भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 424, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 424

३६८ याज्ञवल्क्यस्मृतिः न मयेदं कृतमिति भयान्निहुते तदपि स्तेयम् ॥ नारदेनाप्युक्तम् ( १४।१७ )- 'उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम् । सुसत्तमप्रमत्तेभ्यः स्तेयमाहुर्म- नीषिणः ॥' इति ॥ तत्र तस्करग्रहणपूर्वकत्वादण्डनस्य, ग्रहणस्य च ज्ञानपूर्वकत्वात् , ज्ञानोपायं तावदाह— ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २६६ ॥ यः 'चौरोऽयम्' इति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषस्थानपालप्रभृ- तिभिर्गृहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदेशादारभ्य चौर्यपदानुसरणेन वा ग्राह्यः । यश्च पूर्वकर्मापराधी प्राक्प्रख्यातचौर्यः, अशुद्धोऽ- प्रज्ञातो वासः स्थानं यस्यासावशुद्धवासकः, सोऽपि ग्राह्यः ॥ २६६ ॥ भाषा—जिसे लोग चोर कहे उस व्यक्ति को ग्राहक (स्थानपाल आदि राजा द्वारा नियुक्त अधिकारी) पकड़े चुराई गई वस्तु के मिलने, चोरी का चिह्न मिलने, चौर्य पद के अनुसरण से, पहले अपराधी होने (नामजद चोर होने) और निवासस्थान सही न ज्ञात होने से किसी को चोरी के अभियोग में पकड़ना चाहिए ॥ २६६ ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ २६७ ॥ परद्रव्यगृहाणां च पृच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥ २६८ ॥ किंच, न केवलं पूर्वोक्ता ग्राह्याः, किन्त्वन्येऽपि वक्ष्यमाणैर्लिङ्गैः शङ्कया ग्राह्याः । जातिनिह्नवेन 'नाहं शूद्र' इत्येवंरूपेण, नामनिह्नवेन 'नाहं डित्थै' इत्येवंरूपेण, 'आदि' ग्रहणात्स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्वतिप्रसक्तास्तथा 'कुतस्त्योऽसि त्वम् ?' इति चौरग्राहिभिः पृष्टो यदि शुष्कमुखो भिन्नस्वरो वा भवति, तर्ह्यसावपि ग्राह्यः । बहुवचनात्स्त्रीश्वभ्रलतादीनां ग्रहणम् । तथा ये निष्कारणं 'कियदस्य धनं, किं वाऽस्य गृहम्' इति पृच्छन्ति, ये च वेषान्तरधारणेनात्मानं गृहयित्वा चरन्ति, ये चायाभावेऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजना- दीनामविज्ञातस्वामिकानां विक्रयकास्ते सर्वे चौरसंभावनया ग्राह्याः । पूर्व १. नाशदिवसा । २. नामजात्यादि । ३. गूढवासिनः । ४. लपित्थ इत्येवं । ५. गृहमित्येवंविधं पुच्छन्ति ।