याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 522, कुल 782 में से
संदर्भ में पढ़ें४६६ याज्ञवल्क्यस्मृतिः पूर्वोक्तमुपसंहरति— अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । १आत्मनस्तु जगत्सर्वं जगच्चात्मसंभवः ॥ ११७ ॥ प्रागुक्तरीत्या अनादिरात्मा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवाऽादिरुद्भवः कथितः ‘अजः शरीरग्रहणाद्’ (प्रा०६९) इत्यत्र । परमात्मनश्च सकाशात्पृथिव्या- दिकल भुवनोद्भवः तस्मादुद्भूतं२च्च पृथिव्यादिभूतसंघाताज्जीवानां स्थूलशरी- रतथा संभवश्च कथितः ‘सर्गादौ स यथाकाशं’ (प्रा० ७०) इत्यादिना ॥ ११७॥ भाषा—(उपरोक्त रीति से) आत्मा अनादि हैः उसका शरीर से युक्त होना ही उद्भव कहा गया है । आत्मा (अर्थात् परमात्मा) से ही पृथिवी आदि सम्पूर्ण जगत् की उत्पत्ति होती है और पृथिवी आदि जगत्प्रपंच से आत्मा स्थूल शरीर में उत्पन्न होता है ॥ ११७ ॥ एतदेव प्रश्नपूर्वकं विवृणोति— कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुद्भूतमात्मा च कथं तस्मिन्वदस्व नः ॥ ११८ ॥ यदेतत्त्सकलसुरासुरमनुजादिसहितं जगदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभागभवतीत्येतस्मिन्नर्थे विमु- ह्यामः । अतो मोहापनुत्त्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥ भाषा—(मुनियों ने प्रश्न किया) देवता, असुर और मनुष्य आदि से युक्त यह संसार आत्मा से कैसे उत्पन्न हुआ और उस जगत्प्रपंच में आत्मा किस प्रकार शरीर ग्रहण कर लेता है, इसे हम समझ नहीं पा रहे हैं, कृपया विस्तारपूर्वक बतावें ॥ ११८ ॥ एवं मुनिभिः पृष्टः प्रत्युत्तरमाह— मोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽङ्गरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥ इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तद- पास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चाः अनन्त- रश्मिः सहस्रकः बहुशिरा दृश्यते । एतच्च तत्तद्गोचरशक्त्याधारतयोच्यते; तस्य साक्षात्कारादिसंबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ १. आत्मनश्च । २. संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां । ३. विराट् च ।