याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 523, कुल 782 में से
संदर्भ में पढ़ेंविश्वरूपः सर्वात्मकः । वैश्वरूप्यमेव कथमिति चेत् । यस्मादसौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वमुपगच्छति । यज्ञाच्च वृष्ट्यादिद्वारेण प्रजासृष्टि- रित्येवं वैश्वरूप्यम् ॥ ११९-१२० ॥ भाषा-( याज्ञवल्क्य मुनि ने उत्तर दिया— ) इस संसार में (स्थूल- कलेवर आदि में, जो आत्मा नहीं है, आत्मा का भान करने के) मोहजाल को छोड़कर जो अनेक हाथ, पैर, नेत्र वाला, सूर्य के समान अनन्त किरणों वाला तथा अनेक शिरवाला दिखाई पड़ता है वही आत्म है, यज्ञ और प्रजापति है, वह विश्वरूप है जिससे विराज ( पुरोडाश आदि ) अन्न के रूप में यज्ञ होता है । ( यज्ञ से वृष्टि होती है और उससे प्रजा की सृष्टि होती है) ॥ ११९-१२० ॥ एतदेव प्रपञ्चयति— यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः । देवान्संतर्प्य स रसो यजमानं फलेन च ॥ १२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ १२२ ॥ खंमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यज्जन्म सर्वभूतानामशनानशनात्मनाम् ॥ १२३ ॥ तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः । एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ १२४ ॥ द्रव्यस्य चरुपुरोडाशादेर्देवतोद्देशेन त्यागाद्यो रसः अदृष्टरूपमात्मनः परिणत्यन्तरमुत्तमः सकलजगज्जन्मबीजतयोत्कृष्टतमः संभूतः स देवान्संप्रदा- नकारकभूतान्सभ्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्चन्द्रमण्डलं प्रति नीयते । ततः शशिमण्डलाद्रश्मिभिर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यभेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते । ततश्च खमण्डलादसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामशनान- शनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्माद् वृष्टिसंपादितौषधिम- यात्प्रजोत्पत्तिहेतोरन्नात्पुनर्यज्ञः, यज्ञाच्च पूर्वाभिहितं भङ्ग्या पुनरन्नं, अन्नाच्च पुनः क्रतुरित्येवमेतदखिलं संसारचक्रं प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्य- क्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशादखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ १२१-१२४ ॥ १. त्यागात्सम्भूतो । २. तन्मण्डलमसौ । ३. प्रत्युपनीयते । ४. विहितसंज्ञात्पुनरन्नं । ३० या०