योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक)
Yogini Hridayam with Amritanandanatha Dipika by Vraj Vallabha Dwivedi
अमृतानन्दनाथ (भाष्यकार: पं. व्रजवल्लभ द्विवेदी) द्वारा
पृष्ठ 445, कुल 485 में से
संदर्भ में पढ़ेंपरापञ्चाशिका आद्यनाथविरचिता [ ^१सर्वसंविन्नदीभेदभिन्नविश्रान्तिभूमये । नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ॥ ] अकृत्रिमाहमा^२मर्शप्रकाशैकघनः शिवः । शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया ॥१॥ शिवादिक्षितिपर्यन्तं विश्वं वपुरुदञ्चयन् । पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः ॥२॥ न^३ पार्थग्या(र्थक्या)हमवार्ताऽपि विश्वशक्तिशरीरयोः । न^४ विश्वविश्ववपुषोर्भिन्नता कापि तात्त्विकी ॥३॥ भेदे^५ सत्तास्फुरत्ताभ्यां भिन्नं किं नु^६ जगद् भवेत् । ^७सत्तास्फुरत्तासम्बन्धात् सत्ताभानं तु^८ तन्न^९ चेत् ॥४॥ असतः किं सतस्ताभ्यां सम्बन्धः सोऽयमिष्यते । स्वरूपलाभसुलभः सम्बन्धो नह्यवस्तुनः ॥५॥ ^१०न लब्धरूपसम्बन्धस्ताभ्यां ^११किञ्चिदपेक्षते^१२ । अपेक्षायामवस्थानं न स्यादेतस्य किञ्चन ॥६॥ स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी^१३ । विनाशानभ्युपगमे^१४ जडताऽपि^१५ निवर्तते ॥७॥ ततो गत्यन्तराभावाच्चिदेव परिशिष्यते । ^१६ततश्चिदेक्यं प्रकृतं ^१७जगतो न निवर्तते ॥८॥ प्रकाशा^१८दन्यताभासः स्वात^१९न्त्र्योल्लासकेवलः । परिच्छिनत्ति^२० कः शक्तिं शम्भोर्विश्वातिशायिनः ॥९॥ १. यो. हृ. दी. (३।४१) परापञ्चाशिकावचनत्वेनोद्धृतः श्लोकोऽयं कस्यामपि मातृ- कायां न दृश्यते । २. मर्षः-म. । ३. पृथगर्थमर्थवत्ता विश्वविश्वश-मु. ल., नास्ति पङ्क्तिः-स. अक. । ४. नाविश्व-स. अक. । ५. भेद-स. अक. घ. । ६. किन्तु-मु. । ७. नास्ति पङ्क्तिः-अघ. । ८. च-मु. अग. घ. । ९. तन्न-मु. । १०. नालब्धरूपः-स. अक., रूपसंबन्धे-मु. ल. । ११. कच्चि-अघ. । १२. क्ष्यते-मु. ल. । १३. शिवम्-स. अक. ख. ग., शिनः-म. । १४. मात्-स. अक. घ. । १५. न-स., च-अघ., विनि-अक. । १६. सत:-मु., सत: शिवै-स., अतः शिवै-अक. । १७. जडतो न-स. म. अख. ग. घ., कदाचिन्म-मु. । १८. शोऽनन्यतो भावः-मु., शादन्यदाभासः-अक. । १९. न्त्र्यादस्ति-स. अक. । २० न्नात्मिका शक्तिः-मु., न्नकलां-अख. ग. । Courtesy: Shri Tarun Dwivedi, Surviving Son of Late Vraj Vallabh Dwivediji (15 Jul 1926 - 17 Feb 2012)