्नोति किङ्किणीः प्रददन्नरः ॥ कूटागारं तथा दत्त्वा नगराधिपतिर्भवेत् ॥ ५४॥ कांत्या युक्तस्तथा लोके धार्मिकश्चापि जायते ॥ बहुन्ध्वजसङ्घांस्तु नाकलोके स मोदते ॥ ५५ ॥ पताकां ये प्रयच्छन्ति कूटागारे मनोहराम् ॥ सन्तत्यज्य सकलं पापं वायुलोके व्रजन्ति ते ॥ ५६ ॥ पताकां च शुभां दत्त्वा तथा केशववेश्मनि ॥ वायुलोकमवाप्नोति बहुन्वब्दानिमानिनि तु ॥ ५७ ॥ दोधूयते यथा सा च वायुना केशवालये ॥ तथातथा हि सकलं देहतापं विधूयते ॥ ५८ ॥ यथायथा च सा शोभां करोति त्रिदशालये ॥ तथातथा स यशसा महता भुवि राजते ॥ ५९ ॥ वितानक्रमदानेन सर्वपापैः प्रमुच्यते ॥ परां निर्वृतिमाप्नोति यत्रयत्राभिजायते ॥ ६० ॥ दत्त्वा तु देवकर्मार्थं नवां वेदीं दृढां शुभाम् ॥ पार्थिवत्वमवाप्नोति देहिदेहिं पृथिवी यतः ॥ ६१ ॥ यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् ॥ स लोकमाप्नोति नरो वारुणं गतकल्मषः ॥ ६२ ॥ चतुरः कलशान्दद्याद्यस्तु देवेष्टदो नरः ॥ चतुरस्तमुद्रवत्यां स भुङ्क्ते वसुन्धराम् ॥ ६३ ॥ दर्भेणापि विप्रेन्द्राः कलशं सुसमाहितः ॥ राजा भवति धर्मात्मा भूतले नात्र संशयः ॥ ६४ ॥ वारिधानीं तथा दत्त्वा वारुणं लोकमश्नुते ॥ कमण्डलुप्रदानेन गोदानफलमाप्नुयात् ॥ ६५॥ उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ॥ दत्त्वा गोपा

॥४६७॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 970, कुल 1001 में से · BharatKosha