भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 264, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 264

२२४ युक्तिकल्पतरौ— वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्व्विधा । समासेनैव गदितं तेषां काष्ठं चतुर्व्विधम् ॥ ८३ ॥ तद्यथा । लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढाङ्गं लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥ कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते । दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते । लक्षणद्वययोगेन द्विजातिः काष्ठसंग्रहः ॥ ८५ ॥ क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका । अन्ये लघुभिः सुदृढैः विदधति जलदुष्यदे(१)नौकाम् ॥ ८६ ॥ विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका । नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥ न सिन्धुगायार्हति (२) लौहबन्धं, तल्लोह-कान्तैः छ्रियते हि लौहम् । विपद्यते तेन जलेषु नौका ; गुणेन बन्धं निजगाद भोजः ॥ ८८ ॥ अथ लक्षणानि । सामान्यञ्च विशेषञ्च नौकाया लक्षणद्वयम् ॥ ८६ ॥ तत्र सामान्यम् । राजहस्तमितायामा तत्पादपरिणाहिनौ । तावदेवोन्नता नौका क्षुद्रेति गदिता बुधैः ॥ ९० ॥ ( १ ) जलदुष्यदैः इति (क) पुस्तकपाठः । ( २ ) न सिन्धुगाच्छर्हति लौहबन्धं इति (ख) पुस्तक पाठः ।