युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 75, कुल 278 में से
संदर्भ में पढ़ेंवास्तुयुक्तिः । ३५ निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् । अपद्वारेऽवरोधस्य गमनागमन-क्रिया ॥ राज्ञो विलास-यात्रा च मर्मज्ञस्य प्रवेशनम् ॥ २३३ ॥ ——— * ——— अथ प्राचौर-निर्णयः । गजैरभेद्या मनुजैरलंङ्घयाः । प्राचौरखण्डा नृपतेर्भवन्ति ॥ २३४ ॥ राजदण्डोन्नताः सर्व्वे प्राचौरा पृथिवीभुजः । विंशतिस्तेषु पश्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ २३५ ॥ पश्चात् पञ्च च विज्ञेयाः प्राचौराः पृथिवीभुजः । सर्व्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ २३६ ॥ प्रति प्राकार(११) संस्थानं द्वारं नाभिमुखस्थितम् । तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ २३७ ॥ तद्यथा,— राज-छत्रान्तरे पञ्च राजद्वारे महीपतेः । राजदण्डत्रये सार्द्धे यमद्वारे प्रतिष्ठिताः ॥ २३८ ॥ अद्वारे (१२) राजदण्डार्द्धे प्राचौराः पृथिवोपतेः । एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ २३६ ॥ राजच्छत्रद्वयं सार्द्धं मायामे जय-वास्तुनि । परिणामे(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ २४० ॥ —————————————————————————————— ( ११) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः । ( १२) अत्वाद्वारे इति एतत् सन्दर्भस्थः पारिभाषिकः पाठार्थोन्ज्ञेयः ।