याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 526, कुल 782 में से
संदर्भ में पढ़ें४७० याज्ञवल्क्यस्मृतिः तत्र पूर्वोक्तस्योत्तरमाह— अन्त्यपक्षिस्यावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ १३१ ॥ यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोह- रागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचय- माचरति । तेन चान्त्यादिहीनयोनितामापद्यते । अन्त्याश्चण्डालादयः, पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्यावस्ता तां यथाक्रमेण मनोवाक्कायारब्धकर्मदोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥ भाषा—(याज्ञवल्क्य प्रथम प्रश्न का उत्तर देते हैं) यह जीव (सत्य, ज्ञान और आनन्द स्वरूप ईश्वर होते हुए भी) मन, वाणी और शरीर द्वारा किये गये कर्म से उत्पन्न दोषों के कारण चण्डाल, पक्षी और वृक्ष आदि स्थावर पदार्थों का रूप सैकड़ों योनियों में प्राप्त करता है ॥ १३१ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२ ॥ किंच, शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्त्वाद्युद्रेक- तारतम्याद्यथाऽनन्तास्तथा तत्कार्याण्यपि रूपाणि कुब्जवामनत्वादीनि देहिनां सर्वयोनिषु भवन्ति ॥ १३२ ॥ भाषा—जीवों के अपने-अपने शरीरों में जिस प्रकार के अनन्त भाव होते हैं उसी प्रकार के रूप भी सभी योनियों में देहियों को प्राप्त होते हैं ॥ ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तरमेव तैर्भवितव्यमित्या- शङ्क्याह— विपाकः कर्मणां प्रेत्य केषांचिदिह जायते । इह वाऽमुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ १३३ ॥ केषांचिज्ज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषां- चित्कारीर्यादिकर्मणां वृष्ट्यादिफलमिहैव भवति । केषांचिच्चित्रादीनां फलं पश्चा- दिकमिह देहान्तरे वेत्यनियतम् । नह्यनन्तरमेव कर्मफलेन भवितव्यमिति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजक- भूतस्तदायत्तत्वात्फलतारतम्यस्य ॥ १३३ ॥ भाषा—कुछ (ज्योतिष्टोम आदि) कर्मों के फल मृत्यु के उपरान्त दूसरा शरीर मिलने पर प्राप्त होते हैं और कुछ कर्मों के फल इसी लोक में १. अनन्ता हि । २. इह चामुत्र चैकेषां ।