विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 972, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥४५८॥
तृ० खं० अ० २४१
जलाशयं तथा कृत्वा सर्वपापैः प्रमुच्यते ॥ सपुष्पफलवृक्षैर्युक्तं कृत्वा जलाशयैः ॥ ९२ ॥ उद्यानैः पद्मिनीखण्डैश्चैव मनोरहैः ॥ श्वेतद्वीपमवाप्नोति बह्वब्दगणानि तु ॥ ९३ ॥ प्रीणयेद्देवदेवेशं गवां ग्रासेण यो नरः ॥ तस्य प्रीतः स भगवानभीष्टफलो भवेत् ॥ ९४ ॥ अतीव दयितास्तस्य ब्राह्मणा द्विजसत्तमाः ॥ ब्राह्मणैः पूजितैर्विष्णुः स्वयं भवति पूजितः ॥ ९५ ॥ दीनांधकृपणानाथांबहूनथापि दानतः ॥ यः प्रीणाति जगन्नाथं तस्य देवः प्रसीदति ॥ ९६॥ उपासकस्तैः स्नानैस्तीर्थानुसरणेन वा। आयतस्थानसंस्थानां पशूनां च विवर्जनात् ॥ ९७॥ गुरूशुश्रूषया क्षान्त्या तथा वै श्राद्धकर्मणा ॥ आहारनियमैस्तैस्तैः परंपीडांविवेशतः ॥ ९८ ॥ पूजयित्वा जगन्नाथं श्वेतद्वीपमवाप्नुयात् ॥ परं पदमवाप्नोति प्रसन्ने मधुसूदने ॥ ९९ ॥ अभिवाद्य जगन्नाथं कृतार्थश्च तथा भवेत् ॥ नमस्करिक्रिया तस्य सर्वपापप्रणाशिनी ॥ १०० ॥ प्रणामं पापशमनं तथैव परिकीर्तितम् ॥ जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ॥१०१॥ कृत्वा प्रणामं देवेभ्यः सर्वान्कामानवाप्नुयात् ॥ परमाणूनि वर्तन्ते ललाटे पुरुषस्य च ॥ १०२ ॥ पार्थिवानि भवंतीह नमतो मधुसूदनम् ॥ तावन्त्यब्दानि विप्रेन्द्राः स्वर्गलोके महीयते॥१०३॥ देवाच्चादर्शनाद्देव प्रणमेन्मधुसूदनम् ॥ स्थानापेक्षा न कर्तव्या दृष्ट्वाऽर्चा द्विजसत्तमाः ॥ १०४ ॥ देवाचर्चादृष्टिपूर्तं हि शुचिः सर्वं प्रकीर्तितम् ॥ देवाचर्चादृष्टिपूर्तेन स्नानं कृत्वा जलाशये ॥ १०५॥ सर्वपापविनिर्मुक्तः क्षणाद्भवति निर्मलः ॥ तीर्थानां तत्र सर्वेषां संनिधानं प्रकीर्तितम् ॥१०६॥ पादोदकेन वाभ्युक्ष्य तथा मूर्द्धानमात्मनः ॥ स्नातो भवति धर्मात्मा नात्र कार्या विचारणा ॥१०७॥ पादोदकं शान्तिकरमधमङ्गल्यविनाशनम् ॥ दुष्टदुःस्वप्नशमनं सर्वपापविनाशनम् ॥१०८॥ धन्यं पवित्रं मङ्गल्यं सर्वपापहरं शिवम् ॥ शिरसा मानवश्चाग्र्याः कल्यपुण्याय धारयेत्॥१०९॥सर्वा ङ्ग्रप्रणिपातेन सर्वकामयुतो नरः ॥ सर्वानर्थविनिर्मुक्तो गोदानफलमाप्नुयात् ॥ ११० ॥ रूक्ममाषकदानस्य फलं विप्राः पदेपदे ॥ पुरुषस्तु समाप्नोति यः करोति प्रदक्षिणम् ॥ १११ ॥ ध्यानं तु देवदेवस्य सर्वव्याधिविनाशनम् ॥ यावत्कालं करोतीह ध्यानं वै निश्चलं नरः ॥ ११२ ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ निराशीर्निर्ममो यस्तु विष्णोध्यांनरतो भवेत् ॥ ११३ ॥ तत्पदं समवाप्नोति यत्र गत्वा न शोचति ॥ यज्ञानां तपसां चैव ध्यानमेव परं स्मृतम् ॥११४॥ देवाग्रे कारयेद्यस्तु रम्यामापणवीथिकाम् ॥ राजा भवति लोकेषु विजिताखिलदैवतः॥११५॥ नगरं च तथा कृत्वा साम्राज्यमधिगच्छति ॥ यानवाहनदानेन सर्वकालं सुखी भवेत् ॥११६॥ शिबिकां ये प्रयच्छंति ते प्रयान्त्यमरावतीम् ॥ ॥४०८॥
१ 'कल्यपुण्याय धारयेत्' इति ख० पा।