युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 61, कुल 278 में से
संदर्भ में पढ़ेंनीतियुक्तिः । २३ चस्रं विशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥ १४८ ॥ राजहस्तैस्तु दशभी राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ १४९ ॥ राजच्छत्रैस्तु दशभी राजकाण्ड उदाहृतः । राजकाण्डैश्च दशभी राजपुरुष (३) उच्यते ॥ १५० ॥ राज-प्रधानौ (तु) कथिता दशभी (४) राजपुरुषैः । राजधानी दशगुणा (५) राजक्षेत्रमुदाहृतम् ॥ १५१ ॥ सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने । भय-श्री भोगसम्पत्ति-मृत्युकीर्त्ति-सुखार्थिनाम् ॥ १५२ ॥ राज-क्षेत्रेण नृपतिः * पूर-पत्तनमारभेत् । लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ १५३ ॥ समृद्धिर्वित्त-नाशश्च मङ्गलञ्च वलच्चयः । साम्राज्यं भोगसम्पत्तिरिति षोडश-कीर्त्तिताः ॥ १५४ ॥ यथार्थ संज्ञा † नगरी मुनिना तत्त्ववेदिना । —*— अथ वसति-लक्षणम् । विस्तीर्णमध्यो नगरः सममर्द्दे चतुष्पथः । प्रपा मण्डप कासार-काननाद्युपशोभितः ॥ १५५ ॥ —————————————————————————————— ( ३ ) पूरुष इति (क) पुस्तक पाठः । ( ४ ) स सती इति (क) पुस्तक पाठः । ——————————————————————————————
- पूरम्-राजान्तःपूरी । पत्तनं-पुटभेदनम् । † मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मंप्रकाशादौ, शुक्रनीतिसारे, बृहत्काश्यपीये, पराशरीय शिल्पाद्यौ च ।