भारतकोश
व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)

व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)

Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary

महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा

DevanagariHindipublished96 पृष्ठ

पृष्ठ 15, कुल 96 में से

संदर्भ में पढ़ें
पृष्ठ 15

श्रीः महाभाष्यम् पस्पशाह्निकम् सर्वाकारं निराकारं विश्वाध्यक्षमतीन्द्रियम् । सदसद्रूपतातीतमदृश्यं माययावृतैः ॥१॥ ज्ञानलोचनसंलक्ष्यं नारायणमजं विभुम् । प्रणम्य परमात्मानं सर्वविद्याविधायिनम् ॥२॥ पुरुषाः प्रतिपद्यन्ते देवत्वं यदनुग्रहात् । सरस्वतीं च तां नत्वा सर्वविद्याधिदेवताम् ॥३॥ पदवाक्यप्रमाणानां पारं यातस्य धीमतः । गुरोर्महेश्वरस्यापि कृत्वा चरणवन्दनम् ॥४॥ महाभाष्यार्णवावारपारीणं विवृतिप्लवम् । यथागमं विधास्येऽहं कैयटो जैयटात्मजः ॥५॥ भाष्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः । छात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् ॥६॥ तथापि हरिबद्धेन सारेण ग्रन्थसेतुना । क्रममाणः शनैः पारं तस्य प्राप्तास्मि पङ्गुवत् ॥७॥ मूलम्—अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं नाम शास्त्रमधि- कृतं वेदितव्यम् । केषां शब्दानाम् ? लौकिकानां वैदिकानां च । लौकिकास्तावत्— गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति । वैदिकाः खल्वपि—शन्नो देवीरभिष्टये, इषे त्वोर्जे त्वा, अग्निमीळे पुरोहितम्, अग्न आयाहि वीतय इति । प्रदीपः—भाष्यकारो विवरणकारत्वाद् व्याकरणस्य साक्षात्प्रयोजनमाह— अथ शब्दानुशासनमिति । प्रयोजनानि तु रक्षोहादीनि पश्चाद्वक्ष्यति । स्ववाक्यं व्याख्यातुं तदवयवमथशब्दं तावद् व्याचष्टे—अथेत्ययमिति । इतिशब्दोऽथशब्दस्य स्वरूपेऽवस्थापनाय प्रयुक्तः । एवं हि पदान्तरैः सामानाधिकरण्येन सम्बन्धे सत्यथशब्दो व्याख्यातुं शक्यते । स्वरूपेऽवस्थितश्च सर्वनाम्ना परामृश्यते—अयमिति । शब्द इति स्वरूपकथनं विस्पष्टप्रतिपत्त्यर्थम् । अधिकारार्थ इति । अधिकारः प्रस्तावो द्योत्यत्वेनास्य प्रयोजनमित्यर्थः । निपातानां च द्योतकत्वं वाक्यपदीये निर्णीतम् । अथशब्दस्याधिकारार्थत्वे यो वाक्यार्थः सम्पद्यते तं दर्शयति—शब्दानुशासनमिति ।