याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 104, कुल 782 में से
संदर्भ में पढ़ें४८ याज्ञवल्क्यस्मृतिः नाश्नीयादक्षमनापदि । मतं विपक्वं विहितं अन्नं प्रीतिपूर्वकम्' ॥ १०५ ॥ भाषा—बालक, (पिता के घर में रहने वाली) विवाहिता स्त्री, वृद्ध, गर्भवती, रोगी, कन्या, अतिथि और सेवकों के भोजन कराने के बाद शेष भोजन पति-पत्नी ग्रहण करें ॥ १०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा । अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १०६ ॥ भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणाऽन्नमनग्नममृतं च कार्यम् । 'द्विजन्म' ग्रहणमुपनयनप्रभृतिसर्वाश्रमसाधारणार्थम् ॥ १०६ ॥ भाषा—भोजन करते समय द्विज को ऊपर और नीचे आपोशन (मन्त्र पढ़कर आचमन) करके अन्न को अनग्न और अमृत करना चाहिए ॥ १०६ ॥ आतिथित्वेन वर्णानां देयं शक्त्यानुपूवैशः । अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ॥ वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामातिथित्वेन युगपत्प्राप्तानां ब्राह्मणाद्यानु- पूर्व्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्योऽ- प्रत्याख्येय एव। यद्यप्यदनीयं किमपि नास्ति, तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)—'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति १०७ ॥ भाषा—यदि ब्राह्मणादि कई वर्णों के अतिथि हों तो वर्ण क्रम से यथा शक्ति भोजन देना चाहिए। यदि सायंकाल भी अतिथि आ जाय तो उसे निराश नहीं करना चाहिए अपितु मधुर वचन, भूमि, तृण और जल से उसका सत्कार करना चाहिए ॥ १०७ ॥ सत्कृत्य भिक्षवे भिक्षा दातव्या संव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १०८ ॥ भिक्षवे सामान्ये भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य 'भिक्षादानमप्सुपूर्वम् (गौतम.) इत्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता। ग्रासश्च मयूरऽण्डपरिमाणः, 'ग्रासमात्रा भवेद्भिक्षा पुष्कलं तच्चतुर्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तन्त्रिगुणं भवेत् ॥' इति शातातप- स्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान् भोजयेत् । सखायो १. यथाहेत्यादि मनुवचनं, नैवास्ति । २. सुव्रताय ।