व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)
Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary
महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा
पृष्ठ 65, कुल 96 में से
संदर्भ में पढ़ेंप्रथममाह्निकम् (पस्पशा) ५१ मूलम्—*अस्त्यप्रयुक्तः— सन्ति वै शब्दा अप्रयुक्ताः । तद्यथा—ऊष, तेर, चक्र, पेचेति । किम्तो यत्सन्त्यप्रयुक्ताः ? प्रयोगाद्धि भवाञ्छब्दानां साधुत्वमध्यवस्यति । य इदानीमप्रयुक्ता नामी साधवः स्युः । इदं तावद् विप्रतिषिद्धम्—यदुच्यते—'सन्ति वै शब्दा अप्रयुक्ता' इति । यदि सन्ति नाप्रयुक्ताः, अथाप्रयुक्ता न सन्ति, सन्ति चाप्रयुक्ताश्चेति विप्रतिषिद्धम् । प्रयुञ्जान एव खलु भवानाह—सन्ति शब्दा अप्रयुक्ता इति । कश्चेदानीमन्यो भव- ज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात् ? नैतद्विप्रतिषिद्धम् । सन्तीति तावद्ब्रूमः । यदेताञ्छास्त्रविदः शास्त्रेणा- नुविदधते । अप्रयुक्ता इति ब्रूमः यल्लोकेऽप्रयुक्ता इति । यदप्युच्यते— कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यादिति । न ब्रूमो- ऽस्माभिरप्रयुक्ता इति । किं तर्हि ? लोकेऽप्रयुक्ता इति । ननु च भवानप्यभ्यन्तरो लोके । अभ्यन्तरॊऽहं लोके, न त्वहं लोकः । प्रदीपः—अस्त्यप्रयुक्त इति । प्रयोगमूलत्वादस्याः स्मृतेरप्रयुक्तानामप्यन्वाख्या- नादप्रामाण्यमाशङ्कते । यथा घटादीनां विनाप्यर्थक्रियया सत्त्वं गम्यते नैवं शब्दानां, ते हि सर्वदा व्यवहाराय प्रयुज्यमानाः सन्तः सत्त्वेनावसीयन्त इत्याह—इदमिति । कश्चेदानीमिति । उपहासपरम् । उत्तरं तु शास्त्रदृष्ट्या प्रकृतिप्रत्ययादिसद्भावाद- नुमितसत्त्वाः, व्यवहारे तु न दृश्यन्त इत्युक्तम् । न त्वहं लोक इति । यथा लोकोऽर्थावगमाय शब्दान्प्रयुङ्क्ते नैवं मयैतेऽर्थे प्रयुक्ता अपि तु स्वरूपपदार्थका इत्यर्थः । अनुवाद—अप्रयुक्त (शब्दराशि) है— निश्चय ही अप्रयुक्त शब्द भी हैं, जैसे कि ऊष, तेर, चक्र, पेच इत्यादि । इससे क्या यदि (वे) अप्रयुक्त हैं । क्योंकि आप प्रयोग से ही शब्दों का साधुत्व निश्चय करते हैं। जो अब अप्रयुक्त हैं, सम्भवतः वे असाधु हों । यह तो (परस्पर) विरुद्ध है—जो कहा गया है—'शब्द हैं और अप्रयुक्त (भी) हैं । यदि हैं (तो) अप्रयुक्त नहीं हैं, यदि अप्रयुक्त हैं (तो) हैं नहीं, हैं (भी) और अप्रयुक्त (भी) हैं, यह परस्पर विरुद्ध है । प्रयोग करते हुए ही आप कह रहे हैं—'शब्द अप्रयुक्त हैं।' और कौन आप जैसा दूसरा पुरुष शब्दों के प्रयोग में कुशल होगा ।