याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
४८ याज्ञवल्क्यस्मृतिः नाश्नीयादक्षमनापदि । मतं विपक्वं विहितं अन्नं प्रीतिपूर्वकम्' ॥ १०५ ॥ भाषा—बालक, (पिता के घर में रहने वाली) विवाहिता स्त्री, वृद्ध, गर्भवती, रोगी, कन्या, अतिथि और सेवकों के भोजन कराने के बाद शेष भोजन पति-पत्नी ग्रहण करें ॥ १०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा । अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १०६ ॥ भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणाऽन्नमनग्नममृतं च कार्यम् । 'द्विजन्म' ग्रहणमुपनयनप्रभृतिसर्वाश्रमसाधारणार्थम् ॥ १०६ ॥ भाषा—भोजन करते समय द्विज को ऊपर और नीचे आपोशन (मन्त्र पढ़कर आचमन) करके अन्न को अनग्न और अमृत करना चाहिए ॥ १०६ ॥ आतिथित्वेन वर्णानां देयं शक्त्यानुपूवैशः । अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ॥ वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामातिथित्वेन युगपत्प्राप्तानां ब्राह्मणाद्यानु- पूर्व्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्योऽ- प्रत्याख्येय एव। यद्यप्यदनीयं किमपि नास्ति, तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)—'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति १०७ ॥ भाषा—यदि ब्राह्मणादि कई वर्णों के अतिथि हों तो वर्ण क्रम से यथा शक्ति भोजन देना चाहिए। यदि सायंकाल भी अतिथि आ जाय तो उसे निराश नहीं करना चाहिए अपितु मधुर वचन, भूमि, तृण और जल से उसका सत्कार करना चाहिए ॥ १०७ ॥ सत्कृत्य भिक्षवे भिक्षा दातव्या संव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १०८ ॥ भिक्षवे सामान्ये भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य 'भिक्षादानमप्सुपूर्वम् (गौतम.) इत्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता। ग्रासश्च मयूरऽण्डपरिमाणः, 'ग्रासमात्रा भवेद्भिक्षा पुष्कलं तच्चतुर्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तन्त्रिगुणं भवेत् ॥' इति शातातप- स्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान् भोजयेत् । सखायो १. यथाहेत्यादि मनुवचनं, नैवास्ति । २. सुव्रताय ।
आचाराध्यायः ४६ मित्राणि, सम्बन्धिनो येभ्यः कन्या गृहीता दत्ता वा, मातृपितृसम्बन्धिनो १ बान्धवाः ॥ १०८ ॥ भाषा - भिखारी को और ब्रह्मचारी को सत्कारपूर्वक भिक्षा देनी चाहिए । ( भोजन के ) समय पर आये हुए मित्र, संबन्धी और बान्धव को भोजन करावे ॥ १०८ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ॥ १०९ ॥ महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् ‘भवदर्थ- मयमस्माभिः परिकल्पितः’ इति। तत्प्रीत्यर्थं, नतु दानाय व्यापादनाय वा, यया सर्वमेतद्भवदीयमिति, प्रतिश्रोत्रियमूचासम्भवात्, अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु’ (आ. १५३) इति निषेधाच्च । तस्मात्सत्क्रियोद्येव कर्तव्यम् । सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्नुपविष्टे पश्चादुप- वेशनमन्वासनम्, स्वादु भोजनं मिष्टमन्नम्, सूनृत वचः ‘धन्या वयमद्य भवदागमनात्’ इत्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने’ ( ५।४१ ) इति गौतमोक्तं वेदितव्यम् ॥ १०९ ॥ भाषा-श्रोत्रिय ( वेदपाठी ) अतिथि के लिए बड़ा बैल या बड़ा बकरा उसके सम्मुख प्रस्तुत करे । ( उसके उपरान्त ) उसका ( पाद्यार्घ्य, आचमन आसन आदि से ) स्वागत करे; ( उसके बैठने पर ) निकट बैठे, मधुर भोजन करावे और प्रिय वचन बोले ॥ १०९ ॥ प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः । प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ ११० ॥ स्नातको विद्यास्नातकः, व्रतस्नातकः, विद्याव्रतस्नातकः इति । समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः, समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः, उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः। आचार्य उक्तलक्षणः, पार्थिवो वक्ष्यमाणलक्षणः, प्रियो मित्रम्, विवाह्यो जामाता । चक्राराच्छ्वशुरपितृव्यमातुलानां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरे- त्स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलादीनां च’ इत्याश्वलायन ( गृ. सू. अ. १. खं. ४ ) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता अर्घ्याः मधुपर्केण . पूज्या वन्दितव्याः । ‘अर्घ’ शब्दो मधुपर्कं लक्षयति । ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ ११० ॥ १. संबद्धा बान्धवाः । २. याद्येव कर्तव्यं । ४ या०
५० याज्ञवल्क्यस्मृतिः भाषा-स्नातक, आचार्य, राजा, प्रिय मित्र और दामाद का प्रतिवर्ष (अपने घर बुलाकर) अर्घ्य (मधुपर्क) द्वारा सत्कार करे तथा ऋत्विज को प्रत्येक यज्ञ के समय मधुपर्क से पूजा करे ॥ ११० ॥ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ ॥ अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रह्मलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसम्पन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापनक्षमो १ वेदपारगः ॥ १११ ॥ भाषा-पथिक को अतिथि समझना चाहिए । श्रोत्रिय (अर्थात् वेदपाठी) और वेद का पंडित (यदि पथिक हों तो) ब्रह्मलोक प्राप्ति की कामना रखने वाले गृहस्थ के लिये ये दोनों मान्य अतिथि होते हैं ॥ १११ ॥ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ ११२ ॥ परपाके रुचिर्यस्यासौ स परपाकरुचिः, नैव परपाकरुचिः स्यात् । अनिन्द्येना- मन्त्रणं विना; ‘अनिन्द्येनामन्त्रितो नापक्रामेत्’ (कात्यायन) इति स्मरणात् । वाक्पाणिपादचापल्यं-वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं, वर्जयेत् । वाक्चापल्यमसभ्यानृतादिभाषणम्, पाणिचापल्यं वेत्रगात्रास्फोटनादि, पादचापल्यं लङ्घनोत्प्लवनादि । चकारान्नेत्रादिचापल्यं च वर्जयेत्, ‘न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्’ (९।५०) इति गौतमस्मरणात् तथा अतिभोजनं च वर्जयेत्; अनारोग्यादिहेतुत्वात् ॥ ११२ ॥ भाषा-श्रेष्ठ व्यक्ति के निमन्त्रण के बिना दूसरे के भोजन की इच्छा न करे । (भोजन के समय) वाणी, हाथ और पैर की चपलता न करे और आवश्यकता से अधिक भोजन न करे ॥ ११२ ॥ अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् । अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३ ॥ पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावदनु- व्रजेत् । ततो भोजनान्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥ १. अध्ययनक्षमो । २. कल्याण ।
भाषा—श्रोत्रिय ( वेदपाठी एवं वेद के पण्डित ) अतिथि को ( भोजन द्वारा ) तृप्त करके ( गांव की ) सीमा तक पहुँचावे । ( भोजन के बाद ) दिन का शेष समय सभ्य जनों एवं इष्ट ( काव्यकथा में चतुर ) बन्धुओं के साथ बैठकर बितावे ॥ ११३ ॥ उपास्य पश्चिमां संध्यां हुत्वाऽग्नींस्तानूपास्य च । भृत्यैः परिवृतो भुक्त्वा नातितृप्तस्तथाथ संविशेत् ॥ ११४ ॥ ततः पूर्वोक्तेन विधिना पश्चिमां सन्ध्यामुपास्य, आहवनीयादीनग्नीनग्निं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्त्या भुक्त्वा, चकारात् आय-व्ययादिगृहचिन्तां निर्वर्त्यानन्तरं संविशेत्स्वप्यात् ॥ ११४ ॥ भाषा—( तब पूर्वोक्त विधि से ) सायंकालीन सन्ध्योपासना करके ( आहवनीय आदि ) अग्नियों में हवन करके उन अग्नियों की उपासना करे; तब भृत्यों के साथ भोजन करे किन्तु तृप्ति से अधिक भोजन न करे और तदुपरान्त शयन करे ॥ ११४ ॥ ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् । धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥ ११५ ॥ ततो ब्राह्मे मुहूर्ते उत्थाय पश्चिमेऽर्धप्रहरे प्रबुद्ध्यात्मनो हितं कृतं करिष्यमाणं च, वेदार्थसंशयांश्च चिन्तयेत् तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिभान- योग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासम्भवं सेवेतेत्यर्थः, पुरुषार्थत्वात् । यथाह गौतमः ( ९।४६-४७)—'न पूर्वाह्नमध्याह्नापराह्नानफलान्कुर्यात् धर्मार्थकामेभ्यः', 'तेषु धर्मोत्तरः स्यात् इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं, तथापि कामार्थयोर्धर्माविरोधेनानुष्ठानं तयोर्धर्ममूलत्वात् । एवं प्रतिदिनमनुष्ठेयम् ॥ ११५ ॥ भाषा—ब्राह्म मुहूर्त में उठकर अपने ( किए गए एवं किये जाने वाले ) हित का विचार करे । धर्म, अर्थ और काम को उनके उचित समय पर यथाशक्ति परित्याग न करे ( अपितु उनका सेवन करे ) ॥ ११५ ॥ विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् । एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ ११६ ॥ विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्तं च, वयः आत्मनोऽतिरिक्तं सहस्रा वा ऊर्ध्वं, ४बन्धुः स्वजनसम्पत्तिः, वित्तं ग्रामरत्नादिकम्, एतैर्युक्ताः क्रमेण मान्याः १. नातितृप्त्याथ । २. अग्निमग्नीन्वा । ३. प्रतिभानसन । ४. बन्धुर्बहुस्वजन । ५. पञ्चाशरीरः ।
पूजनीयाः । एतैर्विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर्व्यस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूर्ध्वं मानमर्हति, ‘शूद्रोऽप्यशीतिको वरः’ (६।७) इति गौतमस्मरणात् ॥ ११६ ॥ भाषा—विद्या, कर्म, आयु, बन्धुओं और धन से युक्त मनुष्य क्रमानुसार माननीय होते हैं । इन सबसे (या किसी एक से) बड़ा होने पर वृद्धावस्था में शूद्र भी आदरणीय होता है ॥ ११६ ॥ वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यः १स्नातश्च भूपतेः ॥ ११७ ॥ वृद्धः पक्वकेशः प्रसिद्धः, भारी भाराक्रान्तः, नृपो २भूपतिः न क्षत्रियमात्रम्, स्नातो विद्याव्रतोभयस्नातकः, स्त्री प्रसिद्धा, रोगी व्याधितः, वरो विवाहोद्यतः, चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम्, ‘बालवृद्धमत्तोन्मत्तोपहत- देहभाराक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्खस्मरणात् । एभ्यः पन्था देयः। एतेष्वैभिमुख्यायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेरपि स्नातको मान्यः, ‘स्नातक’ग्रहणं स्नातकमात्रप्राप्त्यर्थं, न ब्राह्मणाभिप्रायेण; तस्य सदैव गुरुत्वात् । तथाह शङ्खः- ‘अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्ठं गुरुर्ज्येष्ठश्च ब्राह्मणो राजा- नमतिशेते तस्मै पन्था’ इति । वृद्धादीनां परस्परं पथि समवाये वृद्धेतराद्यपेक्षया विद्यादिभिर्वा विशेषो द्रष्टव्यः ॥ ११७ ॥ भाषा—वृद्ध, बोझा ढोने वाले, राजा, स्नातक (ब्रह्मचारी), स्त्री, रोगी, वर और चक्री (सुराकार) के लिये मार्ग छोड़ देना चाहिए । इन सब में राजा सर्वाधिक मान्य होता है और स्नातक राजा के लिये भी पूज्य होता है ॥ ११७ ॥ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ ११८ ॥ वैश्यस्य क्षत्रियस्य च; चकाराद् ब्राह्मणस्य द्विजानुलोमानां च, यागाध्ययन- दानानि साधारणानि कर्माणि, ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति । स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । तथाह गौतमः (१०।५-६)— ‘कृषिवाणिज्ये वा स्वयं कृते’ ‘कुसीदं च’ इति । अध्यापनं तु क्षत्रियवैश्ययोर्ब्राह्मण- प्रेरितयोर्भवति, न स्वेच्छया; ‘आपत्काले ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः,
१. स्नातकस्तु । २. नृपो राजा न । ३. ष्वाभिमुख्यागतेषु ४. याजनप्रतिग्रहाः ।
आचाराध्यायः ५३ अनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः' (७।१, २।३) इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि, त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि, 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०।१६) मनुस्मरणात् । अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि, 'द्विजातीनामध्ययनमिज्या दानं, 'ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः', 'पूर्वेषु नियमः' (१०।१-३) इति गौतमस्मरणात् ॥ ११८ ॥ भाषा—यज्ञ करना, (वेदादि का) अध्ययन और दान—ये कर्म क्षत्रिय और वैश्य को करने होते हैं । ब्राह्मण के लिये दान लेना, यज्ञ कराना और अध्यापन ये कर्म (क्षत्रिय और वैश्य से) अधिक होते हैं ॥ ११८ ॥ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥ क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीद- कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः, लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्; 'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्- पशुकृषी विशः। आजीवनाथं धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०।७९) मनुस्मरणात् ॥ ११९ ॥ भाषा—प्रजा का पालन करना क्षत्रिय का प्रधान कर्म है । वैश्य के लिये ब्याज लेना, कृषि, वाणिज्य और पशु-पालन (वृत्त्यर्थक) कर्म बताए गये हैं ॥ ११९ ॥ शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितंमाचरन् ॥ १२० ॥ शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः, 'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' (१०।१२३) इति मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजाति- शुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देव- लोकोक्तानि—शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणकर्षणपशुपालनभारो- द्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥ १. हितमाचरेत् ।
५४ याज्ञवल्क्यस्मृतिः भाषा—शूद्र के लिये द्विजातियों की सेवा प्रधान कर्म है; उससे जीविका न चलने पर वणिक्वृत्ति का आश्रय ले अथवा द्विजातियों के अनुकूल आचरण करते हुए अनेक प्रकार के शिल्पों द्वारा जीवन निर्वाह करे ॥ १२० ॥ भार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियारतः¹ । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ॥ किञ्च, भार्यायामेव न साधारणस्त्रीषु परस्त्रीषु वा रतिरभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत्, भृत्यादेर्भर्ता, श्राद्धक्रियारतः, श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकतन्त्रान्यविरुद्धानि, तेषु रतः । ‘नम’ इत्यनेन मन्त्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठेत् । नमस्कार- मन्त्रं च केचित्—‘देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥’ इति वर्णयन्ति । ‘नमः’ इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽग्नौ कर्तव्यं, न वैवाहिकेऽग्नावित्याचार्याः ॥ १२१ ॥ भाषा—अपनी पत्नी में ही रत रहे, (द्विजों के समान ही) पवित्र रहे, भृत्यों का पालन पोषण करे, श्राद्ध कर्म करे तथा नमस्कार के मन्त्र के साथ पञ्च महायज्ञों को न छोड़े ॥ १२१ ॥ इदानीं साधारणधर्मानाह— अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १२२ ॥ हिंसा प्राणिपीडा, तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवचनम्, अस्तेयमदत्तानुपादानम्, शौचं बाह्याभ्यन्तरं च, बुद्धिकर्मेन्द्रियाणां नियतविषयवृत्तिस्तेनिन्द्रियनिग्रहः । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि चित्तस्याविकारः क्षान्तिः । इत्येते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं² धर्मसाधनम् ॥ १२२ ॥ भाषा—अहिंसा, सत्य, चोरी न करना, पवित्रता, इन्द्रियों का संयम, दान देना, (अन्तःकरण का) संयम, (दुःखियों पर) दया और धैर्य धारण करना— ये सभी व्यक्तियों के लिये धर्म के साधन हैं ॥ १२२ ॥ वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ ॥ १. क्रियापरः । २. जाचाण्डालान्तं ।
आचाराध्यायः ५५ वयो बाल्ययौवनादि, बुद्धिनैसर्गिकी लौकिकवैदिकव्यवहारेषु, १ अर्थो वित्तं गृहक्षेत्रादि, वाक् २ कथनम्, वेषो वस्त्रमाल्यादिविन्यासः, श्रुतं पुरुषार्थशास्त्रश्रवणम्, अभिजनः कुलम्, कर्म वृत्त्यर्थं प्रतिग्रहादि, एतेषां वयःप्रभृतीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्वपि योज्यम् । अजिह्रामनक्राम्, अशठाममत्सराम् ॥ १२३ ॥ भाषा—आयु, बुद्धि, धन, वाणी, वेष, शास्त्रज्ञान एवं कर्म के उपयुक्त ऐसी जीवन-वृत्ति स्वीकार करनी चाहिए, जो टेढ़ी और मत्सर-युक्त न होवे ॥ १२३ ॥ एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रौतानि कर्माण्यनुक्रामति— त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १२४ ॥ त्रिवर्षजीवनपर्याप्तं त्रैवार्षिकं अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान्नातोऽल्पधनः, (मनु. ११।८)—'अतः स्वल्पपीयसि द्रव्ये यः सोमं पिबति एतच्च काम्याभिप्रायेण नित्यस्य चावश्यककर्त्तव्यत्वाच्च नियमः । यस्य वर्षजीवनपर्याप्तमन्नं भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं, प्राक्सोमंभवः प्राक्सौमिक्यः । कास्ताः ? अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि काम्यानि कर्माणि तद्विकारांश्च । ताः क्रियाः कुर्यात् ॥ १२४ ॥ भाषा—तीन वर्ष तक खाने से अधिक अन्न रखने वाला द्विज सोमपान करे । जिसके यहाँ केवल एक वर्ष के लिये अन्न हो वह (अग्निहोत्र, दर्शपूर्णमास, आग्रयण, पशु चातुर्मास्य आदि) सोम यज्ञ से पहले की जाने वाली क्रियाएँ करे ॥ १२४ ॥ एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह— प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १२५ ॥ संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययनं अयने अयने दक्षिणोत्तर- संज्ञिते निरूढः पशुयागः कार्यः । तथा प्रतिसंवत्सरं वा; 'पशुना संवत्सरे संवत्सरे यजेत, षट्सु षट्सु वा मासेष्वित्येके' इति बौधायनस्मरणात् । आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १२५ ॥ १. व्यवहारेषु ज्ञानं । २. बचनम् । ३. सोमयागं । ४. पूर्णमासपशु । पूर्णमासचातुर्मास्यानि । ५. र्मास्यानि कर्माणि ।
५६ याज्ञवल्क्यस्मृतिः भाषा—प्रतिवर्ष सोमयज्ञ करे, अयन-अयन ( दक्षिणायन और उत्तरायण ) में निरूढपशुयाग करे । ( नये अन्न की उत्पत्ति पर ) आग्रयणेष्टि करे और चातुर्मास्ययज्ञ प्रतिवर्ष करना चाहिए ॥ १२५ ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः। हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६ ॥ एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथञ्चिदसम्भवे तत्काले वैश्वानरीमिष्टिं कुर्यात् । किञ्च योऽयं हीनकल्प उक्तः, सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमिति ॥ १२६ ॥ भाषा—यदि ये ( सोमयाग आदि ) संभव न हो सकें तो द्विज को वैश्वानरी इष्टि करनी चाहिए । धन रहने पर यह हीनकल्प नहीं करना चाहिए तथा काम्य हीनकल्प तो करना ही नहीं चाहिए ॥ १२६ ॥ चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् । यज्ञार्थं लब्धमददद् भासः काकोऽपि वा भवेत् ॥ १२७ ॥ यज्ञार्थं शूद्रधनयाचनेन स जन्मान्तरे चाण्डालो जायते । यः पुनर्यज्ञार्थं याचितं न^१ सर्वं प्रयच्छति न त्यजति, स भासः काकोऽपि वा वर्षशतं भवेत् । यथाह मनुः ( ११।२५ )—'यज्ञार्थमर्थं भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥' इति । भासः शकुन्तः । काकः प्रसिद्धः ॥ १२७ ॥ भाषा—यज्ञ के लिए शूद्र से धन माँगने पर ( द्विज ) दूसरे जन्म में चण्डाल होकर जन्म लेता है । यज्ञ के लिये प्राप्त सम्पूर्ण धन को न दे देने वाला भास ( पक्षी ) या कौआ होता है ॥ १२७ ॥ कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । कुशूलं कोष्ठकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहः पर्याप्तं धान्यम- स्यास्तीति त्र्याहिकः । श्वोभवं धान्यादिकं श्वस्तनम्, न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥ कुशूलधान्यादिसञ्चयोपायमाह— जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १२८ ॥ १. न परित्यजति ।
आचाराध्यायः ५७ १शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलं, एकैकस्य परित्यक्तस्य कणस्योपादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छम्, तेन शिलेनोञ्छेन वा। कुसूलधान्यादिश्चतुर्विधो गृहस्थो जीवेत्। एषां कुसूलधान्यादीनां २ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात्पश्चात्पठितः ३श्रेयान् प्रशस्यतमः। एतच्च यद्यपि द्विजः ४प्रकृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति, विद्योपशमादियोगात्। तथा च मनुना (४।२)-'अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥' इति विप्रमेव ५प्रस्तुत्य मनुः (४।७)- कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितम्। एतच्चातिसंचयं६ यायावरं प्रत्युच्यते, न विप्रमात्रामिप्रायेण। तथा सति-'त्रैवार्षिकादिकास्तो यः स हि सोमं पिबेद् द्विजः' (आ. १२६) इत्यनेन विरोधः। तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम्। यथाह देवलः-'द्विविधो गृहस्थो यायावरः शालीनश्च। तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसञ्चयवर्जनात्। षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः' इति। शालीनोऽपि चतुर्विधः-याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपाल्यैः षड्भिर्जी- वत्येकः, याजनादिभिस्त्रिभिरन्यः, याजनाध्यापनाभ्यामपरः, चतुर्थस्त्वध्यापनेनैव। तथाह मनुः (४।९)-'षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥' इति। अत्र च 'प्रतिग्रहोऽधिको विप्रे' (आ. ११८) इत्यादिना शालीनस्य वृत्तयो दर्शिताः। यायावरस्य 'जीवेद्वापि शिलोञ्छेन' इति ॥ १२८ ॥ भाषा-कोठिली भर (बारह दिन के खर्चे भर) अन्न वाले, घड़े भर (छः दिन के खर्चे भर) अन्न वाले, तीन दिन के खर्चे भर अन्न वाले, दिन भर के भोजन योग्य अन्न वाले और खेतों में गिरे हुए अन्न को बीन कर जीवन निर्वाह करने वाले व्यक्तियों में पहले वाले से बाद वाले उत्तरोत्तर श्रेष्ठ होते हैं ॥ इति गृहस्थधर्मप्रकरणम्। अथ स्नातकधर्मप्रकरणम् एवं श्रौत-स्मार्तानि कर्माण्यभिधायेदानीं गृहस्थस्य स्नानादारभ्य ब्राह्मण- स्यावश्यकर्तव्यानि विधि-प्रतिषेधात्मकानि मानससङ्कल्परूपाणि स्नातक- व्रतान्याह- न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः। न विरुद्धप्रसङ्गेन सन्तोषी च भवेत्सदा ॥ १२९ ॥ १. शाल्यादेर्निपतित । २. ब्राह्मणानां चतुर्णां । ३. श्रेयानुत्कृष्टतमः । ४. प्रकृतः प्रकरणप्राप्तः प्राकृतः । ५. पुरस्कृत्य । ६. नातिसम्पन्नसंयतं ।
५८ याज्ञवल्क्यस्मृतिः ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः तत्र विशेष उच्यते— स्वाध्यायविरोधिमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न यतस्ततः न यतः कुतश्चिदविदिताचाराच्च । विरुद्धप्रसङ्गेन विरुद्धमयाज्ययाजनादिप्रसङ्गो नृत्य- गीतादिः । विरुद्धं च प्रसङ्गश्च विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति सम्बद्ध्यते । नञ्- आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किञ्चिदर्थलाभेऽपि सन्तोषी परितुष्टो भवेत् । चकारात्संयतश्च. ‘संतोषं परमास्थाय सुखार्थी संयतो भवेत्’ ( ४।१३ ) इति मनुस्मरणात् ॥ भाषा—अपने स्वाध्याय के विरोधियों से धन अर्जित करने की इच्छा न करे, इधर-उधर अविचारित स्थान से या ( अपने कर्म के) विरुद्ध कार्य ( जैसे नृत्य-गीत आदि ) द्वारा धन कमाने की अभिलाषा न रखे । सदैव सन्तोष रखे ॥ १२९ ॥ कुतस्तर्हि धनमन्विच्छेदित आह— राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डिवकवृत्तींश्च वर्जयेत् ॥ १३० ॥ क्षुधा सीदन् पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच्च, धनमाददीत । ‘क्षुधा सीदन्’ इत्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न १कुतश्चिदर्थमन्विच्छेदिति गम्यते । किञ्च दम्भिहैतुकादीन् सर्वकार्येषु वर्जयेत् । चकाराद्विकर्मस्थबैडालव्रतिकान्शठान् । यथाह मनुः ( ४।३० )—‘पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्शठान् । हैतुकाम्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥’ इति । लोकप्रदर्शनार्थमेव कर्मानुष्ठायी दम्भी, युक्तिबलेन सर्वत्र संशयकारी हैतुकः, त्रैविद्यविरुद्धपरिगृहीताश्रमिरणः पाखण्डिनः । बकवदस्य वर्त्तनमिति बकवृत्तिः । यथाह मनुः ( ४।१९६ )— ‘अधोदृष्टिर्नैकृतिकः३ स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकवृत्ति- रुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणमाह मनुः ( ४।१९५ )—‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥’ इति । शठः = सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयमेवम्भूतो न भवेदिति गम्यते ॥ १३० ॥ भाषा - भूख से व्याकुल होने पर राजा, अन्तेवासी और यज्ञ कराने योग्य व्यक्ति से धन-प्राप्ति की इच्छा करे, परन्तु अहंकारी, संशय की दृष्टि १. कुतश्चिद्धनमन्वि । २. वृत्तिकशठान् । ३. नैष्कृतिकः ।
आचाराध्यायः ५६ रखने वाले, पाखंडी, और बगुलाभगत के निकट (धन को इच्छा से) न जावे ॥ १३० ॥ शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ ॥ किञ्च, शुक्ले धौते अम्बरे वाससी धरतीत शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखम्, नीचं निकृत्त केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिरन्तर्बहिश्च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः (९।२)—'स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः' इति । सुगन्धित्व- विधानादेव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः—'नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्नस्रजः' इति । सदा स्नातक एवम्भूतो भवेत् । एतच्च सति सम्भवे; 'न जीर्णमलवद्वासा भवेच्च विभवे सति' (मनु. ४।३४) इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्नीयात्, अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः—'जायाया अन्ते नाश्नीयाद्वोर्यवदपत्यं भवति' इति । अतस्तया सह भोजनं दूरादेव निरस्तम् । न चैकवासाः, न १संस्थितः 'अश्नीयात्' इति सम्बध्यते ॥ १३१ ॥ भाषा—स्वच्छ वस्त्र धारण करे, केश, दाढ़ी-मूँछ और नखों को काट कर छोटा रखे, (स्नान एवं सुगन्धिलेप द्वारा) पवित्र रहे । पत्नी के सामने, एक वस्त्र पहन कर और खड़ा होकर भोजन न करे ॥ १३१ ॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १३२ ॥ किञ्च, कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं २किञ्चिदपि परुषं अप्रियं उद्वेगकरं वाक्यं न वदेत् । न चाहितं, नानृतं वा प्रियमपि, चकारात् असत्यं बीभत्सकरं च, अकस्मात् वदेदिति सम्बध्यते । एतच्च परिहासादि- व्यतिरेकेण, 'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' इति स्मरणात् । न च स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्धुषी स्यात् । प्रतिषिद्धवृद्ध्युप- जीवी वार्धुषी ॥ १३२ ॥ भाषा—जिस कार्य में प्राणों का संशय हो उस कर्म में प्रवृत्त न होवे; अकस्मात् (बिना कारण के) अप्रिय वचन वचन न बोले; अहितकारी और १. संस्थित उत्थितः । २. कञ्चिदपि पुरुषं स्त्रियमप्रियं ।
६० / याज्ञवल्क्यस्मृतिः असत्य ( तथा अश्लील ) वचन भी न बोले; चोर न बने एवं ( निषिद्ध ) व्याज से वृत्ति न चलावे ॥ १३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १३३ ॥ किञ्च, दाक्षायणं सुवर्णम्, १तदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदस्यास्तीति ब्रह्मसूत्री, वैणवयष्टिमान्, कमण्डलुमान्, 'स्यात्' इति सर्वत्र सम्बन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः—'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्र च दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम्, 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' ( ४।३६ ) इति मनु- स्मरणात् । तं२दा देवं देवप्रतिमाम्, मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतिं अश्वत्थादिकं प्रदक्षिणं कुर्यात् । एतान्प्र३दक्षिणतः कृत्वा प्रब्रजेदित्यर्थः । एवं चतुष्पथादीनपि 'मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' ( ४।३९ ) इति मनुस्मरणात् ॥ १३३ ॥ भाषा—सदैव दाक्षायण ( सोने का कुण्डल ), यज्ञोपवीत, डंडा और कमण्डलु लिये रहे। देवमूर्ति, ( तीर्थ की ) मिट्टी, गाय, ब्राह्मण और ( पीपल आदि ) वृक्षों की परिक्रमा करे ॥ १३३ ॥ न तु मेहेन्नदीछायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात्, एवं श्मशानादावपि । यथाह शङ्खः—'न गोमयकृष्टशष्पशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत्, भूताधारत्वात्' इति । तथाग्न्यादीन्प्रति अग्न्यादीनामभिमुखं न मेहेत्, नाप्येतान्पश्यन् । यथाह गौतमः ( ९।१२ )—'न वाय्वग्निविप्रादित्या- पोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्याम्युदस्येत्, न देवताँः प्रति पादौ प्रसारयेत्' इति । एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रं७पुरीषे कुर्यादिति । यथाह वसिष्ठः—'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥
१. तद्वान्, तद्धारणात् । २. एवं देवं देवताचीं । ३. प्रदक्षिणतः । ४. प्रत्यर्काग्निगो । ५. श्मशानवल्मीक । ६. नैतान् प्रति । ७. मेहनं कार्यं ।
आचाराध्यायः ६१ भाषा—नदी, छाया, मार्ग, गोशाला, जल और भस्म में मूत्र एवं मल का त्याग न करे । अग्नि, सूर्य, गाय, चन्द्रमा, संध्या, जल, स्त्री और द्विज की ओर मुँह कर भी (मूत्र एवं पुरीष) न करे ॥ १३४ ॥ नैक्षेताकं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ॥ नैवार्कमिक्षेतेति यद्यप्यत्र सामान्येनोक्तं, तथाप्युदयास्तमयराहुग्रस्तोदक- प्रतिबिम्बमध्याह्नवत्तिन एवादित्यस्यावेक्षणं निषिध्यते, न सर्वदा । यथोक्तं मनुना (४।३७)—'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत । न नग्नां स्त्रियमिक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते नग्नामपि नेक्षेत । चकाराञ्जनादिकमाचरन्तीम् । तथा च मनुः (४।४३)—'नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्, 'न चोदके निरीक्षेत स्वं रूपमिति धारणा (मनु. ४।३८) इति वचनात् ॥ १३५ ॥ भाषा—(उदय, अस्त, राहुग्रस्त, जल में प्रतिबिम्बित एवं मध्याह्न- कालीन) सूर्य को, (संभोग के अतिरिक्त अन्यत्र) नंगी स्त्री को, जिसके साथ सद्यः मैथुन किया गया हो ऐसी (अनग्ना) स्त्री को, मूत्र तथा पुरीष को और अपवित्र रहते राहु एवं तारों को न देखे ॥ १२५ ॥ अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १३६ ॥ वर्षति सति 'अयं मे वज्रः पाप्मानमंपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात्; न च प्रत्यक्शिराः स्वप्यात् । चकारान्नग्नो न शयांत । एकश्च शून्यगृहे न च नग्नः शयीतेति । 'नैकः सुप्याच्छून्यगेहे' (४।५७) मनुस्मरणात् ॥ १३६ ॥ भाषा—वर्षा होने पर 'अयं मे वज्रः पाप्मानमपहन्तु' मन्त्र का उच्चारण करे । (वर्षा में) छाता आदि से आच्छादित हुए बिना कहीं न जावे । पश्चिम की ओर शिर करके (और नंगा) न सोवे ॥ १३६ ॥ १. अपहनत् । २. ऽच्छादितो न स्यात् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥
६२ याज्ञवल्क्यस्मृतिः ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥ ष्ठीवनमुद्गिरणम्, असृक् रक्तं, शकृत् पुरीषं प्रसिद्धम्, एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः—‘तुषकेशपुरीषभस्मास्थिश्लेष्म- नखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्’ इति । अग्नौ च पादौ न प्रतापयेत् । नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्यग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथा च मनुः (४।५३)—नाग्नि मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ अधस्तान्नोपद्ध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणिवैध- माचरेत् ॥’ इति ॥ १३७ ॥ भाषा—थूक, रक्त, पुरीष, मूत्र, एवं वीर्य जल में न फेंके । अग्नि में पैरों को न सेंके और न उसे लाँघे ॥ १३७ ॥ जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १३८ ॥ जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । 'जल' ग्रहणं पेयमात्रोप- लक्षणम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नात्थापयेत् । 'श्रेयांसं न प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मघ्नैः पशुसम्भनादिभिर्न क्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैः सहकत्र न संविशेन्न शयीत ॥ भाषा—अंजलि से जल न पिए और न सोये हुए व्यक्ति को जगावे । जुआ न खेले, ( पशु हिंसक आदि ) धर्मभ्रष्ट व्यक्तियों के साथ न खेले और न रोगी व्यक्ति के पास सोवे ॥ १३८ ॥ विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥ जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं, बाहुभ्यां नदीतरणं च, वर्जयेदिति सम्बद्ध्यते । केशादिषु च संस्थितिं वर्जयेत् । चकारादस्थिकार्पासा- मेध्येषु च ॥ १३९ ॥ भाषा—( जनपद, गाँव और कुल के) विरुद्ध कर्म न करे । प्रेतधूम- स्पर्श और तैर कर नदी पार करना कार्य न करे । केश, भस्म, भूसी, अंगार और कपाल पर न बैठे ॥ १३९ ॥ १. मनुलङ्घयेत् । २. मतिलङ्घयेत् । ३. प्राणाबाध ।
आचाराध्यायः ६३ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १४० ॥ परस्य क्षीरादि १ पिबन्तीं गां परस्मै नाचक्षीत नच निवर्तयेत् । अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच कृपणस्य शास्त्राति- क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १४० ॥ भाषा—पीती हुई या (बछड़े को) पिलाती हुई गाय को अलग न करे और न उसके विषय में कहे । कहीं (गांव या मन्दिर में) उचितमार्ग को छोड़कर किसी और मार्ग से प्रवेश न करे । लोभी, शास्त्र के विपरीत आचरण करने वाले राजा का दान न ग्रहण करे ॥ १४० ॥ प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १४१ ॥ प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दशगुणं दुष्टः । सूना प्राणहिंसा साऽस्यास्तीति सूनी प्राणहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥ भाषा—दान लेने में वधिक, तेली, कलाल, वेश्या और राजा-ये यथाक्रम अपने पहले वाले से दस-दस गुना अधिक दोषी होते हैं ॥ १४१ ॥ अथाध्ययनधर्मानह— अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२ ॥ अधीयन्त इत्यध्याया वेदाः, तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा, स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति, तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धं चतुरो मासान्वेदानधी- यीत् । तथा च मनुः (४।९५)—'श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥' इति ॥ १४२ ॥ भाषा—(वेदों के) अध्ययन का उपाकर्म (आरम्भ) वनस्पतियों के उग आने पर श्रावण महीने की पूर्णमासी को या श्रवणनक्षत्र से युक्त दिन को अथवा हस्तनक्षत्र से युक्त श्रावण की पंचमी को करे ॥ १४२ ॥ १. क्षीरादि धयन्तीं गां । २. प्रतिग्रहेषु साध्येषु ।
६४ याज्ञवल्क्यस्मृतिः उत्सर्जनकालः— पौषमासस्य रोहिण्यामष्टकायामथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १४३ ॥ पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्बहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्गं कुर्यात् । यदा पुनभाद्रपदे मासि उपकर्म तदा माघ- शुक्लप्रथमदिवसे उत्सर्गं कुर्यात् । यथोक्तं मनुना ( ४।९६ )—‘पुष्ये तु छन्द- सां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥’ इति । तदनन्तरं पक्षिणमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गा- न्यधीयीत । यथाह मनुः ( ४।९७ )—‘यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाऽप्येकमहर्निशम् ॥ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इति ॥ १४३ ॥ भाषा—पौष मास की रोहिणी या अष्टमी को (गाँव से) बाहर जाकर जलाशय के निकट वेदों का (अपने गृह्यसूत्र में उक्त) विधि के अनुसार उत्सर्ग करे ॥ १४३ ॥ अनध्यायानाह— त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १४४ ॥ उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यर्त्विग्गुरुबन्धुषु प्रेतेषु मृतेषु त्र्यह- मनध्यायस्त्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि च प्रेते त्र्यहमनध्यायः ॥ १४४ ॥ भाषा—शिष्य, ऋत्विज, गुरु और बन्धु (सजाति) के मरने पर, उपाकर्म (एवं वेदोत्सर्ग कर्म) के उपरान्त तथा अपनी शाखा का अध्ययन करने वाले किसी व्यक्ति की मृत्यु पर तीन दिनों तक अनध्याय होता है ॥ १४४॥ संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १४५ ॥ संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्का- पतने, मन्त्रस्य ब्राह्मणस्य वा समाप्तौ, आरण्यकाध्ययने च द्युनिशमहोरात्र- मनध्यायः ॥ १४५ ॥
आचाराध्यायः ६५ भाषा—सन्ध्या समय मेघ का गर्जन होने पर, आकाश में उत्पात की ध्वनि होने पर, भूकम्प, उल्कापात (तारा टूटकर गिरने पर), वेद के मन्त्र या ब्राह्मण भाग की समाप्ति पर और आरण्यक का अध्ययन पूरा कर लेने पर एक दिन और रात का अनध्याय होता है ॥ १४५ ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १४६ ॥ पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्ययो- परागे च द्युनिशमनध्यायः । यत्तु—'त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके' (मनु. ४।११०) इति तद्ग्रस्तास्तविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतच्चैकोद्दिष्टव्यतिरिक्त- विषयम् ; तत्र तु त्रिरात्रम् मनुः (४।११०) - 'प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तयेद्ब्रह्म' इति स्मरणात् ॥ १४६ ॥ भाषा—अमावश्या, पौर्णमासी, चतुर्दशी, अष्टमी को चन्द्रग्रहण एवं सूर्यग्रहण के समय ऋतुओं के आरम्भ की प्रतिपदा को, श्राद्ध का भोजन करने पर तथा दान लेने पर (एक दिन-रात का अनध्याय होता है) ॥ १४६ ॥ पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः । कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १४७ ॥ अध्येतॄणां पश्वादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे, १उच्छ्राय- दिवसे चाहोरात्रमनध्यायः । द्युनिशमिति प्रकृते पुनः 'अहोरात्र' ग्रहणं संध्या- गर्जितनिर्घातभूकम्पोल्कानिपातेष्वाकालिकत्वज्ञापनार्थम् , 'आकालिकनिर्घात- भूकम्पराहुदर्शनोल्काः' ( १।३।२२ ) इति गौतमवचनात् । यस्मिन्कालादारभ्या- परेद्युर्यावांस्त एव कालस्तावत्काल अकालः, तत्र भव आकालिकोऽनध्यायः । एतच्च प्रातःसंध्यास्तनिते । सायसंध्यास्तनिते तु रात्रिमेव; २'सायंसंध्यास्तनिते तु रात्रिः, प्रातःसंध्योस्तनितेऽहोरात्रम्' इति हारीतस्मरणात् । यत्पुनर्गौतमेनोक्तं ( १।७९) 'श्वनकुलसर्पमण्डूकमार्जाराणामन्तरागमने ३त्र्यहमुपवासो विप्रवासश्च' इति तत्प्रथमाध्ययनविषयमेव४ ॥ १४७ ॥ भाषा—अध्ययन करने वालों के बीच किसी पशु, मेढक, नेवला, साही, बिल्ली या चूहा के आ जाने पर, इन्द्रधनुष उठने पर तथा उत्सव के समय एक दिन-रात (अनध्याय होता है) ॥ १४७ ॥ १. उत्सवदिवसे । २. संध्यामहोरात्रं । ३. मार्जाराणां त्र्यहं । ४. ध्ययनविषय एव । ५ या०
६६ याज्ञवल्क्यस्मृतिः श्वक्रोष्ट्रगर्दभोल्लूक सामवाणार्तनिःस्वने । अमेध्यशव शूदdryन्त्यश्मशान पतितान्तिके ॥ १४८ ॥ श्वा कुक्कुरः, क्रोष्टा शृगालः, गर्दभो रासभः, उलूको घूकः साम सामानि, वाणो वंशः, आर्तो दुःखितः, एषां श्वादीनां निःस्वने तावत्कालमनध्यायः । एवं वीणादिनिःस्वनेऽपि । - 'वेणुवीणाभेरीमृदङ्गगन्त्र्यार्तशब्देषु' (१६।७) इति गौतमवचनात् । गन्त्री शकटम् । अमेध्यादीनां सन्निधाने तावत्कालिकोऽन- ध्यायः ॥ १४८ ॥ भाषा - कुत्ता, सियार, गदहा, उल्लू, सामगान, बांस और दुःखित व्यक्ति का स्वर सुनाई पड़ने पर तथा अपवित्र वस्तु शव, शूद्र, अन्त्यज, श्मशान या पतित व्यक्ति के निकट होने पर (उस स्थिति की अवधि तक अनध्याय होता है) ॥ १४८ ॥ देशेऽशुचावात्मनि स विद्युत्स्तनितसंप्लवे । भुक्त्वाऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥ अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्स्तनितसंप्लवे पुनः पुनर्विद्योत- मानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनः पुनर्मेघघोषे तावत्कालिकोऽनध्यायः । भुक्त्वाऽर्द्रपाणिर्नाधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये, अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥ भाषा-अपवित्र स्थान पर, स्वयं अशुद्ध होने पर, बार-बार बिजली की चमक होने, मेघ के बार-बार गर्जन के समय, भोजन के उपरान्त, गीले हाथ रहने पर, जल के भीतर, आधी रात को और तीव्र वायु चलने पर उतने समय तक (अध्ययन नहीं करना चाहिए) ॥ १४९ ॥ १पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० ॥ औत्पातिके रजोवर्षे, दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तावत्कालमनध्यायः । धावतस्त्व- रितं गच्छतोऽनध्यायः । पूतिगन्धे कुत्सितगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्यनध्यायः ॥ १५० ॥ भाषा - धूल भरी आँधी उठने पर, दिशाओं के जलती हुई सी दिखाई पड़ने पर, दोनों सन्ध्याओं के समय धुंधले में और (चोर या राजा से) भय होने पर (तत्काल अनध्याय होता है)। दौड़ते समय, अपवित्र वस्तु की १. पांसुवर्षे दिशां दाहे पांसुवर्षे च दिग्दाहे । २. गृहमागते ।
आचाराध्यायः ६७ गन्ध आने पर (श्रोत्रियादि) शिष्ट व्यक्ति के घर पर (अनध्याय होता है) ॥ १५० ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १५१ ॥ यानं रथादि, इरिण^१मूषरं मरुभूमिर्वा, खरादीनामारोहणे तावत्कालमन- ध्यायः । एवं 'श्वक्रोष्टुगर्दभ-'इत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालि- कान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । 'विदुः इत्यनेन' स्मृत्यन्तरोक्तान- न्यानपि संगृह्णाति । तथाह मनुः (४।११२)—'शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्^३। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥' इत्यादि ॥ १५१ ॥ भाषा—गदहा, ऊँट, रथ, हाथी, घोड़ा, नौका वृक्ष पर चढ़ने और ऊसर भूमि या मरुस्थल में चलने पर अनध्याय होता है । इन सैंतीस अनध्यायों का समय इनके निमित्त की सत्ता रहने तक समझना चाहिए ॥ १५१ ॥ एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह— देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥ देवानां देवार्चानाम्ऋत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाक्रामेन्ना- धितिष्ठेन्न लङ्घयेद्बुद्धिपूर्वकम् । तथाह मनुः (४।१३०)—'देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बभ्रुगो दीक्षितस्य च ॥' इति । बभ्रुगो नकुलवर्णस्य यस्य कस्यचिद्धोरन्यस्य वा श्यामादेः,^४ 'बभ्रुणु' इति नपुंसक- लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । 'आदि' ग्रहणात्स्नानोदकादेर्ग्रहण्म् । (मनु. ४।१३२)—'उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठ्यूत- वान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥ भाषा—देवता, ऋत्विज्, स्नातक, आचार्य, राजा और पर स्त्री की छाया न लाँघे । रुधिर, विष्ठा, मूत्र, खखार, उद्वर्तन (उबटन की झीली) (तथा स्नान करने पर गिरे हुए जल) को भी न लाँघे ॥ १५२ ॥ विप्राद्दिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आ मृत्योः श्रियमाकाङ्क्षेन्न कञ्चिन्मर्माणि स्पृशेत् ॥ १५३ ॥ विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय- १. ऊखरं । २. अध्ययन अध्यापन । ३. कृतावसक्थिक ऊरुभ्यामवर्न गतः । ४. सोमादेः ।