युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
२२४ युक्तिकल्पतरौ— वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्व्विधा । समासेनैव गदितं तेषां काष्ठं चतुर्व्विधम् ॥ ८३ ॥ तद्यथा । लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढाङ्गं लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥ कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते । दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते । लक्षणद्वययोगेन द्विजातिः काष्ठसंग्रहः ॥ ८५ ॥ क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका । अन्ये लघुभिः सुदृढैः विदधति जलदुष्यदे(१)नौकाम् ॥ ८६ ॥ विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका । नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥ न सिन्धुगायार्हति (२) लौहबन्धं, तल्लोह-कान्तैः छ्रियते हि लौहम् । विपद्यते तेन जलेषु नौका ; गुणेन बन्धं निजगाद भोजः ॥ ८८ ॥ अथ लक्षणानि । सामान्यञ्च विशेषञ्च नौकाया लक्षणद्वयम् ॥ ८६ ॥ तत्र सामान्यम् । राजहस्तमितायामा तत्पादपरिणाहिनौ । तावदेवोन्नता नौका क्षुद्रेति गदिता बुधैः ॥ ९० ॥ ( १ ) जलदुष्यदैः इति (क) पुस्तकपाठः । ( २ ) न सिन्धुगाच्छर्हति लौहबन्धं इति (ख) पुस्तक पाठः ।
अतः सार्द्धमितायामा तदर्द्ध-परिणाहिनी । त्रिभागेणोत्थिता नौका मध्यमेति प्रचक्षते ॥ ६१ ॥ क्षुद्राथ मध्यमा भीमा चपला पटलाऽभया (१)। दीर्घा पत्रपुटा चैव गर्भरा मन्थरा तथा ॥ ६२ ॥ नौकादशकमित्युक्तं राजहस्तैरनुक्रमम् । एकैकवृद्धैः(वृद्धेः) सार्द्धैश्च विजानीयाद् द्वयं द्वयम् ॥ ६३ ॥ उन्नतिश्च प्रवीणा च हस्तादर्द्धांश-सम्मिता । अत्र भीमाऽभया चैव गर्भरा (२) चाशुभप्रदा ॥ ६४ ॥ मन्थरा परतो यास्तु तासामेवाम्बुधौ गतिः । तासां गुणस्तु संक्षेपात् दृढता च प्रकीर्त्तिता ॥ ६५ ॥ अथ विशेषः । लौहताम्रादिपत्रेण कान्तलोहेन वा तथा । दीर्घा चैवोन्नता चेति विशेषे द्विविधा भिदा ॥ ६६ ॥ तत्र दीर्घा यथा,— राजहस्तद्व
२२६ युक्तिकल्पतरौ— लोलायाः फलमाधत्ते एवं सर्व्वासु निर्णयः । वेगिन्याः परतो या तु सा शिवाद्योत्तरा यथा ॥ १ ॥ भोजोऽपि,— नौकादैर्घ्यं यथेच्छं स्यात् तत्रैतानि विवर्ज्जयेत् । हस्तसंख्या परित्याज्या वसुवेद (१) ग्रहोत्तरे ॥ २ ॥ षष्ठुत्तरमिता नौका कुलं हन्ति वलं धनम् । नवतेरुत्तरे यापि या चत्वारिंशतः परा ॥ ३ ॥ एतेन चत्वारिंशत्-षष्टि नवति (२) संख्या तत्परतोऽपि । यावदपरदशकं तावदेव तत्फलमिति ॥ ४ ॥ इति दीर्घा । अथोन्नता । राजहस्तद्वयमिता तावत्प्रसरणोन्नता । इयमूर्द्धाभिधा (३) नौका क्षेमाय पृथिवी-भुजाम् ॥ ५ ॥ ऊर्द्ध्वानूर्द्धा स्वर्णमुखी गर्भिणी मन्थरा तथा । राजहस्तैकैक वृद्ध्या नाम पञ्चतयं भवेत् ॥ ६ ॥ अत्रानूर्द्धा गर्भिणी च निन्दितं नामयुग्मकम् । मन्थरायाः (४) परा यास्तु ताः शुभाय यथोद्भवम् ॥ ७ ॥ भोजोऽपि,— वाणाग्न्युत्तरतो मानं नौकानां शुभं वहेत् । पञ्चाशदूर्द्धादुत्त्रासं धननाशं त्रयोऽर्द्धतः ॥ ८ ॥ इत्युन्नता । (१) वसुदेव इति (क) पुस्तकपाठः । (२) न भवति इति (ख) पुस्तकपाठः । (३) इयमूर्द्धाविधा इति (ग) पुस्तकपाठः । (४) मन्थरीयाः इति (घ) पुस्तकपाठः ।
धातु-नौयानयुक्तिः । २२७ धात्वादीनामतो वक्ष्ये निर्णयं तरि-संश्रयम् । कनकं रजतं ताम्रं त्रितयं वा यथाक्रमम् ॥ ९ ॥ ब्रह्मादिभिः परिन्यस्य नौका चित्रण-कर्मणि । चतुःशृङ्गा त्रिशृङ्गाभा (१) द्विशृङ्गा चैकशृङ्गिणी ॥ १० ॥ सितरक्तापीतनीलवर्णान् दद्याद् यथाक्रमम् । केशरी महिषो नागो द्विरदो व्याघ्र एव च ॥ ११ ॥ पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् । नावां (२) मुखे परिन्यस्य आदित्यादि-दशाभुवाम् ॥ १२ ॥ कलसो दर्पणश्चन्द्रस्त्रैदशानां महीभुजाम् । हंसः केकी शुकः सिंहो गजोऽहिव्याघ्र षट्पदौ ॥ १३ ॥ आदित्यादिदशा जात(ता) नौकोपरि परिन्यसेत् । चतुस्त्रित्वेक विमिता चतुर्व्वर्णा यथाक्रमम् ॥ १४ ॥ आच्छादनं चतुष्पाते कमला
२२८ युक्तिकल्पतरौ— ब्रह्मक्षत्रे द्वितये एकैके वैश्यशूद्रयोर्नौ । निर्गृहं सगृहं वाथ तत्सर्व्वं द्विविधं भवेत् ॥ १८ ॥ निर्गृहं पूर्व्वमुद्दिष्टं सगृहाणि यथा(च) शृणु । सगृहा (१) त्रिविधा प्रोक्ता (ह्योक्ता) सर्व्वमध्याग्रमन्दिरा ॥२०॥ सर्व्वतो मन्दिरं यत्र सा ज्ञेया सर्व्व-मन्दिरा । राज्ञां कोशाश्वनारीणां यानमत्र प्रशस्यते ॥ २१ ॥ मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा (२) । राज्ञां विलास यात्रादि(त्वं) वर्षासु च प्रशस्यते ॥ २२ ॥ अग्रतो मन्दिरं यत्र सा ज्ञेया त्वग्रमन्दिरा । चिरप्रवास यात्रायां रणे काले घनात्यये । मन्दिर(रा)मानं नौका प्रसरत एवार्द्ध (३) भागतो न्यूनम् ॥२३ भोजस्तु । दीर्घवृत्तवसुषट्-दिवाकरानेक-दिक् नवमिता यथाक्रमम् (४) । राजपञ्चभुजसम्मितोन्नति र्मन्दिरे तरिगते मह्नोभुजाम् ॥ २४ ॥ भास्करादिक-दशाभुवां पुनर्धातु निर्णयनमत्र पूर्व्ववत् । पताकाकलसादीनां निर्णयो नवदण्डवत् ॥ २५ ॥ काष्ठजं धातुजञ्चेति मन्दिरं द्विविधं भवेत् । काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ॥ २६ ॥ (१) सदाह्वा इति (क) पुस्तक पाठः । (२) मन्दिराङ्गनां इति (ख) पुस्तक पाठः । (३) प्रसरतान्न वा सुभागत इति (ग) पुस्तक पाठः । (४) दीर्घवृत्तदिवाकर वसुषट्दिवाकरखिक दिग्भुवमिता यथाक्रमात् । इति (घ) पुस्तक पाठः ।
यानयुक्तिः । २१८ अत्र शय्यासनादीनां मन्चरोङ्गोचयोरपि (१) । अन्येषाञ्चैव मुनिभि र्निर्णयः पूर्ववन्मतः ॥ २७ ॥ दिङ्मात्रमिहमुद्दिष्टं नौकालक्षणमग्रजम् । प्रधानेष्वेव नियमो अप्रधाने न निर्णयः ॥ २८ ॥ लघुता दृढ़ता चैव गामिता क्षिद्रता तथा । समतेति गुणोद्देशो नौकानां(यां) सम्प्रकाशितः ॥ २६ ॥ एवं विचिन्त्य यो राजा नौकायानं करोति च(द्धि) । स चिरं सुखमाप्नोति विजयं समरे श्रियम् ॥ ३० ॥ योऽज्ञानादन्यथा यानं नौकानां कुरुते नृपः । तस्यैतानि विनश्यन्ति यशो वीर्य्यं बलं धनम् ॥ ३१ ॥ इति निष्पद्यानोद्देशे नौका-यानम् ॥ ० ॥ —*— अथ जघन्यजलयानानि । यथा,— नौकान्यतो जले(स्य)यानं जघन्यमिति गद्यते । तद्देहा बह्ववस्ते तु पाश्चात्यानां प्रकीर्त्तिताः ॥ ३२ ॥ द्रोणीरूपन्तु यद्यानं द्रोणीयानं तदुच्यते । घटो(टा)भिर्घटितं यानं घटो नौकेति गद्यते ॥ ३३ ॥ तुम्बाद्यैस्तु (२) फलैर्यानं फलयानं प्रचक्षते । चर्म्मभिःस्थू(स्तू)लपूर्णैर्यच्चर्म्म-यानं तदुच्यते ॥ ३४ ॥ ( १ ) अत्र शय्यासनादीनामन्चरोन्नीचयोरपि इति (क) पुस्तक पाठः । ( २ ) तद्वाह्यैस्तु इति (ख) पुस्तक पाठः ।
२३० युक्तिकल्पतरौ— यानंयल्लघुभिश् च्छैह्रं च्त-यानन्तदुच्यते । जन्तुभिः सलिले यानं जन्तुयानं प्रचक्षते । बाहुभ्यां सन्तरेद्वारि जघन्येषु न निर्णयः ॥ ३५ ॥ श्रीभोजराजीये युक्तिकल्पतरौ निष्पद्यानोद्देशः ॥ इति श्रीमहाराज भोजराज-विरचितो युक्तिकल्पतरुः समाप्तः ॥ ० ॥
युक्तिकल्पतरूलिखित-ग्रन्थनामानि । ग्रन्थनाम पृष्ठे | ग्रन्थनाम पृष्ठे १ । बृहस्पतिनीतिः } | २५ । वात्स्यः ... ... १४० उशनसी } ... १ | २६ । लौहार्णवः ... ... १४१ २ । गर्गः } | २७ । लौहदीपः ... ... १४३ भोजः } ... ... २१ | २८ । शार्ङ्गधरः ... ... १४४ ३ । भविष्योत्तरम् ... ... २३ | २९ । लौहप्रदीपः ... ... १४५ ४ । पराशरः ... ... २७ | ३० । लौहप्रदीपः ... ... १४७ ५ । नीतिशास्त्रम् ... ... २८ | ३१ । पद्मपुराणम्, } ६ । भोजः ... ... ३१ | लौहप्रदीपः } ... १४९ ७ । मत्स्यपुराणम् ... ... ३२ | ३२ । लौहप्रदीपः ... ... १५४ ८ । भविष्योत्तरम् ... ... ३७ | ३३ । बृहद्धारीतः ... ... १५६ ९ । वात्स्यः ... ... ४३ | ३४ । नागार्जुनः ... ... १७३ १० । भोजः ... ... ४४ | ३५ । भोजः ... ... १७८ ११ । भोजः ... ... ४८ | ३६ । गार्ग्यः ... ... १८० १२ । भोजः, } | ३७ । वात्स्यः ... ... १८१ पराशरसंहिता } ... ५६ | ३८ । भोजः ... ... १८४ १३ । भोजः, } | ३९ । वात्स्यः ... ... १८५ पराशरः } ... ... ६२ | ४० । भोजः ... ... २०१ १४ । भोजः ... ... ६७ | ४१ । पालकाप्यः, } १५ । गरुडपुराणम्, } | गार्ग्यः } ... २०३ विष्णुधर्मोत्तरम् } ... ८४ | ४२ । वात्स्यः ... ... २०७ १६ । गारुडः ... ... ८६ | ४३ । गर्गः ... ... २०८ १७ । गारुडः ... ... ८७ | ४४ । गार्ग्यः } १८ । गारुडः ... ... १०८ | शङ्खः } ... २१२ १९ । गारुडः ... ... ११४ | २० । गारुडः ... ... १२३ | ४५ । भोजः ... ... २१४ २१ । गारुडः ... ... १२१ | ४६ । भोजः ... ... २१४ २२ । गारुडः ... ... १३३ | ४७ । भोजः ... ... २२५ २३ । गरुडपुराणम् ... ... १३४ | ४८ । भविष्योत्तरम् ... ... २२४ २४ । गारुडः ... ... १३६ | ४९ । भोजः ... ... २२८
Digitized By Siddhanta eGangotri Gyaan Kosha Entered in Database Signature with Date CC-0. Gurukul Kangri Collection, Haridwar.
Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.
Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.
Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.
(यह पृष्ठ रिक्त/कोरा आवरण पृष्ठ है, इस पर कोई मूल ग्रंथ अथवा देवनागरी पाठ उपलब्ध नहीं है।)
Digitized By Siddhanta eGangotri Gyaan Kosha ४३,२६√ हरिद्वार-गुरुकुल-विश्वविद्यालयः गुरुकुल कांगड़ी विश्वविद्यालय, हरिद्वार पुस्तक लौटाने की तिथि अन्त में अङ्कित है। इस तिथि को पुस्तक न लौटाने पर छै दश नये पैसे प्रति पुस्तक अतिरिक्त दिनों का अर्थदण्ड लगेगा।
30 MAY 1974 २५/६/77 धील १००००.६.५६। RA 310,BHO-Y 43279 CC-0. Gurukul Kangri Collection, Haridwar.
Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.
Digitized by Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar