युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 76, कुल 278 में से
संदर्भ में पढ़ें३६ युक्तिकल्पतरौ- राजषट्ठाभिधानेन स्थानमेतन्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ २४१ ॥ अज्ञानाद्भ्रान्तो राजा योऽन्यत्र गृहमारेभेत् । सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ २४२ ॥ यमदण्डोदयदण्डौ कोणादिति (१३) रुपप्लवः * । ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ २४३ ॥ नम्पृश्यते (१४) राजपट्टे स्तैः सर्पैर्गरुड़ो यथा । द्विगुणादि रतोऽपि स्यात् क्रमादङ्गादि वास्तुषु ॥ राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥ २४४ ॥ * अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः । राज द्वारे हि प्राकारा राजच्छत्रान्तरे मताः । यमद्वारे † सार्द्धराज-छत्रान्ते रचयेन्नृपः ॥ २४५ ॥ अपद्वारे राजदण्डं जित आरम्भिताः पुनः । अद्वारे भूपतेस्तस्य राज-दण्ड-(१५) त्रयान्तरे ॥ २४६ ॥ (१३) केनो ? इति (क)-कोनो इति (ख) पुस्तक पाठः । (१४) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः । (१५) राजदण्डाच्चत्र्यान्तरे इति (ग) पुस्तक पाठः ।
- अत्रेति पदेन “अति वृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः” ॥ इति ज्योतिःशास्त्रीयवचनोपात्त' ज्ञेयम् । † यमद्वारेति एतद्ग्रन्थस्थः पारिभाविकोऽर्थो ज्ञेयः ।