याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 181, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १२५ मदमत्सरः मदो गर्वः, मत्सर ईर्ष्या, ताभ्यां रहितः । स्वर्गं निरतिशयसुखम् । अपत्यमविशेषेण । ओज आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरम् , पुत्रो गुणवान् , श्रेष्ठ्यं जातिषु, सौभाग्यं जनप्रियता । समृद्धिर्धनादेः, मुख्यता अग्रयता, शुभं सामान्येन, प्रवृत्तचक्रता अप्रतिहताज्ञता, वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः, अरोगित्वं अनामययोगित्वम् , यशः प्रख्यातिः, वीतशोकता इष्टवियोगादिजनितदुःखाभावः, परमा गति- र्ब्रह्मलोकप्राप्तिः, धनं सुवर्णादि, वेदा ऋग्वेदादयः, भिषक्सिद्धिरौषधफलावाप्तिः, कुप्यं सुवर्णरजतव्यतिरिक्तं ताम्रादि, गावः प्रसिद्धाः, अजाश्च अवयश्च अश्वाश्च, आयुर्दीर्घजीवनम् ॥ २६५-२६८ ॥ भाषा—स्वर्ग, सन्तान ( पुत्र ), शक्ति, निर्भयत्व, उर्वर खेत, शारीरिक बल, गुणवान् पुत्र, जाति में प्रधानता, जनप्रियता, धनादि समृद्धि, नेतृत्व, सामान्य सुख, अजेयता, यश, शोकनाश, ब्रह्मलोक में परमपद, धन, वेदज्ञान, औषधि की सिद्धि ताम्रादि द्रव्य, गौवें, बकरे, भेंड़े, अश्व और दीर्घजीवन, इन सभी फलों को कृत्तिका से आरम्भ करके भरणी तक प्रत्येक नक्षत्र में श्रद्धापूर्वक एवं मानमत्सर छोड़कर विधिपूर्वक श्राद्ध देने वाला व्यक्ति प्राप्त कर लेता है ॥ २६५-२६८ ॥ 'मासवृद्धयाभितृप्यन्ति दत्तैरिह पितामहाः' ( आ० २५९) इत्यनेन पितॄणां श्राद्धेन तृप्तिर्भवतीत्युक्त,-तदनुपपन्नम् ; प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृप्त्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह— वसुरुद्रादितिसुता पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄञ्श्राद्धेन तर्पिताः ॥ २६९ ॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ २७० ॥ नह्यत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर्न शरीरमात्रं, नाप्या- त्ममात्रं, किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वाद्यः पुत्रादिभिर्द- त्तेनान्नपानादिना तृप्ताः सन्तस्तानापि देवदत्तादींस्तर्पयन्ति कर्तॄंश्च पुत्रादीन्फनले १. स्वर्गोऽतिशयसुखं । २. अनामयित्वं । ३. शुभाशुभफलकर्मविशे- षेण । ४. श्राद्धेषु । ५. नॄणां प्रीताः ।