याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 723, कुल 782 में से
संदर्भ में पढ़ेंटिप्पणी (नोट्स) ६६७ श्लो० २३९—वाग्यतः—मनु का कथन निम्न-लिखित है— अण्युष्णं सर्वमन्नं स्यात् भुंजीरंस्ते च वाग्यतः । न च द्विजातयो ब्रूयुः दात्रा पृष्टा हविर्गुणान् ॥ दात्रा अन्नादिगुणान् पृष्टा वक्त्राद्यभिनयेनाऽपि न ब्रूयुः, वाग्यतत्वस्य अत्रैव विधानात्—कुल्लूक भट्ट। श्लो० २४५—इदं जपेत्—यह पितृ प्रार्थना है। अतएव मनु का कथन हैः— दक्षिणां दिशमाकांक्षन् याचेतेमान् वरान् पितॄन् ॥ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमत् बहुदेयं च नोऽस्त्विति ॥ अतः दातारो नोऽभि० आदि की भूमिका में "ब्राह्मणप्रार्थना”—का विज्ञानेश्वरकृत निर्देश उचित नहीं प्रतीत होता है । श्लो० २५४—स्त्रिया अपि—स्त्री के सपिण्डीकरण के विषय में हारीत का कथन निम्नलिखित हैः— स्वेन भर्त्रा सहैवास्याः सपिण्डीकरणं स्त्रियाः । एकत्वं सा गता यस्मात् चह्ममन्त्राहूतिम्रतैः ॥ तस्मिन् सति सुताः कुर्युः पितामह्या सहैव तु । तस्यां चैव तु जीवन्त्यां तस्याः श्वश्रवेति निर्णयः ॥ तस्याः श्वश्र्वाः = प्रपितामही के साथ । श्लो० २५५—वृद्ध्याद्यपकर्षनिमित्तं सपिण्डनं मध्येऽपि कर्त्तव्यम् । कृते तस्मिन् अभ्युघटश्राद्धं वर्षपर्यन्तं कर्त्तव्यमेव । किन्तु प्रेतपदोल्लेखो न कार्यः— शूलपाणि । श्लो० २५६—प्रतिसम्वत्सरम्—एतच्च निरग्निविषयम्—ऐसा शूल- पाणि का मत है। श्लो० २६७—पिण्ड-प्रक्षेप के विषय में मनु का मत निम्नलिखित है— एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । गां विप्रमजमग्निं च प्राशयेदप्सु वा क्षिपेत् ॥ पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते । वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमन्तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनी ॥ आयुष्यमन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥