याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 735, कुल 782 में से
संदर्भ में पढ़ेंटिप्पणी (नोट्स) ६७५ साहसम् = “स्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम्” (मनुस्मृतिः) श्लो० ७८—अत एव नारद का भी कथन है :— साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ श्लो० ८१—विवास्यो ब्राह्मणः—अतएव मनु ने कहा है :— न जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् । कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ इत्यादि । श्लो० ८३—चरुः सारस्वतः—इसका विकल्प मनु ने बतलाया है :— कूष्माण्डैर्वापि जुहुयाद् घृतमग्नौ यथाविधि । उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन तु ॥ द्वादशरात्रे पयः पिबन् कूष्माण्डैर्जुहुयात् (बौधायनः) शूद्रश्चैकदिनकं गोद्दशकस्य ग्रासं दद्यात् (विष्णुः) श्लो० ८६—स्वहस्तेन—यह अक्षराभिज्ञ ऋणी के विषय में है । अक्षरा- नभिज्ञ ऋणी को अन्य सत्पुरुष द्वारा लिखवाना चाहिए । अत एव व्यास का कथन है :— अलिपिज्ञ ऋणी यः स्याल्लेखयेत् स्वमतं तु सः । श्लो० ९५—दिव्य का विषय नारद ने बतलाया है :— यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदा दिव्यैः परीक्षेत शपथैश्च विभावयेत् ॥ शीर्षकस्थे = यदि अभियोक्ता साभिमान ऐसा उद्घोष करे कि यदि अभि- युक्त अपराधी नहीं सिद्ध होगा तो वह अभियोक्ता स्वयं दण्डभागी बनेगा— तो (तुला आदि दिव्य का प्रयोग होना चाहिए) । श्लो० ९८—यहाँ कात्यायन का वचन द्रष्टव्य है :— राजन्येऽग्निं घटं विप्रे वैश्ये तोयं निधापयेत् । सर्वेषु सर्वं दिव्यं वा विषवर्जं द्विजोत्तमे ॥ गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव ग्राहयेत् शूद्रवद् द्विजान् ॥