याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 425, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३६६ नानाविधचौरलिङ्गान्पुरुषान्गृहीत्वा एते चौराः किं वा साधव इति सम्यक्- परीक्षेत, न पुनर्लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि लोप्त्रादि- लिङ्गसंबन्धसंभवात् । यथाह नारदः—'अन्यहस्तात्परिभ्रष्टमकामादुच्छ्रितं भुवि । चौरेण वा परिशिप्तं लोप्त्रं यत्नात्परीक्षयेत् ॥' तथा—'असत्याः सत्यसंकाशाः सत्याश्चाऽसत्यसंनिभाः । दृश्यन्ते विविधा भावास्तस्मादुक्तं परीक्षणम् ॥' इति ॥ २६७–२६८ ॥ भाषा—अपनी जाति और नाम छिपाने वाले, जुआ, वेश्या-गमन और मद्यपान आदि व्यसनों में लिप्त रहने वाले, ( तुम कहां से आये हो ऐसा पूछने पर) जिनका मुख सूख जाता हो और बोली बदल जाती हो उन व्यक्तिय को, दूसरे के धन और घर के विषय में बातें पूछने वाले को, ( वेष आदि बदलकर ) गुप्त निवास करने वाले, आय न होने पर भी अधिक व्यय करने वाले और खोई हुई वस्तु को बेचने वाले व्यक्तियों को भी सन्देह से पकड़ना चाहिए ॥ २६७–२६८ ॥ एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्याह— गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २६९ ॥ यदि चौर्यशङ्कया गृहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमा- णधनदापनवधादिदण्डभाग्भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥ ननु 'नाहं चौरः' इति मिथ्योत्तरे कथं प्रमाणं संभवति ? तस्या- भावरूपत्वात् । उच्यते,—दिव्यस्य तावद्भावाभावगोचरत्वं 'रुच्या वाऽन्यतरः कुर्यात्' इत्यत्र प्रतिपादितम् । मानुषं पुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति, तथापि कारणेन संसृष्टे भावरूपमिथ्याकारणसाधनमुखेनाभावमपि गोचरयत्येव । यथा 'नाशापहारकाले अहं देशान्तरस्थ' इत्यभियुक्तैर्भाविते चौर्याभावस्याप्यर्थात्सिद्धेः शुद्धिर्भवत्येव ॥ २६९ ॥ भाषा—जो चोरी की शंका से पकड़ा गया हो और अपनी निर्दोषता न प्रमाणित करे उससे चोरी गया हुआ धन दिलाकर चोर के लिये विहित दण्ड भी देना चाहिए ॥ २६९ ॥ चौरदण्डमाह— चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । यस्तु प्रागुक्तपरीक्षया यन्निरपेतं वा निश्चितचौर्यस्तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर्वधैर्घातैर्घातयेत् । एतच्चोत्तमसा- १. प्रतिषिप्तं । २. गतं ।