सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 971, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 971

लुकान्वितः सर्वपापानपोहति ॥ ६६ ॥ दत्त्वा चामरजं कूर्चं श्रियमाप्नोत्यनुत्तमाम् ॥ आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ॥ ६७ ॥ पाद- पीठप्रदानेन गतिमाप्नोत्यनुत्तमाम् ॥ गोदानफलमाप्नोति तथा पाद्यप्रदो नरः ॥ ६८ ॥ लोकेषु ध्वजभूतः स्याद्विष्णोर्दृष्ट्वा तथा ध्वजम् ॥ शक्रलोकेनावाप्नोति बहूनब्दगणान्ररः ॥ ६९ ॥ नरस्त्वाचमनीयस्य दानाद्भवति निर्मलः ॥ सुखलेपप्रदानेन परं रूपमवाप्नुयात् ॥ ७० ॥ दर्पणस्य प्रदानेन दर्पाद्भावरूपवान्भवेत् ॥ दर्शयित्वा तथा तं च सुभगस्त्वभिजायते ॥ ७१ ॥ मात्रां तु परिचर्यार्थं निवेद्य विधिवत्तथा ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ७२ ॥ धान्यानामथ सस्यानां बीजानामथ धार्मिकः ॥ सुवर्णदानेन सर्वान्कामानवाप्नुयात् ॥ ७३ ॥ नऽ सहस्रगुणमाप्नोति फलमन्यत्र कीर्तनात् ॥ रूप्यदो रूपमाभाति विशेषाद्भुवि दुर्लभम् ॥ ७४ ॥ नरः सुवर्णदानेन सर्वान्कामानुपाश्नुते ॥ नऽ दानेन लोकेषु ग्रामण्यमुपगच्छति ॥ ७५ ॥ गवां लोकमवाप्नोति धेनुं दत्त्वा पयस्विनीम् ॥ अनडुहः प्रदानेन दशधेनुफलं लभेत ॥७६॥ अजां विमहिषोष्ट्राणां दानमश्वतरस्य च ॥ सहस्रगुणितं दानं पूर्वं प्रोक्तं प्रकीर्तितम् ॥ ७७ ॥ आरण्यमृगजातीनां तथा दानाच्च पक्षिणाम् ॥ अग्निष्टो- ममवाप्नोति सुभगश्च तथा भवेत् ॥ ७८॥ मृदोदानाद्देवस्य भूमिमाप्नोत्यनुत्तमाम् ॥ दन्तकाष्ठप्रदानेन तथा सौभाग्यमर्हति ॥ ७९ ॥ जिह्वा- निर्लेखनं दत्त्वा विरोगस्त्वभिजायते ॥ युक्तः पीतपताकाभिर्निवेश्य गरुडध्वजम् ॥ ८० ॥ केशवं यो द्विजश्रेष्ठाः शक्रलोके महीयते ॥ युक्तं नीलपताकाभिस्तालं दत्त्वा द्विजोत्तमाः ॥८१॥ यस्त्वालोकात्पापमिश्रो विरोगस्त्वभिजायते ॥ युक्तं श्वेतपताकाभिर्गारुडं यः प्रयच्छति॥८२॥ राजा भवति लोकेस्मिन्मुक्ता लोकान्प्रचेतसः ॥ युक्तं रक्तपताकाभिर्दत्त्वा ऋषभमुत्तमम् ॥ ८३ ॥ अलर्कां समवाप्नोति तथा पापक्षयं नरः ॥ तोरणं कारयेद्यस्तु देवदेवालये नरः ॥ ८४ ॥ लोकेषु तस्य द्वाराणि भवन्ति विवृतानि तु ॥ शयनासनदानेन स्थितिं विन्दति शाश्वतीम् ॥८५॥ उत्तर- च्छददानेन सर्वान्कामानवाप्नुयात् ॥ देवेभ्योपभोगानि शिल्पभाण्डानि यो नरः ॥ ८६ ॥ दद्याद्वा वाद्यभाण्डानि गणेशत्वमवाप्नुयात् ॥ देव- श्रितेषु यत्किञ्चिद्दद्याद्भक्तिसमन्वितः ॥ ८७ ॥ तदेवाक्षयमाप्नोति देवदेवप्रसादतः ॥ दत्त्वा धान्यानि बीजानि सस्यानि विविधानि च ॥८८॥ रूपकाणि च तान्येव प्राप्नोत्यनुत्तराः पुनः ॥ दत्त्वा शाकानि रम्याणि विशोकस्त्वभिजायते ॥ ८९ ॥ दत्त्वा च व्यञ्जनान्याथ तथोपकरणानि च ॥ पुष्पवृक्षं¹ ततो दत्त्वा ग्रामस्याधिपतिर्भवेत्॥९०॥फलवृक्षं तथा दत्त्वा नगराधिपतिर्भवेत्॥आरामं कारयित्वा तु राजा वै पार्थिवो भवेत् ॥९१॥


¹ 'पुष्पवन्तम्' इति ख० ।