भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 26, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 26

( ३० ) याज्ञवल्क्य-स्मृति में किये गये मनु-स्मृति के संक्षेप के कुछ निदर्शन निम्न- लिखित हैं—


म० स्मृ०

(१) प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्य-मधु-सर्पिषाम् ॥ नामधेयं दशम्यान्तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥ चतुर्थे मासि कर्तव्यम् शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं शुभे ॥ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुति-चोदनात् ॥ २।२९-३०, ३४-३५ ॥

(२) हीन-जाति-स्त्रियं मोहात् उद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु स-सन्तानानि शूद्रताम् ॥ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ॥ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ ३।१५, १७॥

(३) सुवासिनीः कुमारीश्च रोगिणी गर्भिणीः स्त्रियः । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चात् अवशिष्टन्तु दम्पती ॥ ३।११४, ११५॥


या० स्मृति०

(१) ......एते जातकर्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्न-प्राशनं मासि चूडा कार्या यथाकुलम् ॥ १।११-१२।।

(२) यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः । नैतन्मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ १।५६॥

(३) बालः स्ववासिनी-वृद्ध- गर्भिण्यातुर-कन्यकाः । सम्भोज्यातिथि-भृत्यांश्च दम्पत्योः शेष-भोजनम् ॥ १।१०५॥